________________
अ०८/प्र०६
कुन्दकुन्द के प्रथमतः भट्टारक होने की कथा मनगढन्त /१२१
आचार्य-पदस्थापना-विधि का मूलपाठ "सुमुहूर्ते दाता शान्तिकं गणधर-वलयार्चनं च यथाशक्ति कारयेत्। ततः श्रीखण्डादिना छटाः दत्त्वा तन्दुलैः स्वस्तिकं कृत्वा तदुपरि पट्टकं संस्थाप्य तत्र पूर्वाभिमुखं तमाचार्यपदयोग्यं मुनिमासयेत्। 'अथाचार्यपद-प्रतिष्ठापन-क्रियायामित्यादि' उच्चार्य सिद्धाचार्यभक्तिं पठेत्। ततः 'ऊँ हूँ परमसुरभि-द्रव्यसन्दर्भ-परिमलगर्भ-तीर्थाम्बु-सम्पूर्णसुवर्णकलशपञ्चक-तोयेन परिषेचयामीति स्वाहा' इति पठित्वा कलशपञ्चकतोयेन पादौ परिषेचयेत्। ततः पण्डिताचार्यः निर्वेदसौष्ठवेत्यादि-महर्षिस्तवनं पठेत्। पादौ समन्तात् परामृश्य गुणारोपणं कुर्यात्। ऊँ हूँ णमो आयरियाणं आचार्यपरमेष्ठिन्नत्र एहि २ संवौषट् आवाहनम्। ऊँ हँ णमो आयरियाणं आचार्यपरमेष्ठिन्नत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्। ॐ हूँ णमो आयरियाणं आचार्यपरमेष्ठिन् सन्निहितो भव भव वषट् संनिधिकरणम् इति आवाहनादिकं कृत्वा ततश्च ऊँ हूँ णमो आयरियाणं धर्माचार्याधिपतये नमः। अनेन सहेन्दुना चन्दनेन पादयोस्तिलकं दद्यात्। ततः शान्ति-समाधि-भक्तीः कृत्वा गुरुभक्त्या गुरुं प्रणम्योपविशति। ततः उपासकास्तस्य पादयोरष्टतयोमिष्टिं कुर्वन्ति। ततश्च गुरुभक्तिं दत्त्वा प्रणमन्ति। स दात्रे उपासकेभ्यश्चाशिषं दद्यात्। इति आचार्यपददान-विधिः।" (विविधदीक्षा-संस्कार-विधि / पृ.७२-७३)।
उपाध्याय-पददान-विधि का मूलपाठ "सुमुहूर्ते दाता गणधरवलयार्चनं द्वादशाङ्गश्रुतार्चनं च कारयेत्। ततः श्रीखण्डादिना छटाः दत्त्वा तन्दुलैः स्वस्तिकं कृत्वा तदुपरि पट्टकं संस्थाप्य तत्र पूर्वाभिमुखं तमुपाध्यायपदयोग्यं मुनिमासयेत्। 'अथ उपाध्यायपदस्थापनक्रियायां पूर्वाचार्येत्यादि' उच्चार्य सिद्धश्रुतभक्तीः पठेत्। ततः आवाहनादिमन्त्रानुच्चार्य शिरसि लवंगपुष्पाक्षतानि क्षिपेत्। तद्यथा ऊँ ह्रौं णमो उवज्झायाणं उपाध्यायपरमेष्ठिन्नत्र एहि २ संवौषट् आवाहनम्। ॐ णमो उवज्झायाणं उपाध्यायपरमेष्ठिन् तिष्ठ तिष्ठ ठः ठः स्थापनम्। ऊँ ह्रौं णमो उवज्झायाणं उपाध्यायपरमेष्ठिन् सन्निहितो भव भव वषट् सन्निधीकरणम्। ततश्च ऊँ ह्रौं णमो उवज्झायाणं उपाध्यायपरमेष्ठिने नमः। इदं मन्त्रं सहेन्दुना चन्दनेन शिरसि न्यसेत्। ततश्च शान्ति-समाधि-भक्ती: पठेत्। ततः स उपाध्यायो गुरुभक्तिं दत्त्वा गुरुं प्रणम्य दात्रे आशिषं दद्यादिति।" (विविध दीक्षा संस्कार विधि / पृ.७२)।
इन विधियों में कहीं भी यह उल्लेख नहीं है कि योग्य मुनियों के आचार्य और उपाध्याय पदों पर प्रतिष्ठित होने के पश्चात् सभी श्रावक अपने-अपने घर से महामहोत्सव-पूर्वक विभिन्न प्रकार की भेंट (वर्धापन) लाकर उनका अभिनन्दन करें
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org