________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमान्तेषु कादिवर्णेषु कचटतपसंज्ञकाः॥१५॥
पञ्चभिः पञ्चभिर्वर्णैर्वर्गाः पञ्च प्रकीर्तिताः। मान्तेष्विति । कादिषु मपर्यन्तेषु पञ्चविंशतौ वर्णेषु पञ्चभिः पञ्चभिर्वर्णैः क च ट त प संज्ञकाः पश्च वर्गा भवन्ति ।। १५ ॥ अयं भावः, अत्र वर्णपश्चविंशतौ प्रथमे पञ्च वर्णाः कवर्गसंज्ञास्ततः परे ५पञ्च चवर्गसंज्ञास्ततः परे पञ्च टवर्गसंज्ञास्ततः परे पञ्च तवर्गसंज्ञास्ततःपरे पश्च पवर्गसंज्ञा इति ।
यरलवा अन्तस्थाः ॥ ११॥ सि०-१११११५] यश्च रश्च लश्च वश्च यरलव, १-३-"अत आः स्यादौ०" "समानानां.” "सोरुः” । अन्तस्था १-३ "समानानां०" "सोरुः" "र: पदान्ते०” । मध्ये 'रोर्यः' "स्वरे वा” यस्य लुक । यरलवा अन्तस्थाः । द्विपदं सूत्रम् । सूत्रस्यातिस्पष्टत्वादत्र कारिका नास्ति । अन्तस्थाशब्दो बाहुलकात् स्त्रीलिङ्गः, अन्यथा १० शिधुट्शब्दवद्विषयनामत्वात्पुंस्त्वं स्यात् 'मानगुमाद्रिविषयाशुगशोणमास' (पुं० ३।३ ) इति लिङ्गानुशासनवचनात् । यरलवा इत्यत्र बहुवचनं सानुनासिकादिभेदपरिग्रहार्थम् ॥ ११ ।।
अपञ्चमान्तस्थो धुट् ॥ १२॥ [सि०-११११११] पश्चन्शब्दात् “नो मट्” इति मप्रत्ययः, "नामसि.” इति पदसंज्ञायां "नानो नो०" इति न्लोपे च पश्चमः । अन्तस्था १-३-'ष्ठां गतिनिवृत्तौ' ष्ठाधातुः, "षः सोऽष्टयैष्ठिवष्वष्कः" इति षः सः 'निमित्ता१५भावे नैमित्तिकस्याप्यभाव' इति ठस्य थत्वे स्था, अन्ते तिष्ठन्ति इति अन्तस्थाः "स्थापास्नात्रः कः" इति
कप्रत्ययः "इडेत्पुसि.” इत्यालुक् "आत्" इत्यापि अन्तस्थाः । पञ्चमाश्च अन्तस्थाश्च पञ्चमान्तस्थाः, न विद्यन्ते पञ्चमान्तस्था यत्र “गोश्चान्ते.” इति हस्खः, “नबत्" इति नस्य अः, अपश्चमान्तस्थ १-१"सोरुः" र् । 'धुक्षि धिक्षि संदीपने' धुझ्धातुः धुक्षते इति धुद, किप्प्रत्ययः, १-१ "दीर्घङयाबि"ति सिलुक्, "अप्रयोगीत्" किब्लोपः “संयोगस्यादौ स्कोलुंग्” इति क्लुक, "धुटस्तृतीयः” इति षस्य २० डः "विरामे वा" डस्य टः, "घोषवति” रो उ: "अवर्णस्ये.” ओ, अपञ्चमान्तस्थो धुद । द्विपदमिदं सूत्रम् ॥ १२॥
अवर्गपञ्चमान्तस्थास्ते चतुर्विंशति(टः ॥ १६ ॥ क ख ग घ । च छ ज झ ट ठ ड ढ । त थ द ध ।
प फ ब भ । श ष स ह । २५ वर्गेषु पञ्चमा वर्गपञ्चमाः । वर्गाणां पञ्चमा इति षष्ठीतत्पुरुषस्तु "तृप्तार्थपूरणाव्ययातृशशत्रानशे"ति निषेधान्न भवति । ततश्च, वर्गपञ्चमाश्च अन्तस्थाश्च वर्गपश्चमान्तस्थाः, न विद्यन्ते वर्गपञ्चमान्तस्था येषु ते अवर्गपञ्चमान्तस्थाः । वर्गपश्चमाः पञ्च, ङबणनमा इति, अन्तस्थाश्च चतस्रो, यरलवा इति, एभिनव भिर्वर्जितास्ते पूर्वोक्तास्त्रयस्त्रिंशव्यञ्जनाख्याश्चतुर्विंशतिधुटो धुसंज्ञा भवन्तीति भावः ॥ १६ ॥
आयद्वितीयशषसा अघोषाः ॥ १३ ॥ [सि०-१।१।१३] ३० आद्य० । आपूर्वक 'डुदांग्क दाने' आदीयत इति "उपसर्गादः किः” इति किप्रत्ययः, “इडेत्पुसि"
इत्यालुक् आदिः, आदौ भवा “दिगादिदेहाशाद्यः" इति यप्र० 'अवर्णेवर्णस्य०' इति इलोपे आद्यः । द्वयोः पूरणो द्वितीयः, "द्वेस्तीय” इति तीयः । आद्याश्च द्वितीयाश्च आद्यद्वितीयाः १-३ । शश्च षश्च सश्च
शषसाः १-३ । आद्यद्वितीयाश्च शषसाश्च आद्यद्वितीयशषसाः १-३ । "अत आः स्यादौ०” “समानानां." ३४ “सोरुः" र् । 'घुष शब्दे' घुष्धातुः, घोषणं घोषः "भावाकोंः" घब् , अन०, "लघोरुपान्त्यस्य” इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org