________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे संज्ञाधिकारः खरसंज्ञाः । प्लुतप्रकरणम् किम् ? आगच्छ भो अग्निभूते ३ । सन्धेयग्रहणं किम् ? कचित् ३ कुशल ३ म् भवत्योः ३ कन्ये ३ । अगमः ३ पूर्वा ३ न ग्रामा ३ नहो ३ भद्रकासि गौः ३ । आयुष्मानेधि भोः ३ । सन्ध्यक्षरस्येति किम् ? भद्रिकासि कुमारि ३ । वाक्यस्य स्वरेष्वन्त्यस्वर इति विज्ञानादिह न भवति । अगमः ३ पूर्वी ३ ग्रामौ ३ देवदत्त ३। __"तयोों खरे संहितायाम्" [सि०७।४।१०३ ] तयोः प्लुताकारात्परयोरिदुतोः स्थाने स्वरे५ परे संहितायां विषये यथासङ्ख्यं यकारवकारावादेशौ भवतः । अविरामः संहिता । अगमः३अग्निभूता३ यत्रागच्छ । अगमः३अग्निभूता३यिहागच्छ । अगमः३पटा३वत्रागच्छ । अगमः३पटा३ वुदकमानय । स्वे दीर्घत्वस्य अस्खे स्वरे हस्वत्वस्य बाधनार्थ वचनम् । स्वर इति क्रिम् ? अग्ना३३ । पटा ३ उ । संहितायां इति किम् ? अग्ना३इ इन्द्रं । पटा३उ उदकम् । अग्ना३इ अत्र । पटा३उ अत्र । केचिदैदौतोश्चतुर्मानं प्लुतमिच्छन्ति । ऐ ४ तिकायन औ४ पगव ।
भर्त्सने इति । अत्र सूत्रम् "भर्सने पर्यायेण" [सि० ७।४।९०] भर्त्सनं कोपेन दण्डाविष्करणम् , तत्र द्विर्वचनं 'सम्मत्यसूया.' इत्यादि सूत्रेण सिद्धमेव, प्लुतार्थ आरम्भः । भर्त्सने वर्तमानस्य वाक्यस्य यदामन्यं पदं तद्विरुच्यते । तत्र पर्यायेण पूर्वस्यामुत्तरस्यां वोक्तौ स्वरेष्वन्त्यःस्वरः प्लुतो वा भवति । चौर ३ चौर, चौर चौर ३ घातयिष्यामि त्वां, पक्षे प्लुतरहितं रूपम् ।
अत्रायं विशेषः । “त्यादेः साकाङ्क्षस्याङ्गेन” [सि० ७४।९१] वाक्यस्य स्वरेष्वन्त्यः प्लुतो १५ वेत्यनुवर्त्तते भर्त्सने इति च । भर्सने वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य अङ्ग इत्यनेन निपातेन युक्तस्य सम्बन्धी प्लुतो वा भवति । अङ्गकूज ३ इदानीं ज्ञास्यसि जाल्म, पक्षे अङ्गकूज० । अङ्ग व्याहर ३ इदानी ज्ञास्यसि जाल्म, पक्षे अङ्ग व्याहर० । त्यादेरिति किम् ? अङ्ग देवदत्त मिथ्या वदसि । साकाङ्कस्येति किम् ? अङ्ग पच, नैतदपरमाकाङ्कति । अङ्गेनेति किम् ? देवदत्त कूज इदानी ज्ञास्यसि । भर्त्सने इत्येव अङ्गाधीष्व मोदकं ते दास्यामि । २०
अस्यापरोऽयं विशेषः । “क्षियाशी प्रेषे” [सि० ७।४।९२ ] क्षिया आचारभ्रेपः, आशी: प्रार्थनाविशेषः, श्रेषोऽसत्कारपूर्विका व्यापारणा, एतेषु वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यःस्वरस्त्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य सम्बन्धी प्लुतो वा भवति । क्षियायां, स्वयं ह रथेन याति ३ उपाध्यायं पदाति गमयति, पक्षे । आशिषि, पुत्रांश्च लप्सीष्ठाः ३ धनं च तात, पक्षे० । प्रेषे, त्वं ह पूर्व ग्रामं गच्छ ३ चैत्रो दक्षिणं, पक्षे० । त्यादेरित्येव, भवता खलु कटः कर्त्तव्यः प्रामश्च गन्तव्यः । साकाङ्क्षस्येत्येव, २५ दीर्घ ते आयुरस्तु ।
सम्मत्यसूयेत्यादि । अत्र सूत्रम्---"सम्मत्यसूयाकोपकुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेध्वन्त्यश्च प्लुतः” [सि० ७।४।८९] कार्येष्वाभिमत्यं सम्मतिः पूजनं वा, परगुणासहनमसूया, कोपः क्रोधः, कुत्सनं निन्दा, एते प्रयोक्तधर्मा नाभिधेयधर्माः, एतेष्वर्थेषु वर्तमानस्य वाक्यस्यादिभूतमामयमामणीयार्थ पदं द्विरुच्यते, तत्र द्विवचने आदौ पूर्वोक्तौ स्वरेषु स्वराणां मध्ये योऽन्त्यस्वरः स प्लुतो ३० वा भवति । सम्मत्यसूयाकोपकुत्सनेष्विति बहुवचमात् द्विवचने विकल्पो न सम्बध्यते । सम्मतौ; माणवक ३ माणवक, अभिरूपक ३ अभिरूपक शोभनः खल्वसि । असूयायां; माणवक ३ माणवक । कोपे; अविनीतक ३ अविनीतक इदानी ज्ञास्यसि जाल्म । कुत्सने; शक्तिके ३ शक्तिके यष्टिके ३ यष्टिके रिक्ता ते शक्तिः । सम्मत्यादिष्विति किम् ? देवदत्त गामभ्याज शुक्लां दण्डेन । आदीति किम् ? शोभनः खल्वसि माणवक । आमन्त्र्यमिति किम् ? उदारो देवदत्तः । आदाविति किम् ? ३५
है. प्रका० पूर्वा० २
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org