________________
स्थानकास्यप्रयत्नाभ्यां तुल्या वर्णाः स्वसंज्ञकाः ।
यो वर्णो यं वर्णं प्रति स्थानकास्यप्रयत्नाभ्यां तुल्यः स वर्णस्तं वर्णं प्रति स्वसंज्ञो भवति, सवर्णसंज्ञकश्च लोके । आस्यग्रहणं बाह्यप्रयत्ननिवृत्त्यर्थम्, ते हि "आसन्न " इत्यत्रैवोपयुज्यन्ते नतु सवर्णविधौ, तत्रापि महाप्राणस्यैवावकाशोऽन्येषां तु वेदे प्रयोजनम् । सवर्णसंज्ञाप्रयोजनं च तद्मानमित्यादौ "तृतीयस्य पञ्चमे " इत्यनुनासिके सवर्णत्वात् दकारस्य नकारो यथा भवति तन्मानमिति । अत्र दृष्टान्तद्वारेण १० सर्वानपि मिथः स्वान् वर्णान् सार्द्धश्लोकेन निर्दिशति
२०
१६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
यप्रत्ययदीर्घे आस्यम् । ओष्ठात्प्रभृति प्राक्काकलकात्कण्ठमणेः । प्रपूर्वः 'यतैङ् प्रयत्ने' प्रयतनं “ यजिस्वपिरक्षियतिप्रच्छो नः” इति नप्रत्ययः । आस्ये प्रयत्नः आस्यप्रयत्नः आन्तरः संरम्भः । स्थानं च आस्यप्रयत्नश्च स्थानास्यप्रयत्नौ । तुल्यौ वर्णान्तरेण सदृशौ स्थानास्यप्रयत्नौ यस्य स तुल्यस्थानास्यप्रयत्नः १-१ | स्व १- १ " सोरु: ” “ र : पदान्ते० " । द्विप० सूत्रम् ॥ १६ ॥ अत्र कारिका -
'अकारादी 'ति यथापूर्वोक्ता ह्रस्वादयोऽष्टादशभेदा अवर्णस्य ते सर्वे कण्ठस्थाना विवृतकरणाः पर१५ स्परं स्वा इति, एवमन्येऽपि, रेफोष्मणां त्वन्यः तुल्यस्थानास्यप्रयत्नः कोपि नास्ति इति स्वा न भवन्ति । स्थानग्रहणं किम् ? कचटतपानां तुल्यास्यप्रयत्नानामपि भिन्नस्थानानां स्वसंज्ञा मा भूत्, तथात्वे तु तत इत्यत्र “घुटो घुटि स्वे वा ” इति पकारस्य तकारे लोपः स्यात् । आस्यप्रयत्नग्रहणं किम् ? चवर्गयशानां तुल्यस्थानानामपि भिन्नास्यप्रयत्नानां स्वसंज्ञा मा भूत्तथात्वे हि अरुश्योततीत्यत्र "धुटो घुटि स्वे वा " इति शकारस्य चकारे लोपः स्यात् । स्वसंज्ञायां स्थानमुक्तम् किं तत् स्थानमित्याह-
२५
३०
अकारादि स्वराणां स्वाः स्वस्वभेदा यथा मिथः ॥ १९ ॥ पञ्चपञ्चैकवर्गस्था वर्णाः स्वाः स्युः परस्परम् ।
यलवाः सानुनासिकनिरनुनासिका अपि ॥ २० ॥
स्थानं कण्ठादि । तथाहुः ।
स्थानं कण्ठादीति । तथाहुरिति पूर्वप्रसिद्धं लोकमाह
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ २१ ॥
अथ एषु स्थानेषु स्थानिनो वर्णान् सार्द्धश्लोकत्रयेणाह —
Jain Education International
विसर्गोऽथाकुहाः कण्ठ्यास्तालव्या इचुयाश्च शः । उपूपध्मानीया ओष्ठया मूर्धन्या ऋटुषाच रः ॥ २२ ॥ दन्त्या तुलसा एऐ कण्ठतालुसमुद्भवैौ ।
ओ औ कण्ठोष्ठजौ ज्ञेयौ वो दन्तोष्ठ्यः प्रकीर्तितः ॥ २३ ॥ जिह्वच जिह्वामूलीयोऽनुखारो नासिकोद्भवः । स्वस्थाननासिकास्थानाः स्युर्डञणनमा इति ॥ २४ ॥ स्यादुरस्यो हारस्तु सहान्तस्यः सपञ्चमः ।
विसर्गोऽथेति० । विसर्गः अथ अकुहा अवर्ण-कवर्ग-हकाराः कण्ठे भवाः कण्ठ्या भवन्ति; कु इत्यत्र उकारस्य पश्चमस्वरत्वेन पञ्चसंख्यासूचकत्वात् पञ्चवर्णात्मकः कवर्गों गृह्यते, एवं चकारादि३४ ष्वपि । ङननमाः स्वस्थाननासिकस्थाना इति, स्वस्थानं कण्ठादि नासिका च ताभ्यामुच्चार्यन्ते । ङकारः
For Personal & Private Use Only
www.jainelibrary.org