________________
१०
महामहोपाध्याय श्री विनय विजयगणिविरचिते खोपज्ञहैमलघु
उत्तरोक्तौ मा भूत् । वरेष्विति किम् ? व्यञ्जनान्तस्यापि यथा स्यात् । अन्त्य इति किम् ? आदिर्मध्यो वा मा भूत् ।
कारिकायां कोपादावित्यत्रादिशब्दग्रहणात्
1
"चितीवार्थे” [ सि० ७ । ४ । ९३ ] इवार्थे उपमायां चिदिति निपाते प्रयुज्यमाने वाक्यस्य स्वरे - ५ ष्वन्त्यः स्वरः लुतो वा स्यात्; अभिश्चिद्भाया ३ त् राजाचिद्भाया ३ तू अग्निरिव राजेवेत्यर्थः । चितीति किम् ? अग्निरिव भायात् । चितीति रूपसत्ताश्रयणादप्रयोगे न भवति, अग्निर्माणवको भायात् । इवार्थ इति किम् ? कर्णवेष्टकांश्चित्कारय कर्णवेष्टकानेवेत्यर्थः । कथचिदाहुः कृच्छ्रेणाहुरित्यर्थः ।
" प्रतिश्रवणनिगृह्यानुयोगे” [ सि० ७।४।९४ ] प्रतिश्रवणं परोक्तस्याभ्युपगमः स्वयंप्रतिज्ञानं श्रवणाभिमुख्यं च; निगृह्य स्वमतात्प्रच्याव्यानुयोगो निप्रहपदस्याविष्करणं निगृह्यानुयोग उपालम्भ इति १० यावत्; एतयोर्वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरः लुतो वा भवति । अभ्युपगमे, गां मे देहि भोः ! हन्त ते ददामि ३ हन्त ते ददामि । स्वयंप्रतिज्ञाने, नित्यः शब्दो भवितुमर्हति ३ पक्षे० । श्रवणाभिमुख्ये, भो देवदत्त किं मार्ष ३, पक्षे० । मार्षेति श्रवणाभिमुख्यद्योतको निपातः । निगृह्यानुयोगे, अद्य श्राद्धमित्यात्थ ३, पक्षे० । अद्य श्राद्धेति वादी युक्त्या स्वमतात्प्रच्यात्र्यैवमुपलभ्यते ॥
“विचारे पूर्वस्य” [ सि० ७ १४ ।९५ ] । किमिदं स्यात् किमिति निरूपणं विचारः संशय इति यावत् । १५ तस्मिन्विषये संशय्यमानस्य यत्पूर्वं तस्यान्त्यः स्वरः प्लुतो वा स्यात् । अहिर्नु ३ रज्जुर्नु । अहिर्नु रज्जुर्नु ||
“ओम' प्रारम्भे” [ सि० ७|४|९६ ] । प्रणामादेरभ्यादाने वर्त्तमानस्य ओम् शब्दस्यान्त्यः स्वरः लुतो वा भवति । ओ३म् ऋषभं पवित्रम्, ओम् ऋषभं पवित्रम् । एवं ओ३म् ऋषभमृषभगामिनं प्रणमत | ओ३म् अग्निमीले पुरोहितम् । प्रारम्भ इति किम् ? ओम् ददामि, ओमत्राभ्युपगमे ॥
"अस्त्रीराद्रे प्रत्यभिवादे भोगोत्रनाम्नो वा" [ सि० ७|४|१०१ ] | यदभिवाद्यमानो गुरुः २० कुशलानुयोगेनाशिषा वा युक्तं वाक्यं प्रयुङ्क्ते स प्रत्यभिवादस्तस्मिन्नस्त्रीशूद्रविषये वर्त्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरो भोःशब्दस्य गोत्रस्य नान्नो वा आमन्त्र्यस्य संबन्धी लुतो वा भवति । अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि भोः ३ आयुष्मानेधि भोः आयुष्मानेधि देवदत्त भोः ३ । गोत्र, अभिवाद गाग्र्योऽहं भोः ! कुशल्यसि गार्ग्य ३ । राजन्यविशोरपि गोत्रत्वमेव । अभिवादयेऽहमिन्द्रवम्मी भोः ! आयुष्मानेधीन्द्रवर्म्मन् ३ | अभिवादये इन्द्रपालितोऽहं भोः ! आयुष्मानेधीन्द्रपालित ३ । नाम, २५ अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि देवदत्त ३, पक्षे सर्वत्र प्लुताभावः । स्त्रीशूद्रवर्जनं किम् ?
अभिवादये गार्ग्यहं भोः, आयुष्मती भव गार्गि | अभिवादये, तुपजकोऽहं भोः, आयुष्मा तुषजक, नात्र लुतः । प्रत्यभिवादे इति किम् ? अभिवादयेऽहं भोः, आयुष्मानेधि स्थाल ३, अभिवादयिताह, खरकुटीवन्न ममेकारान्ता संज्ञा, का तर्हि, दण्डिवन्नकारान्ता, पुनर्गुरुराह, आयुष्मानेधि स्थालिन्, स पुनराह, ईकारान्तैव मम संज्ञा, स प्रत्युच्यते, असूयकस्त्वमसि जाल्म, न प्रत्यभिवाद३० मर्हसि, भिद्यस्व वृषलस्थालि । भोगोत्रनाम्न इति किम् ? देवदत्त कुशल्यसि ।
एवं
प्रकरणं यथाशास्त्रं निरूपितम् ।
शास्त्रान्तराण्यनुस्मृत्य विशेषः शेष ऊह्यताम् ॥ १ ॥
सारस्वतप्रक्रियायां तु "दूरादाहाने गाने रोदने बिचारे च टे: हुतो भवतीत्युक्तम् । टिरिति ३४ तत्रान्त्यस्वरादेः शब्दस्य संज्ञा ॥ ८ ॥ वराणामेव प्रतिभेदानाह-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org