________________
मूलप्रतिषु कथमप्यनुलब्धे द्वे विशिष्टसूत्रे सिद्धहेमबृहद्वृत्तितः संगृहीते द्विदण्ड्यादिः [सि० ७३७५ ॥] द्विदण्डि इत्येवमादयः समासा इजन्ताः साधवो भवन्ति । द्वौ दण्डावस्मिन्प्रहरणे द्विदण्डि प्रहरति, एवं द्विमुसलि । उभादन्ति उभयादन्ति । उभाबाहु उभयाबाहु । उभौ हस्तावस्मिन्पाने उभाहस्ति पिबति, एवमुभयाहस्ति । *उभापाणि उभयापाणिः । उभाञ्जलिः उभयाञ्जलिः । उभौ कर्णावस्मिन्श्रवणे उभाकर्णि शृणोति, एवमुभयाकर्णि । अन्ते वासोऽस्मिन्स्थानेऽन्तेवासि तिष्ठति । अन्तेवासी गुरोरिति ताच्छीलिकान्तोऽन्य एव शब्दः । संहितानि पुरुषान्यस्मिन् सरणे संहितपुच्छि धावन्ति । एकः पादोऽस्मिन्मने एकपदि गच्छति । समानौ पादावस्मिन्सपदि गच्छति । आच्यपादौ आच्या पदि शेते । एवं प्रोद्यपदि हस्तिनं वाहयति । निकुच्यको निकुच्यकर्णि धावति, तिष्ठग्वित्वादव्ययीभावः । उभाबाहु उभयावाहित्यत्र निपातनादिज्युपि स्थानिवद्भावादिजन्तत्वेनाव्ययीभावसंज्ञा विभत्यलुक् पादस्य पद्भावः समानस्य सभावश्चेत्यदि सर्वं निपातनात् सिद्धम् । क्रियाविशेषणाचान्यत्र न भवति । द्वौ दण्डावस्यां शालायां द्विदण्डा, द्विमुसला ॥ * उभस्य उभयोऽद्वित्वे इत्यनुपदकारसूत्रं ततः उभयः पाणिः उभये वा पाणयो यस्मिन्नित्येकत्वे बहुत्वे एव वाक्यं कार्यम् एवमन्यत्रापि ॥
संख्यादेः पादादिभ्यो दानदण्डे चाऽकल्लक् च [सि०७२।१५२] संख्यायाः प्रकृत्या. द्यवयवात् परे ये पादादयस्तदन्तान्नान्नो दानदण्डे चकाराद्वीप्सायां च विषयेऽकल् प्रत्ययो भवति, तत्संनियोगे च प्रकृतेरन्तस्य लुग्भवति । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । त्रिपदिकां ददाति । द्वे शते विसृजति द्विशतिकां विसृजति । द्विमोदकिकां त्रिमोदकिकां त्यजति । दण्डे-द्वौ पादौ दण्डितः द्विपदिकां दण्डितः । एवं त्रिपदिकां द्विशतिकां त्रिशतिकां द्विमोदकिकां त्रिमोदकिकाम् । वीप्सायाम्द्वौ द्वौ पादौ भुते द्विपदिकां भुङ्क्ते, त्रिपदिकां द्विशतिकां त्रिशतिकां द्विमोदकिकां त्रिमोदकिकाम् । संख्यादेरिति किम् ? पादं ददाति, पादं दण्डितः, पादं पादं भुके । पादादिभ्य इति किम् ? द्वौ द्वौ माषौ ददाति । दानदण्डे चेति किम् ? द्वौ पाद्वौ भुते । चकारो वीप्साया अनुकर्षणार्थः । लकारः स्त्रीत्वार्थः । लुग्वचनमनिमित्तलुगर्थम् (नन्वकलि 'अवर्णेवर्णस्य' इति प्रकृत्यन्तस्य लुप भविष्यति, किमर्थं लुग्वचनमित्याशङ्का ), तेन पादः पद्भावो भवति । परनिमित्तायां तु लुचि स्थानिवद्भावो न स्यात् । पादादयः प्रयोगतोऽनुसर्तव्याः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org