________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे संज्ञाधिकारः । कतिचित् संज्ञाः
१९
स (१।१।३८) पञ्चम्यर्थाद्विहितोऽन्तशब्दनिर्दिष्टश्च न भवति, यथा देवः इत्यत्र "नाम्नः प्रथमैकद्विबहौ” इति प्रथमैकवचनं सिः । उपलक्षणत्वाचात्र प्रत्ययोऽपि सङ्गृहीतो बोद्धव्यः ॥ २८ ॥ अवसानं विरामः स्यादादेशः शत्रुवद्भवेत् ।
त्रयो लुक् लुप् च लोपश्च वर्णादर्शनवाचकाः ॥ २९ ॥
अव० । अग्रे वर्णानामनुच्चारणं विलम्बेनोच्चारणमुच्चारणाभावश्च अवसानं विरामश्च भवति । अयं ५ भावः, सातत्येनोच्चारणे 'जिनो जयतीत्यत्र सन्धिर्भवति, अत्रैव मध्ये विलम्बेनोच्चारणे विरामे सति "न सन्धि”रिति वक्ष्यमाणनिषेधात्सन्धिर्न भवति, 'जिनः जयती 'ति । वाक्यादिसमाप्तौ अग्रे उच्चारणाभावे विरामो भवति । यथा 'प्रथमं भवति मङ्गलम्म्' अत्र विरामत्वाद् “अदीर्घाद्विरामे "ति मकारस्य द्वित्वम् । आदेशः शत्रुवदिति, स्थान्युपमर्देन प्रवर्त्तमानत्वात्, यथा “जस इ:" "टाङसोरिनस्यौ” इत्यादि । त्रय इति लुक्लुप्लोपास्त्रयोऽप्येते वर्णस्य अदर्शनं वदन्ति । परं त्वेषामयं विशेष: ; लुकि स्थानिव - १० द्भावो भवति, लुपि तु स न भवति, यथात्रैव वक्ष्यते; हे वारि १-१, “नामिनो लुग्वा " इति सिलुकि, लुकि च स्थानिवद्भावालुप्तप्रत्ययनिमित्तं कार्यं स्यादिति सिना सह गुणे हे वारे । पक्षे "अनतो लुप्” इति सिलुपि स्थानिवद्भावाभावाद्गुणाभावः, हे वारि इति । लोपशब्देन तु लुक् लुप् च द्वयमप्युच्यते इति सामान्यवाची लोपशब्दः, यथा 'सर्वेभ्यो लोपः' इति न्याये उभयमपि गृह्यते इति ॥ २९ ॥ दीर्घो विसर्गानुस्वारयुक् संयोगपरो गुरुः । असंयोगपरो ह्रस्वो विसर्गाद्युज्झितो लघुः ॥ ३० ॥
दीर्घो विसर्गश्च अनुस्वारश्च विसर्गानुखारौ, विसर्गानुस्वारौ युनक्तीति विसर्गानुस्वारयुक् । ततश्च आ ई ऊ ऋ ऌ ए ऐ ओ औ एते नव दीर्घस्वराः, विसर्गयुक्, अनुस्वारयुक्, संयोगः परो यस्मात् स संयोगपरः यथा वप्र इति वकारः, एते सर्वे गुरुसंज्ञा भवन्ति । गुरुसंज्ञाप्रयोजनं “ गुरुनाम्यादेरनृच्छ्रर्णोः” इत्यादौ । असंयोगपर इति, न संयोगपरः असंयोगपरः, यथा नयन इत्यत्र; तथा अ इ उ ऋ ऌ इति २० पश्च ह्रस्वाः स्वराः तथा विसर्गानुखाररहिताश्च, एते सर्वे लघुसंज्ञा भवन्ति । लघुसंज्ञाप्रयोजनं "लघोरुपान्त्यस्य ०” इत्यादौ ॥ ३० ॥
"
१५
अरेदोतो [ सि० ३।३।२ ] गुणसंज्ञा ऋ इ उ स्थानभाविनः ।
वृद्धिसंज्ञाः [ सि० ३|३|१] स्मृता आ आर् ऐदौच्च स्वरसम्भवाः ॥ ३१ ॥ अरेदोत इति । ऋवर्णेवर्णोवर्णस्थानभाविनः अर् एत् ओत् एते गुणसंज्ञा भवन्ति, यथा " ह्रस्वस्य २५ गुणः” इति गुणे हे पितः, हे मुने, हे साधो इति । वृद्धिसंज्ञा इति; स्वरस्थानभाविनः आ आर् ऐत् औत् एते वृद्धिसंज्ञा भवन्ति; अकारस्थाने य आ, ऋवर्णस्थाने य आर, इवर्णैकारस्थाने य ऐतू, उब
कारस्थाने य औत्, एते सर्वे वृद्धिसंज्ञा भवन्तीत्यर्थः, यथा “वृद्धिः स्वरेष्वादौ ञ्णिति तद्धिते” इति वृद्धौ आश्वम् आर्षम् जैनं दैव्यं पौत्रः सौम्यः । स्वरसम्भवा इति प्रायिकं स्वाभाविकानामपि आम्रगुप्तायनिरित्यादौ वृद्धिसंज्ञादर्शनात् ॥ ३१ ॥
Jain Education International
स्यमौजसः स्यु[ सि० १|१| २९ ]ट्संज्ञाः पुंस्त्रियोः शि[ सि० १|१|२८ ]र्नपुंसके | विना सम्बोधनार्थं सिं शेषघुट् [ सि० १।४।८२ वृ० ] संज्ञका अमी ॥ ३२ ॥ मौ० । पुंस्त्रियोः पुंलिङ्गस्त्रीलिङ्गयोः स्यमौजसो घुटः स्युः, तत्र प्रथमायाः स्यैौजसो नामार्थाः सम्बोधनार्थाश्चेति, द्वतीयाया अम् औ चेति । तथा नपुंसकलिङ्गे जस्सादेशः शिः, तत्र जसादेशः शिर्नामार्थसम्बोधनार्थ भेदाद्वेधा, शसादेशः शिश्च । एवं च जात्यपेक्षया षट्सु व्यक्त्यपेक्षया च एकोन - ३५
For Personal & Private Use Only
३०
www.jainelibrary.org