SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ३६० / जैनपरम्परा और यापनीयसंघ / खण्ड १ अ०५/प्र०१ जाते हैं। (देखिये, अध्याय ३/प्र.१ / शी.२)। इस तरह श्वेताम्बर-परम्परा में तीर्थंकर का वेश अनग्न और किंचित् सचेल होता है। अतः उनकी मूर्तियाँ भी अनग्न और कथंचित् सचेल ही बनाई जाती हैं। श्वेताम्बरग्रन्थ 'प्रवचनपरीक्षा' के कर्ता उपाध्याय धर्मसागर जी (१५७२ ई०)२ ने इस पर विस्तार से प्रकाश डाला है। सर्वप्रथम मैं उनके उन वचनों को उद्धृत करता हूँ, जिनमें उन्होंने नग्नता के दोष बतलाते हुए यह सिद्ध किया है कि तीर्थंकर नग्न रहते हुए भी नग्न नहीं दिखते, अत एव नग्नताजन्य दोषों से मुक्त रहते हैं लोआणुवत्तिधम्मो लज्जा तह बंभचेररक्खा य। सीआतवदंस-मसग-पीडारहिअस्स सज्झाणं॥ ३०॥ वस्त्रधरणे लोकानुवृत्तिधर्मः प्रथमो गुणो लोकप्रतीतः। तत्र लोको मर्त्यलक्षणो, न तु तिर्यगादिस्तस्य लज्जादिनिमित्तं वस्त्रधारणासम्भवात् , तस्यानुवृत्तिः अनादिसिद्ध आचारस्तल्लक्षणो धर्मः सत्यापितः स्यादित्यर्थः। तथा लज्जा व्रीडा संयमो वा अर्थात् सा रक्षिता भवेत्। वस्त्राभावे च रासभादिवदविशेषेण लज्जाराहित्यं स्यात्। लज्जारहितस्य च कुतश्चारित्रपालनम्? चकारः समुच्चयार्थः, ब्रह्मव्रतरक्षा च-वस्त्रावृतस्य लज्जया ब्रह्मचर्य स्याद् अन्यथा वडवादर्शनाद् वाडवस्येव स्त्रीदर्शनाल्लिङ्गादिविकृत्या प्रवचनोड्डाहाब्रह्मसेवादयो बहवो दोषाः सर्वजनविदिता भवेयुः। तथा वस्त्रैः शीतोष्णकालादिषु शीतातपदंशमशकैर्या पीडा तया रहितस्य सद्ध्यानं धर्मशुक्ललक्षणं स्याद् वस्त्राभावे च क्षुधाद्यनाकुलस्यापि दुर्ध्यानम् अग्नितृणादिसेवाभिप्रायेण दुर्थ्यानं, तत्सेवने चासंयमः स्यादिति गाथार्थः। अथ पुनरपि गुणानाह पवयणखिंसा परवग्गमोहुदयवारणं च वत्थेहिं। तस-थावराण जयणा पत्तेहिं तहेव विण्णेआ॥ ३१॥ प्रवचनखिंसा-अहो! एते मुण्डाः पापात्मानः अस्मदीयपुत्रीवध्वादीन् स्वजनान् प्रत्यवाच्यं दर्शयन्तोऽपि न लज्जन्ते। अतो मास्मद्गृहादौ प्रविशन्त्विति वचोभिः प्रवचनहीला। तथा 'परवर्गस्य' पुरुषापेक्षया परवर्गः स्त्रीवर्गस्तस्य मोहोदयः। प्रायः स्त्रीपुरुषयोरयमेव स्वभावः यद्वस्त्रानावृतं परवर्गं दृष्ट्वा मोहोदयो भवत्येव, ततः प्रवचनखिंसा च परवर्गवेदोदयश्चेति द्वन्द्वस्तयोर्निवारणं वस्त्रेणैव स्यात्। अन्येऽपि वस्त्रादिसाधुनेपथ्यजन्याः पर्षद्धर्मप्राप्तिहेतवो रूपवस्त्रादय आचार्यगुणाः स्वधिया योज्याः। ननु जिनेन्द्र-जिनकल्पिकादयो वस्त्रादिरहिता एव भवन्ति, तेषां च कथमेते गुणा इति चेन्मैवं, जिनेन्द्रादीनामपि लोकानुवृत्त्यादिकारण-सद्भावे वस्त्रसद्भावस्यैवास्माकं सम्मतत्वात्। तत्कथमिति चेच्छृणु-जिनेन्द्रा अपि गृहस्थावस्थायां बालभावे तदतिक्रमे च २. डॉ. जगदीशचन्द्र जैन : प्राकृतसाहित्य का इतिहास / पृ.२८७ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004042
Book TitleJain Parampara aur Yapaniya Sangh Part 01
Original Sutra AuthorN/A
AuthorRatanchand Jain
PublisherSarvoday Jain Vidyapith Agra
Publication Year2009
Total Pages844
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy