________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
अत्र 'प्रणम्ये 'त्यादिना मङ्गलाचरणमाचरितम् । 'प्रक्रियामि' त्यनेन चाभिधेयमभिहितं शब्दव्युत्पादनस्यैव प्रतिपाद्यत्वात् । ‘बालानां बोधसिद्धये' इत्यनेन प्रयोजनमधिकारिणश्चाभिहिताः । तत्र प्रयोजनं द्विविधं, ग्रन्थकर्तुर्ग्रन्थपठितुश्च । पुनरेकैकं द्विधा, अनन्तरपरम्परभेदात् । तत्र ग्रन्थकर्तुरनन्तरप्रयोजनं बालानुग्रहादि । ग्रन्थपठितुश्च शब्दज्ञानादि । परम्परप्रयोजनं तूभयोरपि निःश्रेयसावाप्तिस्तथोक्तम्, ५ “व्याकरणात्पदसिद्धिः, पदसिद्धेरर्थनिर्णयो भवति । अर्थात्तत्त्वज्ञानं, तत्त्वज्ञानात्परं श्रेयः " ॥ १ ॥ इति । अधिकारिणश्च व्युत्पित्सवो बालाः । सम्बन्धश्च शब्दशास्त्रयोः प्रतिपाद्यप्रतिपादकभाव इति ।
अथ साधनिका लिख्यते
२
'मं प्रहृत्वे' णम्, “पाठे धात्वादेर्णो न" इति णस्य नः, “धातोः पूजार्थे" ति प्रपूर्वः, प्रणमनं पूर्वं प्रणम्य "प्राकाले” इति क्त्वाप्रत्ययः । प्रस्य “ऊर्जाद्यनुकरणे "त्यादिना गतिसंज्ञायां “गतिकन्यस्तत्पुरुष" १० इति समासः, “अनमः क्त्वो यप्” इति क्त्वाप्रत्ययस्य यबादेशः, “अदुरुपसर्गान्तरो णहिनुमीनाने"रिति नस्य णत्वं प्रणम्य १-१, "क्त्वातुमम्” इति क्त्वान्तस्याव्ययत्वात् “ अव्ययस्ये” ति सिलुप् । परमात्मन् २-१, “सन्महत्परमोत्कृष्टं पूजायामि" ति कर्मधारये "कर्मणी" ति द्वितीयायां - “नि दीर्घ” इति दीर्घे परमात्मानम् । बाल ६- ३ आम् - "हस्वापचे" ति नाम्, “दीर्घो नाम्यतिसृचतसृष्ट” इति दीर्घे बालानाम् । 'बुधिं मनिं च ज्ञाने' बुध्, बोधनं बोधः, "भावाकत्रों"र्धन्, “अलघोरुपान्त्यस्ये”ति १५ उपान्त्यगुणे बोधः । "षिधू गत्यां" षिधू, “षः सोट्यैष्ठिवष्वष्कः ' ' - सिधू, सेधनं सिद्धि:- “ स्त्रियां क्तिः”, “ अधश्चतुर्थात्तथोर्ध” इति तस्य धत्वं, " तृतीयस्तृतीयचतुर्थ” इति पूर्वधस्य दः सिद्धिः, बोधस्य सिद्धिः–“षष्ठथयत्नाच्छेषे” इति षष्ठीतत्पुरुषः, “ऐकार्थ्य” इति षष्ठीलुक् बोधसिद्धि ४-१ “ङित्यदिति” इति इकारस्य एत्वे, “एदैतोऽयाय्” इति अयादेशे बोधसिद्धये । 'डुकंग् करणे' कृ, वर्तमाना मिव्, “कृग्तनादेरुः” इति उप्रत्ययः, "नामिनो गुणोऽक्किति” इति कृधातोर्गुणः, “उश्नो” रिति उप्रत्य२० यस्य गुणः, करोमीति सिद्धम् । प्रपूर्वः 'डुकंग् करणे' कृ, प्रकरणं प्रक्रिया कृगः शप्रत्ययः "रिः शक्याशीर्ये” इति ऋकारस्य रिः “संयोगा" दितीयादेशे शप्रत्ययस्य रूयधिकारविहितत्वात् "आत्” इति आप्रत्ययः, प्रक्रिया २-१ अम्, “समानादमोतः” इत्यकारलुपू प्रक्रियाम् । 'षिधू गत्यां' षिधू, सिध्यति स्म सिद्ध:, “क्तक्तवतू" इति तप्रत्ययः शेषं प्राग्वत् । 'हिंद गतिवृद्ध्योः ' हिनोति स्वतेजसा वृद्धिमाधत्ते “क्षुहिभ्यां वे”ति मप्रत्ययः, “नामिनो गुणोऽकिती” ति गुणे हेम: । 'चदु दीप्त्याहादयोः ' २५ चद्, “उदितः स्वरान्नोन्त” इति नोन्ते चन्दत्याहादयति लोकानिति “भीवृधि" इति रप्रत्ययः चन्द्रः । हेमवद्गौरवाद्धेमः चन्द्रवदाह्लादकत्वाच्चन्द्रः, हेमश्चासौ चन्द्रश्च हेमचन्द्रः - हेमचन्द्राचार्य इत्यर्थः । “पदैकदेशे पदसमुदायोपचारात्” 'सिद्ध' इति सिद्धराजजयसिंहदेवः ततश्च सिद्धराजेन कारितत्वात् सिद्धं, हेमचन्द्रेण कृतत्वात् हेमचन्द्रं, सिद्धं च तद्धेमचन्द्रं च सिद्धहेमचन्द्रमित्यस्य व्याकरणस्य नाम । सिद्धहेमचन्द्र २५१ अम्, अनुपूर्वक 'टं गतौ', सिद्धहेमचन्द्रमनुसरतीत्येवं शीला “अजातेः शीले” इति ३० णिन्, “गतिकारकङस्युक्तानां कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समास” इति न्यायात् "ङस्युक्तं कृते "
सूत्रेण विभक्त्युत्पत्तेः प्राक् समासः, "ऐकार्थ्ये" इत्यम्लुप्, “नामिनोऽकलिहलेरि" ति वृद्धि:, “स्त्रियां नृतोऽस्वस्रादेर्डी”रिति ङी: - ई, "रघुवर्णानो ण एकपदे ऽनन्त्यस्यालचटतवर्गशसान्तरे” इति णत्वे सिद्धहेमचन्द्रानुसारिणी,२-१अम्, “समानादमोत” इत्यकारलुपि सिद्धमचन्द्रानुसारिणीम् ॥
ननु नत्वेत्यनेनापि सिध्यति प्रोपसर्गोपादानं किमर्थम् ? अत्रोच्यते - प्रोपसर्गो वाकायमनसां प्री३५ भावप्रकर्षं द्योतयति, उपहासनमस्कारसंशयं च निराकरोति, अन्यथा “नमस्यं तत्सखि प्रेम घण्टा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org