________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । खरप्रतिभेदाः । संज्ञाविशेषाः
स चैकैकनिधोदात्तोऽनुदात्तः स्खरितोऽपि च ।
पोढा च सानुनासिकनिरनुनासिका इति ॥९॥ स चैकैक इति । उदात्तानुदात्तस्वरितभेदाच्च स एकैको हस्खो दीर्घः प्लुतश्च त्रिधा त्रित्रिभेदो भवति, षोढा चेति स एव चैकैकः षोढा भवति कथमित्याह, सानुनासिकनिरनुनासिका इति, त्रयो भेदाः सानुनासिकास्त्रयो भेदा निरनुनासिका इति । यथा ह्रस्व उदात्तः सानुनासिकः १, ह्रखोऽनुदात्तः सानुना-५ सिकः २, ह्रस्वः स्वरितः सानुनासिकः ३, ह्रस्व उदात्तो निरनुनासिकः ४, ह्रस्खोऽनुदात्तो निरनुनासिकः ५, ह्रस्वः स्वरितो निरनुनासिकश्चेति ६ । एवं दीर्घः ६प्लुतो६पीत्यष्टादश ॥ ९ ॥ अथ प्रसङ्गत उदात्तादीनां लक्षणान्याह
उच्चैर्नीचैः समवृत्त्योच्चार्यमाणाः स्वराः क्रमात् ।
उदात्ताश्चानुदात्ताश्च खरिताश्च भवन्त्यमी ॥ १०॥ उच्चैरिति स्पष्टम् , अयमभिप्रायः, ताल्वादिषु सभागेषु ऊर्ध्वभागे निष्पन्नः स्वर उदात्तसंज्ञः स्यात् , यथा आयः । नीचैरनुदात्तः, यथा अर्वाद । उदात्तत्वानुदात्तत्वे वर्णधर्मों समाहियेते यस्मिन् स स्वरितः, यथा 'कवोश्वाः' इत्यादि, अत्र क इत्यस्यादितोर्धमुदात्तमुत्तरार्धं त्वनुदात्तमिति सिद्धान्तकौमुद्याम् ॥ १० ॥ सानुनासिकनिरनुनासिकलक्षणमाह
मुखनासोचार्यमाणो वर्णः स्यात्सानुनासिकः।
मुखेनैवोच्चार्यमाणः ख्यातो निरनुनासिकः ॥११॥ मुखनासेति कण्ठ्यम् । केवलं, नासिकामनुगतो यो वर्णधर्मः सोऽनुनासिकस्तेन सह वर्त्तमानः सानुनासिकः । निःक्रान्तोऽनुनासिकान्निरनुनासिक इति । वर्णशब्देन च स्वरा व्यञ्जनानि चेत्युभयमप्युच्यते ततश्च स्वराः सर्वेऽपि द्विधा भवन्ति, व्यञ्जनेष्वपि यलवा द्विधा भवन्ति । ङयणनमाश्च सानुनासिका एवेत्यत्र वर्णग्रहणम् ॥ ११ ॥ अथ स्वराणां भेदसङ्कलनामाह
प्रत्येकमित्यवर्णाद्याः पश्चाष्टादशधा स्मृताः।
सन्ध्यक्षरं द्वादशधा हवषड्नेदवर्जितम् ॥ १२ ॥ अ इ उ ऋ ल पञ्चापि प्रत्येकमष्टादशभेदास्ततश्च समानानां नवतिर्भेदा भवन्ति । ए ऐ ओ औ एतानि सन्ध्यक्षराणि च प्रत्येकं द्वादशविधानि; कुत इत्याह, हृवषड्भेदवर्जितमिति, एषां ह्रस्वा न सन्ति इति हस्वसम्बन्धिनः षड्भेदा अत्र न गण्यन्ते इति सन्ध्यक्षराणामष्टचत्वारिंशद्भेदाः । सर्वे च सङ्क-२५ लिताः स्वरभेदा अष्टात्रिंशंशतं भवन्तीति तत्त्वम् ॥ १२ ॥ अत्रैव मतान्तरमाह
दीर्घष दवर्जितलकारोऽपि द्वादशधेति पाणिनीयाःदीति फकिका स्पष्टा । पाणिनीया हि लकारं दीर्घ न मन्यन्ते ततश्च तन्मते दीर्घलकारपड्दवर्जने चतुरशीतिः समानानां भेदा भवन्ति, द्वात्रिंशंशतं सर्वे स्वरभेदा भवन्ति इति भावः । अथ प्रकृतस्वराणामेव संज्ञाविशेषानाह
अनवर्णा नामी ॥ ५॥ [सि०-१।१६] __ न विद्यतेऽव) येषु ते अनवर्णाः "अन् स्वरे” इति नबोऽनादेशो, अनवर्ण १-३ 'अत आः स्यादौ०” "समानानां.” “सोरुः" अनवर्णाः। 'णमं प्रत्वे शब्दे' णम् , “पाठे धात्वादेर्णो नः", नमनं नामः, "भा-३३
२०
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org