________________
१८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुपञ्चमाः अन्तस्था हकारानुस्खारौ च संवृतकण्ठा नादानुप्रदाना घोषवन्तः । वर्गाणां प्रथमतृतीयपञ्चमा अन्तस्थाश्वाल्पप्राणाः, इतरे सर्वे महाप्राणाः । इति बाह्यप्रयत्नविभागः ॥ २५ ॥ अथ प्रस्तुसोपयोगिनीः कतिचित्संज्ञा आह
उक्ते वर्णे सवर्णोऽपि प्रायः कारे च केवल।
संयोगः स्याद् व्यञ्जनानि स्वराव्यवहितान्यहो! ॥ २६ ॥ उक्ते । पूर्वार्द्ध स्पष्टम् । संयोगः स्यादिति । अहो इति सम्बोधने, अहो शिष्य ! स्वरेण अव्यवहितानि अनन्तरितानि व्यञ्जनानि संयोगः स्यात् । यथा धानाभ्रस्ज् इत्यत्र “संयोगस्यादौ स्कोर्खक", इति सकारलुग् भवति ॥ २६ ॥
अप्रयोगीत् ॥ १७ ॥ [ सि०-११॥३७ ] १० अप्र० । प्रपूर्वक 'युजंपी योगे' युज्, प्रयोजनं प्रयोगः, "भावाकोः ", घञ् , अप्रत्ययः । "क्तेऽनि
टश्वजोः कगौ घिति" इति जस्य गः "लघोरुपान्त्यस्य” इति गुणः, प्रयोगः । प्रयोगोऽस्यास्तीति “अतोऽ. नेकस्वरात्” इति इन्प्रत्ययः, "अवर्णेवर्णस्य” इति अलुक् प्रयोगिन् १-१ "इनहन्पू०” “दीर्घङया." सिलुक् । “नाम्नो नो०” नलुक्, प्रयोगी, "नबत्” नस्य अः । इत् १-१ "दीर्घड्या०", अप्रयोगीत् । द्विपदं सूत्रम् ॥ १७ ॥ अत्र कारिका
वर्णो वर्णसमूहो वा पाठे समुपलभ्यते ।
न दृश्यते प्रयोगे यः स इत्संज्ञक इष्यते ॥२७॥ वर्णो वर्णसमूहो वेति । एको वर्णो, द्वित्र्यादिवर्णात्मको वर्णसमुदायो वा, यः कस्मैचित् कार्याय पाठकाले उच्चार्यते ततश्च प्रयोगकाले एति-निवर्त्तते स इत्संज्ञो भवति । तत्रैकवर्णो यथा 'एधि वृद्धौं' अत्र
इकार आत्मनेपदार्थः । वर्णसमूहो यथा 'डुपचीष पाके' इत्यत्र पचधातुः शेषाः सर्वे इत इति ॥२७॥ २० "स्यादिस्त्यादिविभक्तिः" (१।१।१९) स्याद् “विभक्त्यन्तं भवेत्पदम्" (१।१।२०)।
"सविशेषणमाख्यातं वाक्यम्" (१।१।२६) मित्रवदागमः॥२८॥ स्यादि० । 'सि औ जसू इत्यादि स्यादिविभक्तिः । तिव् तस् इत्यादि त्यादिविभक्तिः तदन्तं च पदं यथा देव इत्यादि स्याद्यन्तं पदम् , भवतीत्यादिकं च त्याद्यन्तं पदमिति । पदसंज्ञा फलं च पदस्य संयोगान्तस्य लुक् स्यात् इत्यादि । सविशेषणमित्यादि प्रयुज्यमानैरप्रयुज्यमानैर्वा विशेषणैः सहितं प्रयुज्यमानमप्रयुज्य२५मानं वा आख्यातं वाक्यं स्यात् , यथा धर्मो वो रक्षतु । अप्रयुज्यमानविशेषणं यथा, लुनीहि ३
पृथुकांश्च खाद । अप्रयुज्यमानमाख्यातं यथा शीलं ते स्खमिति । अर्थात्प्रकरणाद्वाऽऽख्यातादेर्गतावप्रयोगः । लोकादेव वाक्यसिद्धौ साकाङ्कत्वेऽप्याख्यातभेदे वाक्यभेदार्थ वचनम् , आख्यातमित्यत्रैकत्वस्य विवक्षितत्वात् ; तेन ओदनं पच तव भविष्यति मम भविष्यति इत्यादौ श्रूयमाणे गम्यमाने वाऽऽख्या
तान्तरे भिन्नवाक्यत्वाद्वस्त्रसादयो न स्युः । लौकिके तु वाक्येऽङ्गीक्रियमाणे आख्यातभेदेऽप्येकवाक्यत्वा३०द्वनसादयः प्रसज्येरन् । कुरु कुरु नः कटमित्यादौ तु कृते द्विर्वचनेऽर्थाभेदादेकमेवाख्यातमित्येकवाक्यत्वाद्वलसादयः स्युरिति । वाक्यसंज्ञाफलं च पदाद् युग्विभक्त्यैकवाक्ये वस्नसाविति । मित्रवदिति, यः स्थान्यनुपघातेन मित्रवदागच्छति स आगम इत्युच्यते । अयं चात्र शास्त्रे अन्तशब्दोपलक्षितो भवति, यथा वारीणि इत्यत्र "अनाम्वरे नोऽन्तः" इति । प्रत्ययोऽपि स्थान्यनुपघातेन मित्रवदागच्छति परं ३४ १ खसंज्ञो इति पाठान्तरम् । २ (सि. १।१।१८) इत्यत्र दर्शिता। ३ (सि० ३।३।६) इत्यादिषूपदर्शिता ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org