________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । सूरिसमुच्चिता न्यायाः २३ सिद्धः । ज्ञापकं त्वस्य "नेदे"ति सूत्रे वघेरग्रहणमन्यथोक्तसूत्रे वधेरगृहीतत्वात् प्रण्यषधीदित्यादौ नेनों णो न सिध्यति ॥ ८॥
भाविनि भूतवदुपचारः॥९॥ यथा नृणामित्यादौ निष्पन्ने पदे "रषवर्णान्नो ण." ( २।३।६३ ) इति णत्वं, तथा रवणं तक्षणमित्यादौ यद्यपि पदत्वं स्याद्युत्पत्त्यनन्तरं भावि तथापि भाविनः पदत्वस्य भूतवदुपचारान्नामावस्थाया-५ मपि "रघुवर्णे"ति कृतणत्वानामेव रवणादिशब्दानां न्यासः। ज्ञापकं त्वस्य "रघुवर्णे"ति सूत्रे पद एव णत्वविधानमिति ॥ ९॥
__ यथासङ्ख्यमनुदेशः समानाम् ॥१०॥ ___ सङ्ख्यया एकव्यादिवचननिर्देशेन चेति द्विधापि मिथः समानां पूर्वेषां परेषां पदानां सङ्खथानतिक्रमेणैवानुकूलं देशनमनुदेशः कार्यः, आद्यमाद्येन द्वितीयं द्वितीयेनेत्यादिरीत्यैव योजना कार्या, नत्वन्य-१० थेत्यर्थः, योजनाया यादृच्छिकत्वे प्रसक्ते नियमार्थोऽयं न्यायः । यथा “डेङस्योर्यातौ” (१।४।६) इत्यादौ स्थानिनोरादेशयोश्च द्विद्विसङ्ख्यत्वेन द्विवचननिर्दिष्टत्वेन च समत्वाद्यथासङ्ख्यं योजना सिद्धा । समानामिति किम् ? "नमस्पुरसो गतेः कखपफि रः सः” (२।३।१) इत्यत्र नमस्पुरसोः कखाद्यैः सह समानवचननिर्देशेऽपि यथासङ्खथं न, [ सङ्ख्यया तुल्यत्वाभावात् । तथा "तौ मुमो व्यञ्जने स्वौ” ( १।३।१४) इत्यत्र मुमयोरनुस्वारानुनसिकाभ्यां सह समसङ्ख्यत्वेऽपि यथासङ्ख्यत्वं न] वचननिर्दे-१५ शेन तुल्यत्वाभावादिति ॥ १०॥
विवक्षातः कारकाणि ॥११॥ भवन्ति न भवन्ति अन्यथा भवन्ति चेति शेषः । कारकनैयत्यनिषेधार्थोऽयं न्यायः । तत्र भवनं यथा, भिक्षा वासयतीत्यादौ भिक्षादेर्निर्व्यापारत्वेन हेतुमात्रत्वात्तत्त्वतोऽकारकत्वेऽपि स्वतन्त्रतया वासनादिव्यापारविवक्षया कर्तृकारकत्वं सिद्धम् , न च तत्त्वतोऽकारकत्वं नास्तीति वाच्यम् , अकारकत्वा-२० देव भिक्षयोषित् इत्यादौ "कारकं कृता" (३।१।६८) इति प्राप्तसमासाभवनात् । अभवनं यथा माषाणामश्रीयादित्यादौ माषादीनां कर्मत्वे सत्यपि तदविवक्षणात् सम्बन्धमात्रे षष्ठी सिद्धा । अन्यथाभवनं यथा, ओदनः स्वयं पच्यते, असिश्छिनत्तीत्यादावोदनास्योः कर्मकरणयोरपि स्वातत्र्यविवक्षया कर्तृत्वं सिद्धमिति ॥ ११ ॥
अपेक्षातोऽधिकारः ॥१२॥ अपेक्षा इष्टता, तत एवाधिकारः प्रवृत्तिमान्निवृत्तिमांश्च ज्ञेयो, नतु तत्र किञ्चिज्ज्ञापकमपेक्ष्यमिति भावः । यथा 'णषमसत्परे स्यादिविधौ च” (२।१।६०) इत्यतः सूत्रादसत्परे इत्यधिकारो "रात्सः” (२।१।९०) इति यावदनुवर्तते नोर्द्धम् ; स्यादिविधौ च इत्यधिकारस्तु "नोादिभ्यः" (२।१।९९) इति यावत्, [ इत्येषोऽर्थो ज्ञापकं विनापि सिद्धः] । 'विशेषातिदिष्टो विधिः, प्रकृताधिकारं न बाधते' इत्यपि न्यायोऽस्ति, यथा, "धातोरिवर्णोवर्ण०” (२।१।५०) इत्य-३० तोऽनुवर्तमानो धातोरित्यधिकारो "भ्रूश्नोः” (२१११५३ ) इत्यादि सूत्रत्रये विशेषोक्त्यानुक्तोऽप्येतन्न्यायेन "योऽनेकवरस्य” (२।११५६) इत्यत्र पुनः प्रादुर्भूतः, परमिदं प्रकृतन्यायेनापि सिध्यतीति सोऽत्रैवान्तर्भूतः । 'मण्डूकप्लुतिन्यायो'ऽप्यस्यैव प्रपञ्चस्तथाहि-यत्र पूर्वसूत्रस्थोऽधिकारः कतिचित्सूत्राणि मुक्त्वा मण्डूकवदने याति तत्रायं न्यायो, यथा "अव्वर्गात्स्वरे वोऽसन्” (१।१४०) इति सूत्रस्थोऽसन्नित्यधिकारो "अ इ उ वर्णस्यान्तेऽनुनासिकोऽनीदादेः” (१।२।४१) इति सूत्रमन्तराले ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org