________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । मङ्गलाचरणादि रसितसोदरम् । क्रमक्रशिमनिस्सारमारम्भगुरुडम्बरम्" ॥ २ ॥ इत्यादिवदुपहासनमस्कारभ्रमोऽपि स्यादिति । मङ्गलार्थं च प्रशब्दोपादानम् , तथोक्तम्, “प्रशब्दश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ” ॥ ३॥ ननु प्रणम्येत्यत्र क्त्वाप्रत्ययः कर्मणि भावे वा ? कर्मणि चेत्तर्हि कर्मण उक्तत्वात् कर्मणि प्रथमा प्राप्नोति, अथ चेद्भावे तर्हि "भावोक्तौ कर्म नो भवेदि"ति कर्म न स्यादिति; अत्रोच्यते भाव एव "क्त्वातुमम् भावे” इति वचनात् , किन्तु "सकर्मका-५ णामुत्पन्नस्त्यादि वविवक्षया । अपाकरोति कर्मार्थ स्वभावान्न पुनः कृतः” ॥ ४ ॥ इति कर्म भवत्येव । ननु प्रणम्येत्यत्र 'प्रणम् क्त्वा' इति स्थिते प्रकृत्याश्रितत्वेन "अहन्पश्चमस्य किकृिति" इति दीर्घोऽन्तरङ्गः, प्रत्ययाश्रितत्वेन यबादेशो बहिरङ्गो, “बहिरङ्गाच्चान्तरङ्ग बलीय” इति पूर्व दीर्घ ततो यबादेशे 'प्रणाम्येति रूपं कुतो न स्यादिति; अत्रोच्यते; प्रजग्ध्येत्यत्र “यपि चादो जग्”-तादौ किति प्रत्यये यपि चादेखग्ध स्यात्-इत्यन्तरङ्गत्वात् यबादेशात् प्रागेव जग्धादेशे सिद्धे यबप्रहणमन्तरङ्गानपि विधीन् यबादेशो१० बाधते इति ज्ञापनार्थम् , तथाहु:-"तादौ किति जग्धि सिद्धे यपि चेति यदुच्यते । ज्ञापयत्यन्तरङ्गाणां यपा भवति बाधनम्" ॥ ५॥ न चैवं कृतेऽपि यबादेशे "स्थानीवावर्णविधौ” इति आदेशस्य स्थानिवद्भावेन दीर्घः प्राप्नोतीति वाच्यम् , "न सन्धिङीयक्किद्विदीर्घासद्विधावस्क्लुकी"ति दीर्घविधौ स्थानिवद्भावाभावात् “सकृद्गते स्पर्धे बाधितं बाधितमेवे"ति न्यायाद्वा न दीर्घः । अन्तरङ्गबहिरङ्गयोश्च लक्षणमिदम्
"प्रकृतेराश्रितं यत्स्याद् , यद्वा पूर्व व्यवस्थितम् । यस्य चाल्पनिमित्तानि अन्तरङ्गं तदुच्यते" ॥६॥ "प्रत्ययस्याश्रितं यत्स्याद् , बहिर्वा यद् व्यवस्थितम् । बहूनि वा निमित्तानि बहिरङ्गं तदुच्यते" ॥७॥१॥ अथ ग्रन्थारम्भादिशुभकार्य स्वोपकारिणः स्मर्तव्या इति तदर्थमुपक्रमते
ओ नमो हेमचन्द्राय हैमव्याकरणाय च । शब्दपाथोधिसोमाय जगद्विख्यातकीर्तये ॥२॥
२० _ 'ओ नम' इति । हेमचन्द्राय नमोऽस्तु इत्यन्वयः। किंविशिष्टाय हेमचन्द्राय ? ओ अवतीत्यो रक्षकायेत्यर्थः। 'ओ नम' इति मातृकादौ पठितः पाठसिद्धः सारस्वतमनो ज्ञेयः । 'च'-पुनः । हैमव्याकरणाय नमोऽस्तु । किविशिष्टाय हेमचन्द्राय हैमव्याकरणाय च ? 'शब्दपाथोधिसोमाय' शब्दाः पाथोघिरिव शब्दपाथोधिः, सोम इव सोमः, शब्दपाथोधौ सोमः शब्दपाथोधिसोमः, तस्मै, शब्दज्ञानोल्लासकारिणे इत्यर्थः । पुनः कथम्भूताय हेमचन्द्राय हैमव्याकरणाय च ? 'जगद्विख्यातकीर्तये' । जगति २५ विख्याता प्रसिद्धा जगद्विख्याता, जगद्विख्याता कीर्तिर्यस्य स तथा तत्तथा वा, तस्मै । अथवा शब्दपाथोधिसोमाय नमोऽस्तु । शब्दानां पाथोधिः शब्दपाथोधिः-शब्दरत्नरत्नाकर इति यावत्, स चासौ सोमश्च श्रीसोमविजयोपाध्यायस्तस्मै । किंविशिष्टाय 'हेमचन्द्राय' ? । हेमचन्द्र इव हेमचन्द्रस्तस्मै, अस्मिन् कलिकालेऽपि श्रीहेमचन्द्राचार्यवत् प्रौढप्रभावाय निरवद्यव्याकरणविद्याहृद्याय च । पुनः किंविशिष्टाय 'हैमव्याकरणाय' ? । हैमं व्याकरणं स्वभ्यस्तं यस्य स हैमव्याकरणस्तस्मै । तथा श्रूयते ३० हि कालानुभावतस्तत्त्वप्रकाशिकाख्याया हैमव्याकरणबृहद्वृत्तेः सम्प्रदाये व्युच्छिन्नप्राये सति जगद्गुरुश्रीहीरविजयसूरिनिर्देशात् स्तम्भतीर्थवास्तव्यवृद्धशाखीयोकेशज्ञातीयसङ्घपति-उदयकरणसोमकरणसाहाय्याच, बहुशः परिपठितमहाभाष्यादिमहाव्याकरणात् भूधीभट्टात् सम्यगवगम्य, महोपाध्यायश्रीसोमविजयगणिभिस्तत्त्वप्रकाशिका तपागच्छे बहूनां गीतार्थानां पाठिता । ततोऽद्यापि ३४
आ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org