________________
॥ विश्वहितबोधिदायकश्रीअमीविजयगुरुभ्यो नमः ॥
महामहोपाध्यायश्रीविनयविजयगणिविरचितं श्रीहैमप्रकाशाख्यं महाव्याकरणम्
। अथ पूर्वार्धम् । ॥ ॐ नमः । श्रीगुरुभ्यो नमः । श्रीसरस्वत्यै नमः । श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥
प्रणम्य पार्श्वविश्वेशं शङ्केश्वरपुरस्थितम् ।
खोपज्ञप्रक्रियावृत्तिस्तन्यते विदुषां मुदे ॥ १ ॥ इह हि श्रीसिद्धराजजयसिंहदेवप्रभृतिपरःशतक्षितिपालमौलिमाणिक्यमालोत्तेजितक्रमनखसहस्रपादाः, प्रत्यक्षसरस्वतीचक्रेश्वर्यादिदेवताचतुष्टयकृताहादाः, व्याकरणकाव्यालङ्कारच्छन्दस्तांद्यनेकशास्त्रनिर्माण-१० कृतसकलकोविदप्रसादाः, श्रीहेमचन्द्रसूरिपादाः, परपरिगृहीतपाणिनीयादिव्याकरणाध्ययने तेषां विनयादिविधाने च जैनयतयो मा स्म खिद्यन्तीति तेषां कृपया, श्रीसिद्धराजप्रार्थनया च, सकलव्याकरणोपनिषद्भूतमलौकिकसूत्ररचनाप्रधानं, विविधविशेषार्थनिधानं, श्री सिद्धहेमचन्द्राभिधानं महाव्याकरणं विरचयाञ्चक्रुः । तस्मिंश्च रत्नाकर इवातिगम्भीरेऽनुवृत्त्याद्यानुकूल्येन सूत्ररचनाञ्चिते शब्दव्युत्पत्तौ व्यस्तसूत्रतां विलोक्य केचनाल्पमतयो ग्राम्या इव माणिक्यपरिग्रहेऽलसायन्ते । ततस्तेपा-१५ मस्मिन्महाव्याकरणे प्रवेशोपायभूतां शब्दसाधनक्रमेण कतिपयहैमसूत्रसङ्घटनात्मिकां हैमलघुप्रक्रियां चिकीर्षुर्ग्रन्थकारः शिष्टाचारप्रतिपालनाय विघ्नविधाताय च मङ्गलाचरणं प्रेक्षावत्प्रवृत्तयेऽभिधेयप्रयोजनसम्बन्धाधिकारिणश्च प्रथमपद्येन प्रकटयति
प्रणम्य परमात्मानं बालानां बोधसिद्धये ।
करोमि प्रक्रियां सिद्धहेमचन्द्रानुसारिणीम् ॥१॥ 'प्रणम्येति', अहं प्रक्रियां करोमीत्यन्वयः, प्रकृतोपयोगिसूत्रसङ्घटनेन प्रकरणं शब्दव्युत्पादन प्रक्रिया, ताम् । केचित्तु प्रक्रियन्ते व्युत्पाद्यन्ते शब्दा अनयेति प्रक्रियेत्यूचुस्तत्र "स्त्रीखलना अलो वाधकाः, स्त्रियाः खलनौ” इति न्यायात् शं बाधित्वा अनःप्रवृत्तौ प्रकरणीति रूपप्रसङ्गः । किंविशिष्ट प्रक्रियाम् ? 'सिद्धहेमचन्द्रानुसारिणीम्', सिद्धहेमचन्द्राभिधानं महाव्याकरणमनुसरतीति सिद्धहेमचन्द्रानुसारिणी ताम् , एतेन सम्यग्दृष्टिप्रणीतव्याकरणानुसारितयास्याः प्रक्रियायाः कौमुद्यादिभ्यो विशिष्योपादेयतां स्वकपोल-२५ कल्पितशङ्कानिरासेन सम्प्रदायशुद्धतां चाह । कस्यै ? 'बोधसिद्धये', बोधः सर्वोपाधिशुद्धं शब्दज्ञानम् , तस्य सिद्धिनिष्पत्तिस्तस्यै । केषाम् ? 'बालानाम्' बालाः शब्दापशब्दविवेकविकलास्तेषाम् । अत एव व्युत्पत्तिलक्षणस्य फलस्य परगामितया 'करोमी'त्यत्र परस्मैपदम् । किं कृत्वा ? प्रणमनम् , पूर्व प्रणम्य' मनोवाकायप्रवीभावगोचरीकृत्य । कम् ? 'परमात्मानं-परा प्रकृष्टा 'मा' लक्ष्मीः कान्तिर्यस्य स परमः, पर्योगिभिर्मीयते ज्ञायते इति वा परमः, परान् शत्रून् रागादीन्मीनाति हिनस्तीति वा परमः, यद्वा ३० 'मानं' मा, परा प्रकृष्टा मा-ज्ञानं यस्य स परमः । 'अत सातत्यगमने' अतति-सातत्येन गच्छति ताँस्तान् ज्ञानादिपर्यायानित्यात्मा । परमश्वासावात्मा च परमात्मा । तं परमात्मानं, परमेश्वरमित्यर्थः । ३२
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org