________________
महामहोपाध्याय श्रीविनय विजयगणिविरचिते खोपज्ञहै मलघु
सम्प्रदायशुद्धा सा प्रवर्तते इत्येतद्विशेषणं युक्तमेवेति । पुनः किंवि० । अभङ्गवैराग्यरङ्गसुधारससरसदेशनाद्यभिरामगुणप्रामरामणीयकत्वेन जगति विख्याता कीर्तिर्यस्य स तथा तस्मै । अथवा 'जगद्विख्यातकीर्तये नमोऽस्तु' । स्वविरचित विचाररत्नाकर हीरप्रश्नोत्तरादिग्रन्थप्रथितयशोभरत्वेन, खशिष्यविरचितलोकप्रकाशकल्पसुबोधिकावृत्ति जिनशतक बृहद्वृत्ति हैम प्रक्रियातद्वृत्तिप्रभृतिग्रन्थाग्रजाग्रन्नामधेय५त्वेन,जगति विख्यातः प्रसिद्धः, स चासौ कीर्तिश्च - श्रीकीर्तिविजयोपाध्यायस्तस्मै । किंवि० 'हेमचन्द्रायेत्यादि प्राग्वत् । अत्र च राजप्रतिबोधविधायकत्वेन अलौकिकव्याकरणाद्यनेक महाशास्त्रविधा'यित्वेन च सकलजिनशासनोपकारित्वात् ग्रन्थकारस्यापि सुतरामुपकारीति प्रथमं श्रीहेमचन्द्राचार्यनमस्करणं न्याय्यमेव । श्रीहैमव्याकरणस्यापि नमस्करणीयत्वमत्यन्तमुचितमेव, सम्यग्दृष्टिप्रणीतत्वेन श्रुतज्ञानत्वात् सकलशास्त्रव्युत्पत्तिहेतुत्वेन लोकेऽपि महोपकारितया प्रतीतत्वाच्च । तथाह लीलावतीकारो १० भास्करः सिद्धान्तशिरोमणी - "यो वेद वेदवदनं सदनं हि सम्यक् ब्राह्वयाः स वेदमपि वेद किमन्यशास्त्रम् । यस्मादतः प्रथममेतदधीत्य धीमान् शास्त्रान्तरस्य भवति श्रवणेऽधिकारी” ॥ ८ ॥ सत्यव्रतविशुद्ध्याधायित्वेन निर्जराहेतुतया सिद्धान्तेऽप्यभिहितत्वाच्च तथोक्तं प्रश्नव्याकरणाङ्गे"अह केरिसयं पुणाइ सचं तु भासिअव्वं जं तं दव्वेहिं पज्जवेहि य गुणेहिं कम्मेहिं बहुविहे हिं सिप्पे हिं आगमेहिं य नामक्खायनिवायउवसग्गतद्धिअसमाससंधिपद हेतु जोगियउणाइकिरियाविहाणधातुसरवि१५ भत्तिवण्णत्तं किल्लं दसविहमित्यादि । व्याकरणनमस्कारेण च सरखत्या अपि नमस्कारः कृतो भवति, सरस्वतीरूपत्वात् व्याकरणस्य । श्रीहीरविजयसूरिशिष्यमुख्ययोः सोदरयोः सतीर्थयोश्च महोपाध्यायचक्रवर्त्तिनोः पितृव्यगुरुतया स्वगुरुतया च परमोपकारित्वान्नमस्करणं समुचितमेवेति द्वितीयश्लोकेन चत्वारोऽप्युपकारिणः स्मृता इति तत्त्वम् ।
४
ओ ४ - १, 'अव्ययस्ये 'ति विभक्तिलुप् । नमः १-१, 'अव्ययस्ये' ति, विभक्तिलुप् । हेमचन्द्र२० ४-१, “शक्तार्थवषड्नमः स्वस्तिस्वाहास्वधाभिः” इति चतुर्थी, “डेडस्योर्यातौ” य “अत आः स्यादौ जस्भ्यां ये” इत्यात्वे हेमचन्द्राय । हेनो- हेमचन्द्राचार्यस्येदं "तस्येदम्" इत्यण् - हेमन् अ-"नोऽपदस्य तद्धिते" इत्यन्त्यस्वरादिलुप्, “वृद्धिः स्वरेष्वादे णिति तद्धिते” इति वृद्ध हैमं, वि आङ्पूर्वक 'डुकंग् करणे' कृ, व्याक्रियते अनेनेति व्याकरणं, "करणाधारे" इत्यनट् “नामिनो गुणोऽक्किती”ति गुणे व्याकरणं, हैमं च तद् व्याकरणं च "विशेषणं विशेष्येणैकार्थं कर्मधारयश्चे" ति कर्मधारये हैमव्याकरण ४ - १, २५ प्राग्वत् हैमव्याकरणाय । च १ - १ 'अव्ययस्येति विभक्तिलुप् । ' शपीं आक्रोशे' शप्, शपतिआक्रोशति कूटोच्चारकमिति “शाशपिमनिकनिभ्यो दः” इति दप्रत्ययः, "तृतीयस्तृतीयचतुर्थे” इति पस्य बत्वे शब्दः, शब्दते इति वा । पाथस् १-३, 'दुधांगरु धारणे चे 'ति धाधातुः, पाथांसि धीयन्तेऽस्मिन्निति “व्याप्यादाधारे" इति किः, "इडेत्पुसिचातो लुक्" इत्यकारलुकि, "डस्युक्तं कृते" ति "उपमेयं व्याघ्राद्यैः
तत्पुरुषसमासे, "ऐकार्थ्य” इति विभक्तिलुपि पाथोधिः शब्दाः पाथोधिरिव
३० साम्यानुक्तौ” इति कर्मधारये विभक्तिपि शब्दपाथोधिः, सोम इव सोमः, अभेदोपचारः, शब्दपाथोधौ सोमः “सिंहाद्यैः पूजायामिति सप्तमीतत्पुरुषः विभक्तिलुप् शब्दपाथोधिसोम ४ - १, प्राग्वत् शब्दपाथोधिसोमाय । 'गम्लं गतौ' । “गमेडिँर्डद्द्द्वे च ” - अस्मात् डित्कतृद्वै चास्य रूपे स्याताम्, जगत–स्थावरजङ्गमो लोकः । यद्वा गच्छतीति जगत् "विद्युद्दहज्जगज्जुहू वाक्प्राट्धीश्रीद्रूक्रूज्यायतस्तूक
परित्राभ्राजादयः किपू" इति निपातनात् जगत् इति । विपूर्वः 'ख्यांक् प्रकथने' विख्यायतेस्म विख्याता, जगति विख्याता जगद्विख्याता, “सिंहाद्यैः पूजायामिति समासः । 'कृतण् संशब्दने' कीर्तनं ३६ कीर्त्तिः, "सातिहेतियूतिजूतिज्ञप्तिकीर्तिः” इति सूत्रेण निपातः । जगद्विख्याता कीर्तिर्यस्य - "एकार्थं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org