________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । सूरिसमुच्चिता न्यायाः
२५
"अह्नः” (२|१|७४ ) इति नस्य रुर्न स्यात् किन्तु अव्युत्पन्नस्यैव दिनार्थस्याहन्शब्दस्येति सोऽपि पूर्वव्याख्ययैव सङ्गृहीतो द्रष्टव्य इति ॥ १५ ॥
नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ।। १६ ।
4
नाममात्रनिर्देशे स्त्रीत्वादिलिङ्गविशिष्टमपि नाम ग्राह्यम् । शब्दार्थभेदादप्राप्तप्रहणस्य प्रापणार्थोऽयं न्यायः, एवमुत्तरन्यायेऽपि वाच्यम्, यथा “त्यदामेनदेतद ०” ( २।१।३३ ) इति सूत्रे त्यदामिति नाम - ५ मात्र निर्देशेऽपि त्यदाद्यधिकारे सर्वत्र स्त्रीत्वादिविशिष्टानामपि त्यदादीनां ग्रहणात् सा स्या इत्यादौ "तः सौ सः " ( २|१|४२ ) इति से कर्तव्ये त्यदादेः सेश्च आपा व्यवधानं न स्यात्, आवन्तोऽपि त्यदादिस्त्यदादिरेवेति । नाममात्रग्रहणे इति किम् ? यत्र सलिङ्गनिर्देशस्तत्र तल्लिङ्गविशिष्टस्यैव ग्रहणं यथा स्यात्, तेन “अतः कृकमिकंस ० " ( २।३।५ ) इति सूत्रे कुशानिर्देशात् अयः कुश इत्यत्र रः सोन स्यात् । ज्ञापकं त्वस्य " राजन्सखे : " ( ७।३।१०६ ) इत्यत्र राजनिति नान्तनिर्देशः, स हि स्त्रीलिङ्गे - १० नकारान्ते राजन्शब्दे अट्समासान्तनिषेधाय, यथा महती चासौ राज्ञी च महाराज्ञी इत्यत्रानेन न्यायेन अट्प्राप्तोऽपि नान्तनिर्देशेन निषिध्यते । अनित्यत्वाच्चास्य “सर्वादिविष्वग्०” ( ३।२।१२२ ) इति द्रिर्विषूचीशब्दान्न स्यात् [ तथा सति विषूचद्रयङ् इत्यनिष्टरूपापत्तेः ] ॥ १६ ॥
प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहणम् ।। १७ ।।
यस्मात् यः प्रत्ययो विधीयते सा तस्य प्रकृतिः, सा चात्र धातुरूपैव ग्राह्या, यङ्लुबन्तत्वस्यान्यत्रा- १५ सम्भवात्, एवमुत्तरन्यायेऽपि । यस्य धातोर्यत्कार्यमुक्तं तत्तस्य यङ्लुबन्तस्यापि स्यात् तेन यथा प्रणिदत्ते इत्यत्र नेर्नो णः तथा प्रणिदाद इत्यत्रापि स्यात् । ज्ञापकं त्वस्य “एकस्वरादनुस्वारेतः” इति बृहत्सूत्ररचनम् । तथाहि - यद्यपि अनुस्वारेतः कृगादिधातवः सर्वेऽप्येकस्वरा एव तथापि यङ्लुबन्तीकृता एते चर्क इत्यादिरूपा बहुस्वराः स्युस्ते एतेन न्यायेन कृगादिग्रहणेन गृहीता अनुस्वारेतच स्युः । तेषां स्थानिवत्तयाऽनुस्वारेतो बहुस्वरस्य हनादेशस्य वधधातोश्चेनिषेधनिवृत्तये एक - २० स्वरादिति वचनं सार्थकम् ; तेन चर्करिता, अवधीत् इत्यादाविनिषेधनिवृत्तिर्बभूवेति । अनित्यत्वं चास्याप्रेतनेनापोद्यमानत्वादिति ॥ १७ ॥
तिवा१ शवा२ऽनुबन्धेन ३ निर्दिष्टं यद्गणेन ४ च । एकस्वरनिमित्तं५ च पञ्चैतानि न यङ्लुपि ॥ १८ ॥
निर्द्दिष्टमिति तिवादिषु चतुर्ष्वपि योज्यं, शेषं स्पष्टम् । तिवा निर्दिष्टं द्विधा, अलुप्तेन लुप्तेन च । तत्रा - २५ लुप्तेन यथा "न कवतेर्यङ: ” ( ४।१।४७ ) इति कस्य चत्वनिषेधः, अयं कोकूयते इत्यादौ स्याच्चोकवतीत्यादौ तु न, लुप्तेन यथा, “ङे पिब: पीप्यू” ( ४|१|३३ ) इति पीप्यादेशः पिबतेः केवलस्य स्याद्यथा अपीप्यत्, यङ्लुबन्तस्य तु न, यथा अपापयत् । १ । शवा निर्दिष्टं यथा, "निसस्तपेऽनासेवायाम्” (२।३।३५) इति निसः सस्य षत्वं निष्टपतीत्यादौ स्यात्, निस्तातपीतीत्यादौ तु न । २ । अनुबन्धेन यथा, "गापास्थासादामाहाकः " ( ४|३|९६ ) इत्येत्वम् हेयादित्यादौ स्यात्, जहायादित्यादौ ३० तु न । ३ । गणेन निर्दिष्टं त्रिधा, सङ्ख्यया, आदिशब्देन, बहुवचनेन च तत्र सङ्ख्यया यथा, “रुत्पञ्चकाच्छिदयः” ( ४।४।८८ ) इति इट् स्वपितीत्यादौ स्यात् सोषोप्तीत्यादौ तु न स्यात्; आदिशब्देन यथा, “दिवादेः श्यः ” (३।४।७२ ) अयं दीव्यतीत्यादौ स्यात्, देदिवीतीत्यादौ तु न; बहुवचनेन यथा “द्युद्भ्योऽयतन्याम् ” ( ३।३।४४ ) इत्यात्मनेपदविकल्पः सोऽयुतत् अद्योतिष्ट इत्यादौ स्यात्, अदेद्योतीदित्यादौ तु न । आदिशब्देन बहुवचनेन चेत्युभाभ्यां यथा, “तेर्महादिभ्यः” ( ४।४।३३ ) ३५ है० प्रका० पूर्वा • ४
"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org