________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुइति इटोऽनुज्ञाविधिः भणितिरित्यादौ स्यात्, न तु बम्भाण्टि इत्यादौ । ४ । एकखरनिमित्तं यथा "एकस्वरादनुस्वारेतः” (४।४।५६) इतीनिषेधः शक्त इत्यादौ स्यात् शाशकित इत्यादौ तु न; नचात्र बहुखरत्वानेनिषेध इत्याशङ्कनीयं, पूर्वोक्तन्यायेन शकिग्रहणेन गृहीतत्वादेकवरत्वमेवेति 'एकस्वरनिमित्तं यङ्लुपि न' इतीनिषेधो न । ५। ज्ञापकं त्वस्य तत्तत्सूत्रेषु तिवादिनिर्देशा एव । अनित्यत्वं चास्याये ५पञ्चमे वांशे न दृश्यते शेषेषु तु दृश्यते, तत्र द्वितीये यथा अपात् इत्यादाविव अपापादित्यादावपि
"पिबैतिदा०" (४।३।६६) इति शक्निर्दिष्टोऽपि सिचो लुबिनिषेधश्चाभूताम् , तृतीये यथा नृत्त इत्यादाविव नरीनृत्त इत्यादावपि "डीयश्व्यैदितः” (४।४।६१) इत्यनेनानुबन्धनिर्दिष्टोऽपीड्निषेधोऽजनि, तुर्ये यथा, स्प्रष्टेत्यादाविव स्पृशेर्यलुपि रागमे तिवि पद्मष्टि इत्यादावपि "स्पृशादिसपोवा” (४।४।११२) इति गणनिर्दिष्टोऽप्यदागम आगात् ॥ १८ ॥
सनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य ॥ १९ ॥ सन्निपतति सङ्गच्छते कार्यमस्मिन्निति सन्निपातो निमित्तं तल्लक्षणं चिह्नं यस्य कोऽर्थः-स्वनिमित्तादुद्भूतः, सविधिस्तस्य प्रस्तावात् स्वनिमित्तस्य विघाताय न भवति, लोके पितृघातकपुत्रादौ कार्यादपि कारणविघातस्य दर्शनाद् व्याकरणे तथात्वनिषेधार्थोऽयं न्यायः । यथा पपाचेत्यादौ णवा जातमनेकस्वरत्वं
"धातोरनेकखरादाम्०” (३।४।४६) इत्यामादेशसम्पादनेन णवो विघाताय न भवति । ज्ञापकं १५त्वस्य "धातोरनेकखरादाम्" इत्यत्र सामान्येनानेकस्वरत्वाभिधानं, तद्धि अनेन न्यायेन पपाचेत्यादाव
नेकस्वरत्वस्य णनिमित्तत्वादाम् भविष्यति, चकासाञ्चकारेत्यादौ स्वाभाविकानेकस्वरत्वाद्भविष्यति इत्यभिप्रायेणेति । अनित्यश्चायं, तेनातिजरसैरित्यत्र अतिजरशब्दस्यादन्तत्वेन निष्पन्नो “भिस ऐस्" (१।४।२)जरसादेशहेतूभवनेन स्वहेतोरदन्तस्य विघाताय जातः । अनित्यत्वज्ञापकं च एस्करणे
ऽपि देवैरित्यादिप्रयोगसिद्धावपि ऐस्करणमतिजरसैरिति प्रयोगसिद्धयर्थम् , स च प्रयोगोऽस्य न्यायस्य २० नित्यत्वे न सम्भवतीति प्रागेवोक्तमिति ॥ १९ ॥
असिद्धं बहिरङ्गमन्तरङ्गे ॥२०॥ प्रकृतेराश्रितं यत्स्याद्यद्वा पूर्व व्यवस्थितम् । यस्य वाल्पनिमित्तानि अन्तरङ्गं तदुच्यते ॥ १ ॥ प्रत्ययस्याश्रितं यत्स्याबहिर्वा यव्यवस्थितम् ।
बहूनि वा निमित्तानि यस्य तद्वहिरङ्गकम् ॥ २ ॥ __बहिरङ्ग कार्यमन्तरङ्गे विधौ कर्त्तव्येऽसिद्धमसदिव स्यात् । बहिरङ्गदौर्बल्यख्यापनार्थोऽयं न्यायः । यथा गिर्योरित्यादौ प्रत्ययाश्रितत्वादहिर्व्यवस्थितत्वाद्वा बहिरङ्गस्य यत्वस्य प्रकृत्याश्रितत्वात्पूर्वव्यवस्थितत्वाद्वाऽन्तरङ्गे "भ्वादेर्नामिन०” (२।१।६३) इति दीर्घ कर्तव्येऽसिद्धत्वाही? नाभूत् । ज्ञाप
त्वस्य "न सन्धिङी.” (७।४।१११) इति सूत्रे सन्धिविधित्वेनैव द्वित्वविधौ स्थानिवद्भावनिषेधे ३. सिद्धेऽपि द्विग्रहणम् , तथाहि दद्ध्यत्रेत्यादौ "अदीर्घाद्विराम०” (१।३।३२) इति सूत्रेण धस्य द्वित्वे क्रियमाणे "स्वरस्य परे प्राग्विधौ” (७।४।११०) इति यत्वस्य स्थानिवद्भावो विघ्नीभवन "न सन्धि०" इति सूत्रे सन्धिग्रहणेन निषिद्धः । द्वितीयतृतीयपादयोः सन्धिविधी हि क्रमेण स्वरव्यञ्जनसन्धी उच्येते, एवं स्थितेऽपि यत् "न सन्धिः " इति सूत्रे सन्धितः पृथग् द्विग्रहणं, तदनेन न्यायेन
यत्वस्य स्थानिवद्भावो मा भूदित्यभिप्रायेणेति । द्वित्वं हि पूर्वव्यवस्थितत्वादन्तरङ्गं यत्वं च बहि३५ र्व्यवस्थितत्वावहिरङ्गामिति ॥ २० ॥
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org