________________
अ०४/प्र०१
जैनेतर साहित्य में दिगम्बरजैन मुनियों की चर्चा / २६३ ५. ऋषभ, इस क्रम से स्वायंभुव नामक प्रथम मनु की पाँचवीं पीढ़ी१५ में उत्पन्न बतलाया गया हैश्रीमैत्रेय उवाच
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ। तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः॥२/१/३॥ प्रियव्रतस्य नैवोक्ता भवता द्विज! सन्ततिः।
तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ॥२/१/४॥ श्रीपराशर उवाच
कर्दस्यात्मजां कन्यामुपयेमे प्रियव्रतः। सम्राट् कुक्षिश्च तत्कन्ये दशपुत्रास्तथाऽपरे॥ २/१/५॥ महाप्रज्ञा महावीर्या विनीता दयिता पितुः। प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु॥२/१/६॥ आग्नीध्रश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा। मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च॥२/१/७॥ ज्योतिष्मान्दशमस्तेषां सत्यनामा सुतोऽभवत्। प्रियव्रतस्य पुत्रास्ते प्रख्याता बलवीर्यतः॥ २/१/८॥ मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः। जातिस्मरा महाभागा न राज्याय मनो दधुः॥ २/१/९॥ निर्मलाः सर्वकालन्तु समस्तार्थेषु वे मुने। चक्रुः क्रियां यथान्यायमफलाकांक्षिणो हिते॥ २/१/१०॥ प्रियव्रतो ददौ तेषां सप्तानां मुनि सत्तम! सप्तद्वीपानि मैत्रेय! विभज्य सुमहात्मनाम्॥२/१/११॥ जम्बूद्वीपं महाभाग! साग्नीध्राय ददौ पिता। मेधातिथेस्तथा प्रादाप्लक्षद्वीपं तथापरम्॥ २/१/१२॥ शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान्। ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान्प्रभुः॥२/१/१३॥ द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत्। शाक द्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः॥२/१/१४॥
१५. श्रीमद्भागवतमहापुराण / स्कन्ध ५/अध्याय १-४ में भी इसी क्रम से भगवान् ऋषभदेव को
स्वायंभुवमनु की पाँचवीं पीढ़ी में उत्पन्न दर्शाया गया है।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org