________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । मङ्गलाचरणादि चाने चे"ति समासः-स जगद्विख्यातकीर्तिस्तस्मै जगद्विख्यातकीर्तये । व्याकरणविशेषणे तु परतः क्लीबत्वात् “वान्यतः पुमांष्टादौ स्वरे" इति पुंवद्भावपक्षे जगद्विख्यातकीर्तये इति सिद्धम् ॥ २ ॥
आदौ विघ्नविघाताय शिष्टाचाराच शास्त्रकृत् ।
परमेष्ठिनमस्कारं कुरुते भावमङ्गलम् ॥ ३॥ महाव्याकरणप्रतिष्ठितप्रथमसूत्रप्रस्तावनाकारिका स्पष्टा। 'आदावि'ति, परं 'शास्त्रकृदिति-श्रीहेमसूरिः।५ 'भावमङ्गलमिति-उपयुक्तस्याहन्नमस्कारादिकं भावमङ्गलम् । शेषं तु दधिदूर्वादिकम् , अनुपयुक्तस्याहन्नमस्कारादिकं च, द्रव्यमङ्गलम् "अनुपयोगो द्रव्यम्" इति वचनादिति ॥ ३ ॥
अथ श्रीसूरिपादैर्महामाङ्गलिकतया व्याकरणादावुपन्यस्तं प्रथमसूत्रं प्रक्रियाकारोऽपि मङ्गलार्थ प्रथममुपन्यस्यति
अर्ह ॥ १॥ [ सि०-१।१।१] 'अहं मह पूजायाम्' अर्हति त्रिभुवनकृतां पूजां इत्यर्हन् , "अच्” इति अप्रत्ययः, "पृषोदरादयः” इत्यनेन अहम् इति निपातः, अहम् १-१ 'अव्ययस्य' इति सिलोपः ॥ १॥ ___ अत्र च संज्ञाधिकारे प्रक्रियाकारः प्रतिसूत्रं कारिका विधास्यतीत्यस्य सूत्रस्य कारिकामाह 'अर्हमित्यक्षरमिति'
अर्हमित्यक्षरं ध्येयं परमेश्वरवाचकम् ।
शास्त्रादौ पठतां क्षेमव्युत्पत्त्यभ्युदयप्रदम् ॥ ४ ॥ 'अहमित्यक्षरं' शास्त्रादौ 'ध्येयं'–प्रणिधानविषयीकार्यमित्यन्वयः । प्रणिधानं चानेन आत्मनः सर्वतः सम्भेदस्तदभिधेयेन चाहता सह आत्मनोऽभेदः । अर्हदभिन्नमहंकारेण सर्वतो वेष्टितमात्मानं ध्यायेदिति भावः । किंवि० अर्ह ? 'अक्षरं'-न क्षरति स्वस्मात् स्वरूपादित्यक्षरम् । पुनः किं० ? 'परमेश्वरवाचकम्'-अर्हत्सिद्धाचार्योपाध्यायसाधुरूपेषु पञ्चसु परमेष्ठिषु मध्ये शेषपरमेष्ठिचतुष्टयोपदर्शकत्वेन २० मुक्तिमार्गोपदेशकत्वेन च प्रकृष्टस्य परमेश्वरस्य अर्हद्रूपस्याभिधायकम् । पुनः किं० ? 'पठतां' क्षेमंकल्याणं विघ्नाभाव इति यावत् , व्युत्पत्तिः-शब्दार्थपरिज्ञानम् , अभ्युदयः-ऐश्वर्य पाण्डित्यप्रतिष्ठाद्यभीष्टप्राप्तिरिति यावत् , तान प्रकर्षेण ददातीति 'क्षेमव्युत्पत्त्यभ्युदयप्रदम्'। ___ अथ व्याकरणस्य सर्वपार्षदत्वेन पराभिप्रायेणापि अहमित्यक्षरं परमेश्वरवाचकं भवति, तथाह:"अकारेणोच्यते विष्णू रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तदन्ते परमं पदम्" ॥९॥ इति ॥४॥२५
ननु शब्दव्युत्पादनमिदमारभ्यते, शब्दं च प्रति विप्रतिपद्यन्ते विद्वांसः, केचिन्नित्यं केचिदनित्यं केचिन्नित्यानित्यं मन्यन्ते तदत्र के पक्षमाश्रित्येदमुपक्रम्यत इत्याह
सिद्धिः स्याद्वादात् ॥ २॥ [ सि०-१।१२ ] 'सिद्धि' १-१ स् “सो रुः" र "र: पदान्ते विसर्गस्तयोः” सिद्धिः । स्यादित्यव्ययमनेकान्तद्योतकम् । “वद व्यक्तायां वाचि” वद् वदनं वादः-'भावाकोंः ' घञ् अप्रत्ययः, “णिति" इति वृद्धौ-३० वादः । ततः स्याद्वादोऽनेकान्तवादः, नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगमः ॥२॥ अत्र कारिका
शब्दानां ज्ञप्तिनिष्पत्ती स्यातां स्याद्वाददर्शने । शब्दे ह्येकान्ततो नित्येऽनित्ये वा तवयं कुतः ॥५॥
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org