SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । व्यञ्जनसंज्ञाः १३ विशेषोऽनुखारः, केवलबिन्दुव्याभिव्यङ्ग्यः कण्ठ्यो वर्णविशेषो विसर्गः।घटाद्यमत्रं विना जलमिवैतावपि स्वरोपधानं विना दुरुच्चारौ, इकाराद्युपधानसम्भवेऽपि अकारस्यैव प्राथम्येन प्राधान्यादकारातिक्रमे हेत्वभावाच्च अकारावेवात्र सूत्रे उपहितौ ॥ ८ ॥ एतत्सर्व मनसिकृत्य श्लोकार्द्धमाह ___ अकारावेतयोर्मध्ये सुखोच्चारणहेतुकौ ॥१४॥ अकाराविति स्पष्टम् ॥ १४ ॥ वर्णविशेषाणामेव संज्ञामाह कादिर्व्यञ्जनम् ॥ ९॥ [सि०-१११।१०] __ क आदिर्यस्यासौ कादिस्, १-१-"सोरुः" कादिर, विपूर्वक 'अऔप व्यक्तिम्रक्षणकान्तिगतिषु' अधातुः, व्यज्यते अर्थोऽनेनेति “करणाधारे” इत्यनद, "म्नां धुड्वर्गेऽन्त्योऽपदान्ते" इति नस्य अत्वे व्यञ्जन१-१-"अतः स्यमोऽम्" सेरम् कादिर्व्यञ्जनम् । द्विपदं सूत्रम् । यथौदनादीनां नानास्वादाभिव्यञ्जकत्वेन दधिसूपशाकादि व्यञ्जनमभिधीयते तथैतान्यपि स्वरोपहितानि नानार्थाभिव्यञ्जकानीति व्यञ्जनान्यु-१० च्यन्ते, यथा अ अ इत्यकारद्वये विहिते न काचित्प्रकृतार्थव्यक्तिस्तत्रैव च धकारटकारयोगे भवत्यर्थाभिव्यक्तिर्घट इति, तत्रैव पकारटकारयोगे पट इति । कादिरित्यत्र सामीप्यव्यवस्थाप्रकारावयवादिवृत्तिरप्यादिशब्दोऽवयववृत्ति यः, । ककार आदिरवयवो यस्य वर्णसमुदायस्य स कादिः, अत एवेह तद्गुणसंविज्ञानो बहुव्रीहिः । कस्यादिः कादिरिति व्याख्याने व्यवस्थावाच्योऽप्यादिशब्दः, तेन स्वराणां न व्यञ्जनसंज्ञा, अनुस्खारविसर्गयोस्तु भवति; ततोऽनुस्वारस्य व्यञ्जनसंज्ञायां संस्कर्तेत्यत्र “स्सटि समः" १५ इत्यनेन सकारभवनेऽनुस्खाररूपव्यञ्जनात्परस्य 'धुटो धुटि खे वा' इत्यनेन स्लुक सिद्धः, विसर्गस्य तु व्यञ्जनत्वे सुपूर्वस्य दुःखायते किपि णिलुकि सेश्च लुकि "पदस्य” इति विसर्गरूपसंयोगान्तस्थस्य खस्य लुसिद्धस्ततश्च प्रागुक्तव्याख्यानेन विसर्गस्य "अपञ्चमान्तस्थो धुद" इति धुट्वे "धुटस्तृतीय" इति स्थान्यासनगत्वे च सुदुगिति सिद्धम् ॥ ९ ॥ अत्र कारिकार्द्धम्व्यञ्जनाख्यास्त्रयस्त्रिंशद्वर्णा हान्ताश्च कादयः। २० क ख ग घ ङ १ च छ ज झ ञ २ ट ठ ड ढ ण ३ त थ द ध न ४ प फ ब भ म ५ य र ल व श ष स ह । व्यञ्जनाख्या इति । च भिन्नक्रमः पूर्वसमुच्चये । कादयश्च त्रयस्त्रिंशद्वर्णाः, व्यञ्जनं आख्या येषां ते व्यञ्जनसंज्ञा भवन्ति । किम्पर्यन्ता इत्याकाङ्क्षायामाह हान्ता इति । एतान्यपि केवलानि दुरुच्चाराणि इति प्रागुक्तन्यायेन अकारोपहितानि पठ्यन्ते, अकारश्च कार्यकाले जलामत्रवत् स्वतो निवर्तत इति । २५ ___ अथ व्य जनानां संज्ञाविशेषानाह, तत्रापि वर्गादिसंज्ञाज्ञानं विना वक्ष्यमाणधुडादिसंज्ञोपयोगिवर्गपञ्चमादिज्ञानं न स्यादिति सूत्रक्रममुल्लक्ष्य प्रथमं वर्गादिसंज्ञामाह पञ्चको वर्गः ॥१०॥[सि०-१।१।१२] पञ्चन्शब्दात् पञ्चेति संख्या मानमस्य "संख्याडतेश्चाशत्तिष्टेः कः” इति कप्रत्यये "नामसिदय्व्यञ्जने" इति पदसंज्ञायां "नाम्नो नोऽनहः” इति न्लोपे पञ्चक, १-१, स्, “सोरुः” र । 'वृगट् वर्णे' वृधातुः३० वियते बहुभिरासज्यते “गम्यमिरम्यजिगद्यदि" इति गे "नामिनो गुणोऽविति" इति गुणे “हादहें"ति द्वित्वे वर्ग, १-१, स्, “सोरुः" "रः पदान्ते" । “घोषवती"ति रोः उत्वे "अवर्णस्ये"त्यादिना ओत्वे पञ्चको वर्गः। द्विपदमिदं सूत्रम् । व्रीहिः संपन्न इत्यादिवद्वर्ग इत्यत्र जातावेकवचनं तेन वीप्सा लभ्यते ॥ १० ॥ अत्र कारिका ३४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy