________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
आद्यन्तवदेकसिन् ॥५॥ यत्रैक एव वर्णो नाम वास्ति, कार्य तु तदादिकस्य तदन्तस्य वोक्तं तत्र तदेवैकमादित्वेनान्तत्वेन च प्रकल्प्य तत्कार्य कार्यम् । अप्राप्तप्रापणार्थोऽयं न्यायः, एवमुत्तरोऽपि । तत्रादित्वेन वर्णकल्पनं यथा ईहाश्चक्रे इत्यादौ धातोर्गुरुनाम्यादित्वेन “गुरुनाम्यादेरनृच्छूर्णोः” ( ३।४।४८) इति परोक्षाया आम् स्यात्, ५तथा 'ईङ् च गतौ' अयाञ्चक्रे इत्यादौ नामिमात्रस्यापि धातोर्नाम्यादित्वकल्पनया परोक्षाया आमादेशः सिध्यति । नानो यथा “इन्द्रे" ( १।२।३०) इत्यस्य “सप्तम्या आदिः” (७।४।११४ ) इति परिभाषया 'इन्द्रादौ शब्दे परे' इति न्यासकारव्याख्यानात् इन्द्रयज्ञशब्दे परे गवेन्द्रयज्ञ इत्यादावेवादेशः प्राप्नोति, परं गवेन्द्र इत्यत्रापि इन्द्रादित्वकल्पनादवादेशः सिद्धः । अन्तत्वेन वर्णकल्पनं यथा, जेता इत्यादौ
धातोर्नाम्यन्तत्वेन “विशेषणमन्तः” (७।४।११३) इति परिभाषया "नामिनो गुणोऽकृिति" ( ४।३।१) १० इति गुणः स्यात् , तथा एता इत्यादौ नामिमात्रस्यापि धातोर्नाम्यन्तत्वकल्पनात् "नामिनो गुणोऽकृिती"ति
गुणः सिद्धः । नाम्नो यथा “सर्वादेः स्मैस्मातौ” (२४७) इत्यत्र सर्वादेरित्यस्य स्याद्यधिकाराक्षिप्तनामविशेषणत्वात् "विशेषणमन्तः” इति परिभाषया 'सर्वाद्यन्तस्य नाम्न' इति न्यासकारव्याख्यानात् परमसर्वस्मै इत्यादावेव स्मायादयः प्रामुवन्ति, परं सर्वस्मै इत्यादावपि सर्वशब्दस्य सर्वाद्यन्तत्वकल्प
नात् स्मायादयः स्युः । ज्ञापकं त्वस्य यन्तीत्यादावियबाधनार्थ "ह्विणोरप्विति व्यौ” (४।३।१५) १५ इति इणो यत्वविधानम् , तद्धि 'धातोरिवर्णोवर्णस्येयुत् स्वरे प्रत्यये' (२।१।५०) इति इयादेशापवादः, इयादेशश्च इण इवर्णान्तत्वकल्पनयैवेति ॥ ५ ॥
। प्रकृतिवदनुकरणम् ॥६॥ अनुकार्यं धात्वादिकं प्रकृतिः, अनुकरणेऽपि प्रकृतिवत्कार्य कार्यम् ; यथा “परिव्यवात् क्रियः" ( ३।३।२७) इत्यत्र धात्वनुकरणस्य क्री इत्यस्य धातुवद्भावाद्धातुकार्य “संयोगात्” (२।१।५२) इती२० यादेशः । वत्करणाच्च सर्वथा धातुत्वाभावान्न त्यादयः । ज्ञापकं त्वस्य 'क्रिय' इति सूत्रनिर्देश एव । अनित्यत्वाच्चास्य “परावेर्जे” ( ३।३।२८) इत्यादौ नेयादेशः ॥ ६ ॥
एकदेशविकृतमनन्यवत् ॥७॥ 'छिन्नाङ्गुलिकोऽपि स एव चैत्र' इतिवदेकस्मिन्प्रदेशे वैसदृश्ये नान्यत्वं गण्यते, किन्तु तथाविधस्यापि यथोक्तं कार्य क्रियत इत्याशयः; लक्ष्यमाणवैसदृश्यापह्नवार्थोऽयं न्यायः, एवमुत्तरत्रापि । यथा अतिजरसा २५ कुलेनेत्यादौ "क्लीबे” इति हस्खे कृते अतिजरशब्दस्यापि "जराया जरस्वा” (२।११३) इति जरसादेशः स्यात् । एकदेशेत्यस्योपलक्षणत्वात् कचिदनेकदेशविकृतमप्यनन्यवत् , यथा “यमिरमि०" (४।२।५५) इति न्लोपे प्रणिहत इत्यादावेकदेशाविकृतस्येव प्रणिघ्नन्ति इत्यादौ हनेः “गमहन०" (४।२।४४) इत्यल्लोपे "हनो हो नः" (२।१।११२) इति नादेशे हो घे च कृते अनेकदेशविकृतस्याप्यनन्यत्वात्
तस्मिन् परे "नेङ्मादापतपद०” (२।३।७९) इति नेर्नो णः सिद्धः । ज्ञापकं त्वस्य "सख्युरितोऽ३० शावैत्” (१।४।८३) इत्यत्र इत इति वचनम् । तद्धि सखीशब्दस्य ऐत्वनिषेधार्थम् , एतन्यायाभावे च
सखीशब्दस्य ऐत्वप्राप्तिरेव नास्ति, सूत्रे सखिशब्दस्यैवोक्तरिति । अनित्यत्वाचास्य “सङ्ख्याहर्दिवा०" (५।१।१०२) इति सूत्रे लिपिलिव्योर्ग्रहणम् , अस्य न्यायस्य नित्यत्वेऽन्यतरग्रहणेनापि सिध्येत् ।। ७ ।।
___ भूतपूर्वकस्तद्वदुपचारः ॥ ८॥ यथा ह्यस्तन्यादौ प्रण्यहन् इत्यादौ साक्षाद् हनौ परे ने! णः तथा अद्यतन्यादौ प्रण्यवधीदित्यादी ३५हनादेशस्य वधैर्भूतपूर्वहनरूपत्वोपचारात्तस्मिन्नपि “नेादा” (२।३।७९) इति सूत्रेण नेर्नो णः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org