________________
२१
प्रकियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । सूरिसमुच्चिता न्यायाः अशब्दसंज्ञेत्यस्य ज्ञापकं "स्वरादुपसर्गादस्तिकित्यधः” (४।४।९) इत्यत्र धावर्जनम् अन्यथा दाग्रहणे धावर्जनमनर्थकमिति ॥ १॥
सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्य ॥२॥ ये दिग्वाचकत्वेन रूढाः शब्दास्तेऽर्थान्तरवृत्तयोऽपि दिग्वाचिसादृश्यादिशब्दा एव ततो जनपदवाचिनो यो विधिः स सुसर्वार्द्धदिक्शब्दपूर्वस्य जनपदान्तस्यापि स्यात्। 'ग्रहणवता नाम्ना न तदन्त-५ विधि'रिति न्यायस्यापवादोऽयं न्यायः, एवमुत्तरोऽपि । यथा मगधेषु भवो मागधकः तथा सुमागधकः सर्वमागधक अर्द्धमागधकः पूर्वमागधक इत्यादौ "बहुविषयेभ्यः” (६।३।४५) इत्यक सिद्धः । सुमागधकादिषु च त्रिषु "सुसर्वा द्राष्ट्रस्य” (७।४।१५) इत्यनेन, पूर्वमागधक इत्यत्र तु "अमद्रस्य दिशः” (७।४।१६) इत्यनेनोत्तरपदवृद्धिः । सुसर्वादिभ्य इत्येव, ऋद्धमगधेषु भवः आर्द्धमगध इति; अत्र "भवे" ( ६।३।१२३ ) इत्यणेव न तु "बहुविषयेभ्य" इत्यकञ् 'ग्रहणवते'ति न्यायेन तदन्तविधे-१० निषेधात् । ज्ञापकं च आभ्यां सूत्राभ्यामुत्तरपदवृद्धिरेव अन्यथा 'ग्रहणवते'ति न्यायात्तदन्तविधिनिषेधात्स्वादिपूर्वाजनपदान्तात् ब्णित्प्रत्ययनिषेधे उत्तरपदवृद्धरेवासम्भव इति ॥ २ ॥
ऋतोवृद्धिमद्विधाववयवेभ्यः॥३॥ यस्मिन् परे वृद्धिप्राप्तिः स ब्णित्प्रत्ययो वृद्धिमानिह गृह्यते । ऋतुवाचकात् ब्णित्प्रत्ययविधौ कर्तव्ये तवयवपूर्वाहत्वन्तादपिस विधिः स्यात् , तेन यथा वर्षासु भवं वार्षिकमित्यत्र “वर्षाकालेभ्यः” (६।३।८०)१५ इतीकण , तथा पूर्वः प्रथमोऽवयवो वर्षाणां पूर्ववर्षाः “पूर्वापराधरोत्तरमभिन्नेनांशिना" (३।१।५२) इत्यंशितत्पुरुषः, यदा पूर्वावयवयोगात्पूर्वाः प्रथमा इत्यर्थः ताश्च ता वर्षाश्च पूर्ववर्षाः तासु भवं पूर्ववार्षिकमिति, अत्र वर्षान्तादपि "वर्षाकालेभ्यः" इतीकण् । यथा शिशिरे भवं शैशिरमित्यत्र “भर्तुसन्ध्यादेरण्” ( ६।३।८९) इत्यण् [ वृद्धिः ], तथा पूर्वशैशिरमित्यत्रापि “अंशाहतोः” (७।४।१४) इत्युत्तरपदवृद्धिः । वृद्धिमद्विधाविति किम् ? “प्रावृष एण्यः” ( ६।३।९२) इत्येण्यस्य विधौ पूर्वप्रावृषि भवः पूर्व-२० प्रावृषेण्य इति मा भूत् । अवयवेभ्य इति किम् ? पूर्वा ऋत्वन्तरैर्व्यवहिता वर्षास्तासु भवं पौर्ववार्षिक पौर्वशिशिरकं, उभयत्रापि “वर्षाकालेभ्य" (६।३।८०) इति काललक्षण एवेकण् । इह च पूर्वशब्दो न ऋतोरेकदेशं ब्रूते किं तर्हि ? व्यवहितत्वमिति । “अंशाहतोः” इत्यनेनोत्तरपदवृद्ध्यप्राप्तेः “वृद्धिः खरेष्व०” (७।४।१ ) इत्याद्यस्वरस्यैव वृद्धिः । ज्ञापकं त्वस्य "अंशाहतोः” इत्युत्तरपदवृद्धिविधानमेव अन्यथा 'ग्रहणवते'ति न्यायात्तदन्तविधिनिषेधे अवयवपूर्वादृत्वन्तात् ब्णित्प्रत्ययाभावे इदमुत्तर-२५ पदवृद्धिविधानं निर्विषयं स्यादिति ॥ ३ ॥
___ स्वरस्य हस्खदीर्घप्लुताः ॥ ४ ॥ हवाधादेशाः स्वरस्यैव स्थाने स्युः, न तु व्यञ्जनस्येत्यर्थः । स्थानविशेषानुक्त्या स्वरवद्व्यञ्जनस्यापि हवाधादेशप्रसङ्गे प्रतिषेधार्थोऽयं न्यायः । हखो यथा, सभि कुलमित्यादौ "क्लीबे" (२।४।९७ ) इति खरस्यैव हस्खो न तु तत् इत्यादौ व्यञ्जनस्य, अन्यथात्राप्यासन्नत्वात्तकारस्य लकारो ह्रस्वः प्राप्नोति ।३० प्रतीच इत्यादावचश्चत्वे पूर्वस्थस्येकारस्य दीर्घः, न तु दृषच इत्यादौ व्यञ्जनस्य, अन्यथात्राप्यचश्चत्वं प्रास्थितस्य दस्य प्राग्वदासन्नो दीर्घलकारः प्राप्नोति । प्लुतो यथा चैत्र३ एहि । व्यञ्जनस्य तु प्लुतत्वसम्भव एव नास्ति स्वरस्यैव प्लुतादेशोक्तेः । बोधकं त्वस्य 'क्लीबे' इत्यादि ह्रस्वदीर्घविधायकसूत्रेषु स्थान्यनुपादानमेव । यद्यप्यत्र न्याये प्लुतग्रहणं नोपयुक्तं प्लुतविधौ [ प्लुतस्य ] स्वरस्यैव स्थानित्वेनोक्तेस्तथापि हस्वदीर्घसाहचर्यात् स्थानपूर्तयेऽनुवादमात्रमेतत् ॥ ४ ॥
३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org