________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । आस्यप्रयत्नाः कण्ठनासिकास्थान एवमन्येऽपि ॥२२-२३-२४॥ उरस्येति० हकारस्तु सहान्तस्थाभिर्वर्तमानः सहान्तस्थः सह पञ्चमैवर्तमानः सपञ्चमः उरस्यः स्यात्, यथा यह म इत्यादि, केवलस्तु कण्ठ्य एव ।
सर्वमुखस्थानमवर्णः । हविसर्गौ उरस्यौ । कवर्गो जिह्वामूल इत्यन्ये । रेफो दन्तमूल इत्येके । ए ऐ तालव्यौ, कण्ठतालव्यावित्यन्ये । ओ औ औष्ठयौ, कण्ठोष्ठयावित्यन्ये । वो दन्त्यौष्ठयः, सकस्थान इत्यन्ये । जिह्वामूलीयो जिह्वयः, कण्ठ्य इत्यन्ये । नासिक्योऽनुस्वारः, कण्ठनासिक्य इत्यन्ये । अथावसरप्राप्ता-५ नास्यप्रयत्नानाह
आस्यप्रयत्नाः स्पृष्टाद्या विवाराद्यास्तु बायकाः ॥ २५ ॥ आस्यप्रयत्ना इति । प्रयत्नो द्विधा आभ्यन्तरो बाह्यश्च । तत्र चतुर्विध आभ्यन्तरप्रयत्नस्तथाहि, स्पृष्टता १ ईषत्स्पृष्टता २ विवृतता ३ ईषद्विवृतता ४ केचित् संवृताख्यं पञ्चमं प्रयत्नं मन्यन्ते । एषां कण्ठादिस्थानाभिघाते भावात् आभ्यन्तरत्वं, विवारादीनां तु वायुना कोष्ठेऽभिहन्यमाने प्रादुर्भा-१० वाद्बाह्यत्वम् । अथवा स्पृष्टतादीनां वर्णनिष्पत्तिकाले भावादान्तरत्वं, विवारादीनां तु वर्णनिष्पत्तिकालादूर्ध्वं वायुवशेन भवनाद्वाह्मत्वम् । स्पृष्टतादयो वर्णानामुत्पादका विवारादयस्तु संस्कारका इति विवेकः । करणं तु जिह्वामूलमध्याग्रोपाप्ररूपं स्थानास्यप्रयत्नतुल्यत्वे सति नातुल्यं भवति इति पृथग् नोक्तम् , कथमिति; जिह्वामूलेन जिह्वथानां, जिह्वामध्येन तालव्यानां, जिह्वोपाग्रेण मूर्धन्यानां, जिह्वाग्राध:करणं वा ? जिह्वाप्रेण दन्त्यानां, शेषाः स्वस्थानकरणाः । बाह्यप्रयत्नस्त्वेकादशविधस्तथाहि-विवार ११५ संवारौ २ श्वास ३ नादौ ४ घोषवद् ५ अघोषता ६ अल्पप्राणता ७ महाप्राणता ८ उदात्त ९ अनुदात्तः १० स्वरितश्च ११ इति । एषामुत्पत्तिं चैवमाहुः-नाभिप्रदेशात् प्रयत्नप्रेरितः प्राणो नाम वायुरूर्वमाक्रामनुरःप्रभृतीनां स्थानानामन्यतमस्मिन्स्थाने प्रयत्नेन विधार्यते, स विधार्यमाणः स्थानमभिहन्ति, तस्मात् स्थानाभिघाताद् ध्वनिरुत्पद्यते आकाशे, सा वर्णश्रुतिः, स वर्णस्यात्मलाभः । तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानकरणप्रयत्नाः परस्परं स्पृशन्ति सा स्पृष्टता १ यदा ईषत्स्पृशन्ति सा ईष-२० स्पृष्टता २ यदा सामीप्येन स्पृशन्ति सा विवृतता ३ यदा दूरेण स्पृशन्ति सा ईषद्विवृतता?? ४ । एषोऽन्तःप्रयत्नः । इदानीं बाह्यप्रयत्नः, यदा प्राणो नाम वायुरूव॑माक्रामन् मूर्ध्नि प्रतिहतो निवृत्तः कोष्ठमभिहन्ति तत्र कोष्ठेऽभिहन्यमाने कण्ठबिलस्य विवृतत्वाद् विवारः १ संवृतत्वात् संवार: २ । तत्र यदा कण्ठबिलं विवृतं भवति तदा श्वासो ३ जायते, संवृते तु नादः ४ तावनुप्रदानमाचक्षते । अन्ये तु ब्रुवते, 'अनुप्रदानमनुस्खानो घण्टानि दवत्' इति । तत्र यदा स्थानकरणाभिघातजे ध्वनौ २५ नादोऽनुप्रदीयते तदा नादध्वनिसंसर्गाद्घोषो ५ जायते । यदा तु श्वासोऽनुप्रदीयते तदा श्वासध्वनिसंसर्गादघोषो ६ जायते । अल्पे वायावल्पप्राणता ७ । महति वायौ महाप्राणता ८ जायते, महाप्राणत्वादूष्मत्वम् । यदा सर्वगात्रानुसारी प्रयत्नस्तीत्रो भवति तदा गात्रस्य निग्रहः कण्ठबिलस्य चाणुत्वं स्वरस्य वायोश्च तीव्रगतित्वाद्रौक्ष्यं भवति तमुदात्त ९ माचक्षते । यदा तु मन्दः प्रयत्नो भवति तदा गात्रस्य संसनं कण्ठबिलस्य च महत्त्वं स्वरस्य वायोश्च मन्दगतित्वात् स्निग्धता भवति ३० तमनुदास १० माचक्षते । उदात्तानुदात्तस्वरसंनिपातात् स्वरित ११ इति ।
तत्र स्पृष्टं करणं [स्पर्शानाम् , स्पर्शा वाः ] वाणाम् । ईपत्स्पृष्टमन्तस्थानाम् । ईषद्विवृतं शषसहानां । एते चान्यत्र ऊष्माण इत्युच्यन्ते । विवृतं स्वराणां, स्वरेषु ए ओ विवृततरौ, ताभ्यामपि ऐ औ, ताभ्यामप्यवर्णः । अकारः संवृतः इत्यन्ये । इत्याभ्यन्तरप्रयत्नविभागः। वर्गाणां प्रथमद्वितीयाः शषसविसर्गजिह्वामूलीयोपध्मानीयाश्च विवृतकण्ठाः श्वासानुप्रदाना अघोषाः । वर्गाणां तृतीयचतुर्थ-३५
__ है• प्रका० पूर्वा० ३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org