________________
२०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुविंशतौ घुट्सु, सम्बोधनार्थ प्रथमैकवचनं जात्यपेक्ष्यैकविधं व्यत्तयपेक्षया द्विविधं सिं मुक्त्वा, अन्ये अमी पूर्वोक्ताः शेषघुदसंज्ञका भवन्ति । सिशब्दस्स विषयनामत्वात्पुंस्त्वं "मातुर्मातः पुत्रेऽर्हे सिनामध्ये" इति पुंस्त्वनिर्देशाच्च ॥ ३२ ॥
लोकात् ॥ १८ ॥ [सि०-२१॥३] ५ लोका० । 'लोकङ दर्शने' लोकधातुः, लोकते इति लोकः । “व्यजनादू घम्" अप्रत्ययः, लोक ५-१ "डेडस्योर्यातौ” इत्यात् , “समाना०” लोकात् । एकपदं सूत्रम् ॥ १८ ।। अत्र कारिका
यदत्र संज्ञा न्यायादि वर्णानायादि नोदितम् ।
तद्वैयाकरणादिभ्यो लोकेभ्यो बुध्यतां बुधैः ॥ ३३ ॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां
हैमलघुप्रक्रियायां संज्ञाधिकारः समाप्तः। यदत्र० । अत्र संज्ञेति संज्ञाः स्वरव्यञ्जनाद्याः, क्रियागुणद्रव्यजातिकाललिङ्गस्वाङ्गसङ्ख्थाऽपत्यवीप्सादीनां च, तथा न्यायाः "स्वं रूपं शब्दस्याशब्दसंज्ञा" इत्यादयः, अत्रादिशब्दात् “पञ्चम्या निर्दिष्टे परस्य” इत्यादयः परिभाषा ग्राह्याः । वर्णान्नायादीति वर्णानामानायः सम्प्रदायाधिगम्यः स्थान
प्रयत्नादिविवेकः, अत्रादिशब्दात्सत्वासन्नत्वादिकं ग्राह्यम् । एतेषु मध्ये यदत्र शास्ने उक्तं तदितो ज्ञेयं १५ यच्चात्र शास्त्रे विस्तरभयानोक्तं तत्सर्व वैयाकरणतार्किकादिलोकेभ्यो ज्ञेयमिति भावः ॥ ३३ ॥ तत्र संज्ञाः प्रकृतोपयोगिन्यः काश्चिदुक्ताः काश्चिच यथास्थानं वक्ष्यन्ते; वर्णाम्नायादिकत्वमप्युक्तम् ।
न्यायास्त्वेवम् ॥नीयते सन्दिग्धोऽर्थों निर्णयमेभिरिति न्यायाः। "न्यायावाय.” ( ५।३।१३४ ) इत्यादिसूत्रेण घनि निपातनान्यायाः स्वेष्टसाधनानुगुणा युक्तयः । तथाहुः श्रीसूरयो न्यायसूत्रप्रक्रमे । “अथ ये २० तु शास्ने सूचिता लोकप्रसिद्धाश्च न्यायास्तदर्थं यत्नः क्रियते” इति । न्यायशब्दश्च दृष्टान्तेऽपि रूढो यथा सूचीकटाहन्यायः, काकाक्षिगोलकन्यायः, डमरुकमणिन्यायः, घण्टालालान्याय इत्यादि, नच तेऽत्राधिकृतास्तेषामपरिमितत्वात् । ये तु शाखे व्याकरणादिप्रन्थे सूचिता वैयाकरणादिलोकप्रसिद्धाश्च तेऽत्राधिक्रियन्ते इति । सूत्राणि प्रतिव्याकरणं भिद्यन्ते न्यायास्तु चिरन्तनत्वात् सर्वव्याकरणेष्वेक
रूपा एवेति ज्ञेयम् । २५ तत्र श्रीसूरिभिः सप्तपश्चाशन्यायाः श्रीहेमचन्द्रव्याकरणप्रान्ते निरूपितास्ते प्रथममभिधीयन्ते ।
खं रूपं शब्दस्याशब्दसंज्ञा ॥१॥ इह व्याकरणे शब्दस्य वं रूपं ग्राह्यं यदि तच्छब्दस्वरूपं कस्यापि संज्ञा न स्यात् , यथा “समः ख्यः" (५।११७७ ) इत्यत्र 'ख्यांक प्रकथने' इति धातुः, चक्षादेशश्च ख्यांग इति द्वयमेव ख्यारूपं गृह्यते, नत्वधिकं-व्याकरणे कस्यापि ख्येति संज्ञाया अकरणात् , तेन गाः सङ्ख्याति सञ्चष्टे वा "समः ३० ख्यः" इति डे गोसङ्ख्य इति सिद्धम् । यत्र तु शब्दसंज्ञा तत्र तु शब्दरूपं न ग्राह्यं किन्तु संज्ञिनो ग्राह्याः, यथा “उपसर्गाहः किः” (५।३।८७) इत्यत्र "अवौ दाधौ दा" (३।३।५) इति कृतदासंज्ञानां ग्रहणम् । वं रूपं शब्दस्येत्यंशस्य ज्ञापकं "नदीभिर्नान्नि" (३।१।२७) इत्यत्र बहुवच
नम्, अन्यथानेन न्यायेन नदीशब्दस्वरूपग्रहणे "सङ्ख्यासमाहारे" (३।१।२८) इत्युत्तरसूत्रेण पश्चानां ३४ नदीनां समाहारः पश्चनदमित्यत्रैवाव्ययीभावः स्यानतु नदीविशेषवाचिभिः द्वियमुनं त्रिगङ्गमित्यादौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org