________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'शब्दानामिति' । ज्ञप्तिर्ज्ञानं, निष्पत्तिश्च प्रकृतिप्रत्ययादिविभागेन निष्पादनम् , एतदुभयं शब्दानां स्याद्वाददर्शने जैनमते एव स्थानान्यमतेऽघटमानत्वात् । तत्र हेतुमाह-'शब्दे हीत्यादि । एकान्तेन शब्दे नित्ये स्वीकृते एकान्तेन च क्षणिके स्वीकृते तहयं-ज्ञप्तिनिष्पत्तिलक्षणं कुतः स्यात् ? कथमपि न स्यादित्यर्थः । तथाहि-एकान्तेन नित्यानां शब्दानामुच्चारणावसरे स्थानप्रयत्नादिना कश्चिद्विशेषो जन्यते ५नवा ? जन्यते चेन्नित्यत्वहानिः, न जन्यते चेत्तर्हि प्राग्वत्तदापि ज्ञानं न स्यात्सर्वदा वा स्यात् , न
चानुचारिताः शब्दा ज्ञायन्ते, तदेवमेकान्तनित्यत्वे शब्दानां ज्ञप्तिन घटते । प्रकृतिप्रत्ययादिद्वारेण निष्पत्तिस्तु नित्यत्वपक्षे दुरापास्तैव, ततश्च साधुष्वसाधुषु च शब्देषु स्वत एव नित्येषु सत्सु व्याकरणारम्भप्रयासोऽपि व्यर्थ एव । किञ्च एकान्तेनानित्यत्वेऽपि टकारोच्चारणकाले एव घकारे नष्टे कथं धटशब्द
ज्ञप्तिः स्यात् , उच्चारितमात्रायामेव प्रकृतौ नष्टायां मृतमण्डनन्यायेन कः प्रत्ययादिना विशेष्यते इति १० निष्पत्तिरपि दुर्घटा, ततश्च प्राग्वत् व्याकरणारम्भो व्यर्थ एव । संस्काररूपेण वर्णास्तिष्ठन्तीति चेत् ?
एकान्तानित्यत्वपक्षक्षतिः । तदेवं द्रव्यार्थिकनयेन शब्दानां नित्यत्वे पर्यायार्थिकनयेन चानित्यत्वे स्वीकृते न कोऽपि दोषः, न च व्याकरणवैयर्थ्यम् । व्याकरणज्ञानसंस्कृतप्रतिभो हि शब्दद्रव्याणि शब्दत्वेन परिणमय्य सत्यवाग्योगेन मुञ्चन् साधुशब्दवादी भवति, ते चाक्षणिकाः साधुशब्दाः सत्यं शाब्दबोधं जनयन्तीति न काप्यनुपपत्तिः । नचैकस्मिन्नित्यत्वमनित्यत्वं च दुर्वचनं तत्तदपेक्षयैकस्मिन् पुंसि पितृ१५पुत्रमातुलभागिनेयादिव्यपदेशवत्तस्य लोके सुप्रतीतत्वादिति दिक् । किश्च वैयाकरणानां स्याद्वादाश्रयण
मेव शरणमन्यथा विकल्पबाहुलकादिनिरूपणं "सुरैः स्तूयमानो जिनो जयती"त्यादिवदेकस्मिन्कारकेऽनेककारकसमावेशश्च दुर्घट इति । तथा वादात् विविक्तसाधुशब्दप्रयोगात्सिद्धिनिःश्रेयसं स्यादिति प्रयोजनपरतयाप्येतत्सूत्रं व्याख्येयमिति ॥ ५ ॥ अथ संज्ञासूत्रप्रस्तावना
तत्रादौ व्यवहाराय संज्ञा दिशति शास्त्रकत् । 'तत्रादाविति' कारिकार्द्धं स्पष्टम् । 'व्यवहारायेति' यथालोके सन्धिविग्रहप्रेषणाध्येषणादिव्यवहारश्चैत्रमित्रादिसंज्ञां विना न प्रवर्तते तथात्र सन्धिविश्लेषादिव्यवहारः खरव्यञ्जनादिसंज्ञां विना न सम्भवतीति संज्ञाविधानमावश्यकमिति भावः।
अथ जलधरदिनकरादिवत्सर्वोपकारिणः श्रीसूरयः प्रत्याहारपरिगणनादि क्लिष्टपद्धति परित्यज्य २५प्राञ्जलेन पथा सकलशास्त्रव्यवहार प्रवर्तयिष्यन्तोऽनादिकालसिद्धमातृकापाठक्रमेणैव संज्ञा निर्दिशन्ति
औदन्ताः स्वराः ॥३॥ [ सि०-११४ ] 'औदन्ताः'। औत् अन्ते येषां ते औदन्ताः, "उष्ट्रमुखादय” इति बहुव्रीहिः । औदन्त १-३, "अत आः स्यादौ०" आ, पुनः “समानानां तेन.” इति दीर्घे "सोरुः" "रः पदान्ते.” औदन्ताः । स्वयं १-१
"राजग टुभ्राजि दीप्तौ” राज् , स्वयं राजन्ते इति स्वराः । "क्वचित्" इति डःप्रत्ययः, "डित्यन्त्यस्वरादेः" ३० इत्यन्त्यस्वरादिलोपे "पृषोदरादय" इति स्वयंशब्दस्य स्वभावे स्वर १-३ प्राग्वत्वराः । द्विपदमिदं सूत्रम् । 'औदन्ता' इत्यत्र तपरकरणं विस्पष्टार्थमन्यथा आवन्ता इति कृते दुर्बोधता स्यादिति ॥ ३ ॥ अत्र कारिका ( उत्तरार्द्धम् )
औकारान्ता अकाराद्याः स्वरा वर्णाश्चतुर्दश ॥६॥ अ आ इ ई उ ऊ ऋ ऋल ल ए ऐ ओ औ-१४
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org