________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । व्यञ्जनसंज्ञाः । स्वसंज्ञा १५ गुणः । न विद्यते घोषो घण्टानिादवदनुस्वानो येषां ते "नबत्” नब अ, अघोष १-३ । प्राग्वत् "रोर्यः” “स्वरे वा” यस्य लुक् आद्यद्वितीयशषसा अघोषाः । द्विपदमिदं सूत्रम् ॥१३॥ कारिकार्द्धम्
____ आद्यद्वितीया वर्गाणामघोषाः शषसा अपि । आद्यद्वितीयत्वं त्वापेक्षिकमिति केषामित्याकाङ्क्षायामाह-वर्गाणामिति, पञ्चानामपि वर्गाणामाद्याः पञ्च द्वितीयाः पञ्च त्रयश्च शषसा इत्येते त्रयोदश अघोषसंज्ञा भवन्ति । ते चामी क ख । च छ ।५ ट ठ । त थ । प फ । श ष स । १३ ।
___ अन्यो घोषवान् ॥ १४ ॥ [सि०-१।१।१४ ] 'अन श्वसन' प्राणने, अन्धातुः अनिति परभावोऽत्रेति "स्थाच्छामासासूमन्यनि०" इति यप्र० अन्य १-१, “सोरुः” घोषोऽस्यास्ति "तदस्यास्त्यस्मिन्निति मतुः" घोषमत् "मावर्णान्तोपान्तापञ्चमवर्गान्मतोर्मो वः” इति मस्य वः "ऋदुदितः” इति नोन्तः "अभ्वादेरत्वसः सौं” इति दीर्घः 'दीर्घड्याब्-१० व्यञ्जनात्सेः” इति सिलुक् “पदस्य” इति त्लुक् । “घोषवति" "अवर्ण०", अन्यो घोषवान् । द्विपदमिदं सूत्रम् ॥ १४ ॥ अथ कारिकार्द्धम्
अन्ये स्युर्गादयो वर्णा घोषवन्तश्च विंशतिः ॥१७॥ ग घ ङ । ज झ । ड ढ ण । द ध न । ब भ म ।
य र ल व । ह। अन्ये च अघोषव्यतिरिक्ता गादयो विंशतिर्वर्णा घोषवन्तो भवन्तीत्यर्थः ॥ १७ ॥ ____ अं अकल्प शषसाः शिट् ॥ १५॥ [ सि०-१।१।१६] अंच अश्व xकश्च पश्च शश्च पञ्च सश्च अंअः कल्पशषस १-३, "अत आ०" "समाना" "सोरुः" "र: पदान्ते" । 'शिष्लप विशेषणे' शिष्धातुः शिनष्टीति किप् "अप्रयोगीत्" किब्लोपः, १-१ "दीर्घडयाब्०” सिलुक् "धुटस्तृतीय.” इति षस्य डः "विरामे वा” डस्य टः । अं अः कल्प-२० शषसाः शिद । द्विपदमिदं सूत्रम् ॥ १५ ॥ [ अथ कारिका]
शिट्संज्ञका अमी सप्त तत्र कः कुलिशाकृतिः।
गजकुम्भाकृतिः -पश्च कपावुच्चारणार्थकौ ॥ १८ ॥ एषु सप्तसु आद्यौ प्राग्व्याख्यातौ, अन्त्यास्त्रयश्च प्रतीता एव, ततः शेषौ द्वौ लक्षयति । तत्रेति । कुलिशं वत्रम् । वज्राकृतिमात्रव्यङ्गयो जिह्वामूलोच्चार्यों वर्णविशेषो जिह्वामूलीयापरनामा xक इति, गजकु-२५ म्भाकृतिमात्रव्यङ्गय उपध्मानीयापरनामा ओष्ठोच्चार्यों वर्णविशेषः प इति । एतौ च केवलौ उच्चारयितुमशक्यौ यथाक्रमं क ख, प फ, योगे निष्पद्यते तदुपहितावेव च पठ्येते, तत्रापि कपयोरेव मुख्यत्वात्तदुपहिती सूत्रे उपात्तौ, एतत्सर्वं स्फुटीकर्तुमाह-कपावुञ्चारणार्थकौ इति ॥१८॥ अथ स्वसंज्ञामाह
तुल्यस्थानास्यप्रयत्नः स्वः॥ १६॥ सि०-१।१।१७1 'तुलण उन्माने' तुलधातुः, तोलनं "तुलाभिदादयः" इति निपातः, तुलया सम्मितस्तुल्यः "हृद्यप-३० द्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम्” इति सूत्रेण निपातः । 'ष्ठां गतिनिवृत्तौ' ष्ठा "पःसो.” 'निमित्ता.' स्था, स्थीयतेऽस्मिन्निति “करणाधारे" अनट् स्थानम् । यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिस्तत्स्थानं कण्ठादि । 'असूच क्षेपणे' अस् धातुः, अस्यति क्षिपति वर्णानिति "शिक्यास्य.” इति ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org