________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुन विकल्पार्थ किंत्वन्त्यप्लुतेन सह गुरोरसमावेशार्थम् , तेन कु३तशिख३ इति न भवति । दूरादिति किम् ? शृणु देवदत्त । आमन्त्र्यस्येति किम् ? आगच्छतु देवदत्तः । प्रधाने कार्यसंप्रत्ययादिह न भवति आगच्छ भो माणवकपिलक३, अत्र माणवेति कपिलक इत्यस्य विशेषणमित्यप्रधानता ततोऽस्य न प्लुतत्वम् । गुरुरिति किम् ? अनन्त्यस्य लघोर्माभूत् । एक इति किम् ? अनेकस्य गुरोयौंगपद्येन मा भूत् । अन५न्योऽपीति किम् ? अन्त्यस्यैव मा भूत् । लकारग्रहणमनृदिति प्रतिषेधनिवृत्त्यर्थम् । अथ ऋतः प्रतिषेधे लकारस्य कः प्रसङ्गः ? उच्यते-'इदमेव ज्ञापकम्- 'ऋवर्णग्रहणे लवर्णस्यापि ग्रहणं भवतीति । तेनाचीकुप दित्यादौ ऋवर्णकार्य लवर्णस्यापि सिद्धं भवति । अनृदिति किम् ? कृष्णमित्र कृष्णमित्र ३ । अनृदिति गुरुर्विशिष्यते न खरेवन्यस्तेनेहापि भवति-आगच्छ भोः कर्तृ ३, आगच्छ भोः कर्तृ ।
वाक्यस्य स्वरेष्वन्त्यःप्लुतः इत्यनुवृत्तेरिह न भवति–देवदत्त अहो आगच्छ [बृहद्वृत्तावयं विशेषः । १० अभिपूजितेऽपि दूरादामन्यस्यैव प्लुत इष्यत इति अभिपूजिते चेति नारम्भणीयम् । शोभनः खल्वसि
माणवक३ शोभनः खल्वसि माणवक] ___ अत्रायं विशेष:-"हेहैष्वेषामेव" [सि०७४।१००] दूरादामन्त्र्यस्य सम्बन्धिनौ यौ हेहैशब्दौकौ च तौ ? यौ तदामन्त्रणे वर्तेते-तयोः प्रयुज्यमानयोः-तयोरेव वाक्ये यत्रतत्रस्थयोरन्त्यःस्वरः प्लुतो
वा स्यात् । हे३ देवदत्त आगच्छ । आगच्छ हे३ देवदत्त । आगच्छ देवदत्त हे३ । एवं हैशब्दप्रयो१५ गेऽपि । हेहैष्वित्यवधारणस्य विषयार्थम् । एषामिति स्थानिनिर्देशार्थम् । बहुवचनं 'ह इ हे, ह ए है' इति
लाक्षणिकयोरपि परिग्रहार्थम् । एवकारोऽन्यस्य प्लुतत्वव्युदासार्थः । अत एव चैवकाराद्यत्रतत्रस्थयोः प्लुतो विज्ञायते ।
प्रश्ने प्रश्नाख्याने चेति, अत्र सूत्रम् । “प्रश्ने च प्रतिपदम्" [सि० ७।४।९८ ] प्रश्ने चकारात् प्रश्नाख्याने वर्तमानस्य वाक्यस्य सम्बन्धिनः पदस्य स्वरेष्वन्त्यःस्वरः प्लुतो वा स्यात् । अगमः ३ २० पूर्वा ३ न् ग्रामा ३ - मैत्र ३ । पक्षे प्लुताभावः सर्वत्र । प्रश्नाख्याने अगम ३ म् पूर्वा ३ - ग्रामा ३ न्
चैत्र ३, पक्षे प्लुताभावः । प्रश्ने चेति किम् ? देवदत्त ग्रामं गच्छ । प्रतिपदमिति किम् ? वाक्यस्यैवान्त्यः खरः प्लुतो माभूत् । ___ अत्रायं विशेषः । “हे प्रश्नाख्याने" [सि०७।४।९७] प्रश्नस्याख्याने पृष्टप्रतिवचने वर्तमानस्य
वाक्यस्य स्वरेष्वन्त्यःस्वरो हिशब्दसम्बन्धी प्लुतो वा स्यात् । अकार्षीः कटं देवदत्त ? अकार्ष हि ३ २५ अकार्षं हि । हेरिति किम् ? अकार्षीः कटं चैत्र ? करोमि ननु । प्रश्नग्रहणं किम् ? कटं देवदत्ताकार्ष हि,
अप्रश्नपूर्वके आख्याने न भवति । आख्यानग्रहणं किम् ? देवदत्त कटमकार्षीर्हि । “प्रश्शे च प्रतिपदम्' इति सूत्रेण सिद्धे नियमार्थं वचनम् , हेः प्रभाख्याने एव, वाक्यस्वरेष्वन्त्य एव प्लुत, इति च ।।
किञ्च । “प्रश्ना_विचारे च सन्धेयसन्ध्यक्षरस्यादिदुत्परः” [सि० ७।४।१०२] सन्धेयः सन्धियोग्यः यः कचित् स्वरे परे विकारमापद्यते । प्रश्नेऽर्चायां विचारे प्रत्यभिवादे च वर्तमानस्य ३० वाक्यस्य सम्बन्धिनः स्वरेष्वन्त्यस्वरस्य सन्धेयसन्ध्यक्षरस्य प्लुतो भवन् आकार इदुत्परः प्लुतो भवति,
स च प्रत्यासत्त्या एकारैकारयोरिकारपरः, ओकारौकारयोरुकारपरो भवति । प्रश्ने अगमः ३ पूर्वा ३ न ग्रामा ३ ननिभूता ३ इ । अदास्तस्मा ३ इ । अपचा ३ इ । पटा ३ उ । अहौषी ३ रग्ना ३ उ । "प्रश्ने च प्रतिपदमि"ति प्लुतः । अर्चा पूजा तस्यां "दूरादामव्यस्ये"ति प्लुतः । शोभनः खल्वसि अग्निभूता ३ इ । पटा ३ उ । विचारे, वस्तव्यं किं निम्रन्थस्य सागारिका३इ उतानगारिका३३ । प्रत्यभिवादे ३५ आयुष्मानेधि अग्निभूता ३ इ । पटा ३ उ । आयुष्मन्तौ भूयास्तां चैत्रमैत्रा ३ उ । प्रभार्चाविचारे चेति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org