________________
२४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमुक्त्वा "तृतीयस्य पञ्चमे" ( ११३।१) "प्रत्यये च" ( १।३।२) इति सूत्रयोर्गतस्तेन हि ककुम्मण्डलम् अम्मयम् इत्यादौ समासान्तर्वर्तिविभक्त्या पदान्तस्थस्यापि मस्यासत्त्वात् "तौ मुम०" ( १।३।१४) इति अनुस्वारानुनासिकौ मा भूताम् । अत्राप्यधिकारप्रवृत्तिनिवृत्स्योरपेक्षात एव सिद्धिरिति ॥ १२ ॥
अर्थवशाद् विभक्तिपरिणामः॥१३॥ ५ परिणामः परावर्तः, कार्य इति शेषः । यथा “अत आः स्यादौ जस्भ्यां ये” (१।४।१) इत्यतोऽनुवर्तमानस्य षष्ठयन्तस्यापि अत इति पदस्य "भिस ऐस्” ( १।४।२) इत्यत्र पञ्चम्यन्ततया परिणामः । अस्यानित्यत्वात् 'तृतीयस्य पञ्चमे' (१।३।१) इत्यतोऽनुवर्तमानस्य तृतीयस्येति पदस्य पञ्चम्यन्ततया परिणामनासिद्धावपि “ततो हश्चतुर्थः” ( १।३।३ ) इत्यत्र तत इत्युक्तम् ॥ १३ ॥
अर्थवद्ग्रहणे नानर्थकस्य ॥ १४ ॥ १० सम्भवति, ग्रहणं, कार्यमिति त्रयः शब्दा अत्राध्याहार्याः । अर्थवतः प्रत्ययादेर्महणे सम्भवति सत्य
नर्थकस्य ग्रहणं न कार्यम् । शब्दसारूप्यादुभयोर्ग्रहणे प्रसक्तेऽयं न्यायः, एवमग्रेतनेऽपि वाच्यम् । तत्र प्रत्ययस्य यथा, "तीयं त्किार्ये वा” (१।४।१४) इत्यत्र "द्वेस्तीयः” (७१।१६५) इति सार्थकस्य तीयप्रत्ययस्यैव ग्रहणं, नतु जातीयप्रत्ययगतस्यानर्थकस्य तीयस्य, तेन द्वितीयशब्दस्यैव स्मायादिविकल्पो न तु पटुजातीयशब्दस्य । प्रकृतेर्यथा, प्लीहा प्लीहानौ इत्यादौ हनो निरर्थकत्वात् “इन्ह१५न्पूषार्यम्णः शिष्योः” (१।४।८७) इति सूत्रोक्तनियमाभवनेन "नि दीर्घः” (१।४।८५) इति दीर्घः ।
ज्ञप्तिकरं चास्य "तृस्वमृ०” (१।४।३८) इति सूत्रे नप्वादीनां पृथगुपादानम् , तद्धि नप्वादीनां पृथगुपादानमौणादिकतृप्रत्ययान्तानामपि 'उणादयोऽव्युत्पन्नानि नामानि' इति न्यायात् अव्युत्पन्नसंज्ञाशब्दत्वेन तृशब्दस्यानर्थकत्वाद् ग्रहणं न स्यादिति तेषां पृथग्ग्रहणम् । अनित्यश्वायम् । 'अनिनस्मिन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ती'ति न्यायेनास्योपोद्यमानत्वादिति ॥ १४॥
___लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ १५॥ सम्भवतोरिति शेषः । यत् सामान्येन लिङ्गमात्रं निर्दिश्य विहितं तल्लक्षणं, लक्षणेन चरति “चरति" (६।४।११) इति इकणि लाक्षणिकमप्येतदुच्यते, यत्तु नामग्राहं विहितं तत्प्रतिपदोक्तम् । तत्रोभयोग्रहणे सम्भवति प्रतिपदोक्तं ग्राह्यं न तु लाक्षणिकम् , यथा “नोऽप्रशानो०” (११३८) इत्यनेन त्वन्तत्रेत्यादौ नस्य सो न स्यात् , अयं हि नः "तौ मुम०” ( १।३।१४) इत्यनेनानुनासिक इति सामा२५ न्येनैव विहितः, परं वयादिच्छन्नदेशे ककुदं दृष्ट्वा गवात्र भाव्यमितिवत्तकारं पुरो दृष्ट्वा तकारस्य स्वानु
नासिकेन नकारेण भाव्यमिति युक्त्या लक्षणाञ्चिह्नादागत इत्यतो लाक्षणिकः । प्रतिपदोक्तस्य तु नस्य सः स्यात् । यथा भवांस्तत्र, अत्र हि नोऽन्त इति नकारमेवोक्त्वा विहितत्वात् प्रतिपदोक्तः । ज्ञापकं त्वस्य "एकार्थ चानेकं च" (३।१।२२) इत्यनेनैव सिद्धेऽपि बहुव्रीही "आसन्नदूराधिक०” ( ३।१।२०) इत्यादि प्रतिपदोक्तं बहुव्रीहिविधानम् , तद्धि “प्रमाणीसङ्ख्याडः” (७।३।१२८) इति डप्रत्ययविधौ ३० तद्बहुव्रीहिग्रहणार्थम् , तेन आसन्नदशा इत्यत्रैव डः; "एकार्थ चानेकं चे”ति विहिते तु बहुव्रीही डोन स्यात् , यथा प्रिया दश येषां ते प्रियदशान इति । अनित्यत्वाचास्य यथा “एदोद्भ्यां ङसिङसो र" (१।४१३५) इत्यत्र सेः गोः इत्यादौ प्रतिपदोक्तयोरेदोतोर्ग्रहणम् , तथा लुनातीति विचि गुणे ङसिडसोः परयोर्नेलोः इत्यादावपि “एदोद्भ्यां उसिङसोरः" समजनि । अस्य नित्यत्वे तु गुणलक्षणकृतत्वादेदोतौ लाक्षणिकाविति ङसिङसो रत्वं न प्राप्नोति, । अस्य कचिल्लक्षणेन व्याकरणेन निष्पन्नं लाक्ष३५ णिक, अव्युत्पन्नं तु प्रतिपदोक्तमित्यप्यों दृश्यते, यथा हनो ह्यस्तनीदिवि अहन् इत्यस्य लाक्षणिकत्वात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org