________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
वाकर्त्री”र्घञ्प्रत्ययः “णिति" इत्युपान्त्यवृद्धौ नामः, नामोऽस्यास्तीति नामी - " अतोऽनेकस्वराद्” इति इन्प्रत्ययः, “अवर्णेवर्णस्ये” ति अलोपे नामिन् १-१, “ इन्ह नपूषार्यम्णः शिष्योरिति दीर्घे "नाम्नो नोऽनह्नः” इति नलोपे “ अवर्णभोभगोऽघोर्लुगसन्धिरिति रुलोपे; अनवर्णा नामी । द्विप० । ननु संज्ञिसामानाधिकरण्येन संज्ञानिर्देशे सति "औदन्ताः स्वरा" इत्यादिवन्नामीत्यत्र बहुवचनं युज्यते, सत्यं, ५ वचनभेदेन संज्ञां कुर्वन्नेवं बोधयति, यत्र नामिनः कार्यं विधीयते तत्र कार्याद्यदि कार्यों स्वरो न्यून भवति तदा नामिसंज्ञा प्रवर्तते, तेन ग्लायतीत्यादौ न गुणः, अत एव तत्राह - " ऐका रोपदेशबलान्नामित्वाभावाद्गुणाभाव" इति, अन्यत्र तु सेषु सुहैषु गोषु ग्लौषु इत्यादौ नामिसंज्ञा भवत्येव ॥ ५॥ अवर्णवर्जितायैते खरा द्वादश नामिनः ।
अवर्णवर्जिताति कारिकार्द्ध स्पष्टम् ।
१०
१२
हृदन्ताः समानाः ॥ ६ ॥ [ सि० - १।१७ ]
हृत् अन्ते येषां ते हृदन्त, १-३, "अत आः स्या०" "समानानां ०" "सोरुः” “रः पदान्ते ० " हृदन्ताः । समानं तुल्यं मानं परिमाणं येषां ते "समानस्य धर्मादिषु" इति सूत्रेण समानस्य सभावे समान, १-३, प्राग्वत् समानाः । द्विप० ॥ ६ ॥
लुकारान्ता अकाराद्याः समानाख्याः खरा दश ॥ १३ ॥
१५
लुकारान्ता इति श्लोकार्द्ध सुगमम्, केवलं लुकारान्ता इत्युक्ते किमादय इत्याकाङ्क्षायां [आह] अकाराधा इति ॥ १३ ॥
ए ऐ ओ औ सन्ध्यक्षरम् ॥ ७ ॥ [ सि०-११११८ ]
एश्च ऐश्च ओश्च औश्च "चार्थे द्वन्द्वः सहोक्तौ” इति द्वन्द्वसमासे ए ऐ ओ औ, सूत्रत्वाल्लोपः । सम्पूर्वक 'डुधांग्क् धारणें' धा, सन्धानं सन्धिः “उपसर्गाद्द: किरि” ति इप्रत्ययः “इडेत्पुसि चातो लुक् ” इत्या२० लुकि सन्धिः, 'क्षर संचलने' न क्षरति [न] चलति प्रधानत्वात् इत्यक्षरं "अच्” इति अप्रत्ययः, सन्धावक्षरं सन्ध्यक्षरं १-१ "अतः स्यमोऽम्", "समानादमोत ०" इत्यकारलोपे ए ऐ ओ औ सन्ध्यक्षरम् । द्विपदं सूत्रम् । सन्धिना वर्णसन्धानेन जातानि अक्षराणि सन्ध्यक्षराणि यतः, अवर्णेवर्णसन्धौ एकारः, अवर्णैकारसन्धाकारः अवर्णोवर्णसन्धावोकारः अवर्णौकारसन्धावकारः ॥ ७ ॥
सन्ध्यक्षराख्याश्चत्वार ए ऐ ओ औ इमे स्वराः ।
२५ सन्ध्यक्षराख्याश्चत्वार इति श्लोका कण्ठ्यम् । एवमेभिः सूत्रैः स्वराणां संज्ञाः सम्पूर्णा इति भावः । वर्णविशेषसंज्ञामाह -
अं अः अनुस्वारविसग्र्गौ ॥ ८ ॥ [ सि० - ११९]
अं च अश्व अं अः १-२, सूत्रत्वाल्लोपः । अनुपूर्वक 'औस्वं शब्दोपतापयोः' अनुस्वर्यते संलीनमुच्चार्यते इति, “भावकत्रों”र्घञ् अप्रत्ययः “नामिनोऽकलिहलेः” इति वृद्धौ अनुस्वारः । विपूर्वक 'सृजंत् विसर्गे' ३० विसृज्यते इति "व्यञ्जनाद्धन्” अप्र० "क्तेऽनिटश्वजोः कगौ घिति" इति जस्य गत्वे "लघोरुपान्त्यस्य " इति गुणे "हद स्वरस्यानु नवा” इति गस्य द्वित्वे विसर्ग: । अनुस्वारश्च विसर्गश्च “चार्थे द्वन्द्व ० " इति समासे 'ऐका' इति विभक्तिलपि 'उक्तार्थानामप्रयोग' इति चलोपे अनुस्वारविसर्ग, १-२ - " ऐदौत् ३३ सन्ध्यक्षरैः” इति औत्वे, अं अः अनुस्वारविसर्गों । द्विपदं सूत्रम् । बिन्दुमात्राभिव्यङग्यो नासिक्यो वर्ण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org