________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे संज्ञाधिकारः । स्वरसंज्ञाः
'औकारान्ता' इति । कुत आरभ्येत्याकाङ्क्षायामाह ' अकाराया' इति । 'चतुर्दशेति', न तु नव । दध्यानयेत्यादौ प्रतिपदमुपयोगित्वेन दीर्घाणां पृथक् स्वरेषु गणनाया न्याय्यत्वम्, लुतानां तु " सम्मत्यसूये”त्यादिसूत्रैर्विधीयमानत्वेन स्वतः सिद्धत्वाभावात्तथा प्रायः कार्येष्वनुपयोगाच न स्वरेषु पृथग्गणना । 'औदन्ता' इति बहुवचनेन तेषां सदप्रहात् स्वरसंज्ञा भवति । तथाहु: - "औदन्ता, इति बहुवचनं वर्णेष्वपठितानां दीर्घपाठोपलक्षितानां लुतानां सत्प्रहार्थमिति ।। ६ ।। ह्रस्वदीर्घप्लुतस्वरलक्षणमाह - ५ एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ ४ ॥ [ सि०-११११५]
"
एका च द्वे च तिस्रश्च एकद्वितिस्रः । "सर्वादयोऽ स्यादौ” इति पुंवद्भावः । एकद्वितिस्रो मात्रा येषां ते “गोश्चान्ते ह्रस्वोऽनंशि समासेयो बहुव्रीहौ” इति हृस्वत्वे एकद्वित्रिमात्र १ - ३, “अत आः स्यादौ ० “समानानां ०” “सोरुः”, एकद्वित्रिमात्राः । 'तुस इस इस रस शब्दे' ह्रसधातुः । ह्रसत्यपचितो भवति लटिखटि० इति वप्र० ह्रस्वः । 'दृश् विदारणें' हणाति - विदारयत्युच्चार्यमाणो मुखमिति “मघाघवाघदी- १० र्घादयः” इति निपातः । ‘च्यु॑ङ् ज्यु॑ङ् जुंङ् म्रुङ् झुंङ् गतौ' लवते मात्राधिक्यमिति लुतः " पित्ते "त्यादिना निपातः । स्वश्च दीर्घश्च तच "चार्थे द्वन्द्वः सहोत्तौ” इति द्वन्द्वसमासः ह्रस्वदीर्घप्लुत १-३, प्राग्वत् ह्रस्वदीर्घप्लुताः । “अवर्णभोभगोऽघोर्लुगसन्धिरि" ति रुलुकू । एकद्वित्रिमात्रा हस्वदीर्घप्लुताः द्विपदं
सूत्रम् ॥ ४ ॥
१५
मात्रा - कालविशेषः - मात्राशब्देन किमुच्यत इत्याह- कालविशेष इति । अत्र लोकसम्मतिमाह - एकमात्रो भवेद्धवो द्विमात्रो दीर्घ उच्यते ।
प्लुतः स्वरस्त्रिमात्रः स्याद्व्यञ्जनं चार्धमात्रकम् ॥ ७ ॥
अ, इ, उ, ऋ, ऌ, इति हखाः । आ, ई, ऊ, ऋ, ऌ, ए, ऐ, ओ, औ इति दीर्घाः । आ ३, ई ३, इत्यादि प्लुताः ।
'एकमात्र०' इति ( स्पष्टम् ) । तथा - "चाषो वदत्येकमात्रं द्विमात्रं वायसो वदेत् । त्रिमात्रं तु शिखी २० ब्रूयात् नकुलस्त्वर्द्धमानकम्” ॥ ८ ॥ कुक्कुटस्तु कु कू कू ३ इति क्रमेण त्रीनपि ब्रूते ॥ ७ ॥
अथ हुतानां प्रदेशानाह
दूरादामणे प्रभे प्रश्नाख्याने च भर्त्सने ।
सम्मत्यस्याकोपादौ यथायोगं खराः प्लुताः ॥ ८ ॥
'दूरादामन्त्रणे' इति । योगा :- सूत्राणि, योगानामनतिक्रमेण यथायोगं स्वराः प्लुताः स्युः । सप्तमा- २५ ध्यायपर्यन्तप्रोक्तसूत्रानुसारेण स्वराः लुता भवन्तीति भावः । तथाहि - दूरामन्त्रणे इति ।
अत्र सूत्रम्–“दूरादामख्यस्य गुरुवैकोऽनन्त्योऽपि लनृत्” । [सि० ७|४ | ९९ ] यत्र प्राकृतात् प्रयत्नात् प्रयत्नविशेषे आश्रीयमाणे सन्देहो भवति, अयं श्रोष्यति न वेति, तद्दूरम् । वाक्यस्य यः स्वरेष्वन्त्यःस्वरो दूरादामन्त्र्यस्य पदस्य सम्बन्धी गुरुर्वानन्त्योऽपि ऋकारवर्जितः स्वरो ऌकारश्चैको दूरादामन्त्रयस्यैव सम्बन्धी स लुतो वा स्यात् । आगच्छ भो माणवकपिलक ३ । आगच्छ भो देवदत्त- ३० ३ | पक्षे लुतरहितं रूपं सर्वत्र वा वचने ज्ञेयम् । आगच्छ भो इन्द्रभूते ३, आगच्छ भो क्लृप्तशिख३ पक्षे प्राग्वत् । 'गुरुवैकोऽनन्त्योऽपि लनृत्' । सक्तून् पिब दे ३ वदत्त, पक्षे० । आगच्छ दे३वदत्त, पक्षे० । अनृदित्यत्र ह्रस्वऋकारवर्जनात् दीर्घऋकारोऽनन्त्यः लुतः स्यात् आगच्छ भो ऋ३षभ २ । लुकारस्त्वनन्त्यः प्लुतः स्यात् आगच्छ भो क्ल३तशिख २ । महाविभाषयैव लुतविकल्पे सिद्धे वाग्रहणं ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org