SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २४ / जैनपरम्परा और यापनीयसंघ / खण्ड १ अ०२/प्र०२ तत - एतदीयभार्या तन्मातरं भणति–'निर्वेदिताऽहं त्वत्पुत्रेण, न खल्वेष रात्रौ वेलायां कदाचिदप्यागच्छति। तत उज्जागरकेण बुभुक्षया च बाध्यमाना प्रत्यहं तिष्ठामि।' ततस्तया प्रोक्तम्-'वत्से! यद्येवं, तर्हि त्वमद्य स्वपिहि, स्वयमेवाहं जागरिष्यामि।' ततः कृतं वध्वा तथैव, इतरस्यास्तु जाग्रत्या रात्रिप्रहरद्वयेऽतिक्रान्ते समागत्य शिवभूतिना प्रोक्तम्- 'द्वारमुद्घाटयत।' ततः प्रकुपितया मात्रा प्रोक्तम्-'दुर्नयविधे! यत्रतस्यां वेलायां द्वाराण्युद्धाटितानि भवन्ति तत्र गच्छ, न पुनरेवं तव पृष्ठलग्नः कोऽप्यत्र मरिष्यति।' ततः कोपाऽहङ्काराभ्यां प्रेर्यमाणोऽसौ निर्गतः। पर्यटता चोद्घाटितद्वारः साधूपाश्रयो दृष्टः। तत्र च साधवः कालग्रहणं कुर्वन्ति। तेषां च पार्वे तेन वन्दित्वा व्रतं याचितम्। तैश्च 'राजवल्लभः, मात्रादिभिरमुत्कलितश्च' इति न दत्तम्। ततः खेलमल्लकाद् (दीक्षां) गृहीत्वा स्वयमेव लोचः कृतः। साधुभिर्लिङ्गं समर्पितम्। विहृताश्च सर्वेऽप्यन्यत्र। कालान्तरेण पुनरपि च तत्रागताः। ततो राज्ञा शिवभूतेबहुमूल्यं कम्बलरत्नं दत्तम्। तत आचार्यैः शिवभूतिरुक्तः-'किमनेन तव साधूनां मार्गादिष्वनेकानर्थहेतुना गृहीतेन? ततस्तेन गुर्वप्रतिभासेनापि संगोप्य मूर्च्छया तद् विधृतम्। गोचरचर्याभिश्चागतः प्रत्यहं तदसौ सम्भालयति, न तु क्वचिदपि व्यापारयति। ततः 'गुरुभिर्मूछितोऽयमत्र' इति ज्ञात्वाऽन्यत्र दिने तमनापृच्छयैव बहिर्गतस्य परोक्षे तत् कम्बलरत्नं पाटयित्वा साधूनां पादप्रोञ्छनकानि कृतानि। ततो ज्ञातव्यतिकरः कषायितोऽसौ तिष्ठति। अन्यदा च सूरयो जिनकल्पिकान् वर्णयन्ति, तद्यथा जिणकप्पिया य दुविहा पाणिपाया पडिग्गहधरा य। पाउरणमपाउरणा इक्किका ते भवे दुविहा॥ १॥ दुग तिग चउक्क पणगं नव दस एकारसेव बारसगं। एए अट्ठ विगप्पा जिणकप्पे होंति उवहिस्स॥ २॥ "इह केषाञ्चिज्जिनकल्पानां रजोहरणं, मुखवस्त्रिका चेति द्विविध उपधिः, अन्येषां तु कल्पेन सह त्रिविधः, कल्पद्वयेन तु सह चतुर्विधः, कल्पत्रयेण सह पञ्चविधः। केषाञ्चित्तु मुखवस्त्रिका, रजोहरणं च, तथा पत्तं पत्ताबंधो पायट्ठवणं; च पायकेसरिया। पटलाइं रयत्ताणं च गोच्छओ पायनिज्जोगो॥ १॥ "इति सप्तविधः पात्रनिर्योग इति, एवं च नवविधः। कल्पेन तु सह दशविधः, कल्पद्वयेन सहैकादशविधः, कल्पत्रयेण तु समं द्वादशविध उपधिः केषाञ्चिज्जिनकल्पिनामिति। तदेतत् श्रुत्वा शिवभूतिना प्रोक्तम्-'यद्येवं, तर्हि किमिदानीमौधिक औपग्रहिकश्चैतावानुपधिः परिगृह्यते? स एव जिनकल्पः किं न क्रियते? ततो गुरुभिरुक्तम्'जम्बूस्वामिनि व्यवच्छिन्नोऽसौ संहननाद्यभावात् साम्प्रतं न शक्यत एव कर्तुम्।' ततः शिवभूतिना प्रोक्तम्-'मयि जीवति स किं व्यवच्छिद्यते? नन्वहमेव तं करोमि, परलोकार्थिना Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004042
Book TitleJain Parampara aur Yapaniya Sangh Part 01
Original Sutra AuthorN/A
AuthorRatanchand Jain
PublisherSarvoday Jain Vidyapith Agra
Publication Year2009
Total Pages844
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy