SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ २७ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः। सूरिसमुच्चिता न्यायाः न स्वरानन्तये ॥ २१॥ स्वरयोरानन्तर्ये सति यदन्तरङ्गं कार्य क्रियते, तस्मिन्कर्तव्ये बहिरङ्गमसिद्धं न स्यात्, पूर्वस्यापवादोऽयं न्यायः, यथा इयेष, बभूवुषा, अत्र बहिर्व्यवस्थितत्वाहिरङ्गोऽपि इष्धातोर्गुणः कसोरुषादेशश्च पूर्वव्यवस्थितत्वादन्तरङ्गे यथाक्रमं “पूर्वस्यास्खे खरे.” (४।१।३७) इतीयादेशे “धातोरिवर्णस्ये.” (२।१।५० ) इत्युवादेशे च कर्तव्येऽसिद्धो नाभूत् , स्वरयोरानन्तर्यसद्भावात् । ज्ञापकं५ त्वस्य "वृत्त्यन्तोऽसषे” (१।१।२५) इति निर्देशस्तथाहि, अत्र "अतोऽति रोरुः” (१।३।२०) इत्यनेन कृतस्य उत्वस्य पदान्तरस्थाकारसापेक्षत्वेन बहिरङ्गस्य, "अवर्णस्येवर्णादि०” (१।२।६) इति सूत्रेण प्रास्थिताकारेण सह ओत्वे एकपदापेक्षत्वेनान्तरङ्गे कर्त्तव्ये, पूर्वन्यायेन यद्यसिद्धत्वं स्यात्तदा ओत्वस्याभवनात् "वृत्त्यन्तोऽसषे" इति निर्देशो न सम्भवतीति ॥ २१ ॥ गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः॥ २२॥ यथा "नामिनो गुणोऽकृिति" (४।३।१) इत्यत्र मुख्यधातोरेव ग्रहणं तेन नीभ्यां लूभ्यां इत्यादौ किबन्तत्वेन गौणधातोर्गुणो न स्यात् । अनित्यत्वाचास्य "धातोरिवर्णोवर्णस्य” इत्यत्र गौणस्यापि ग्रहणम् , तथाहि वविच्छतः वसूयतस्ततः किपि “अतः” (४।३।८२) इत्यल्लुकि “योऽशिति” (४।३।८०) इति यलुकि वस्वौ वस्व इत्यादौ वत्वसिद्धयर्थं "स्यादौ वः” ( २।१।५७) इति सूत्रं कृतम् , वत्वं च "इवर्णादेरखे स्वरे०” (१।२।२१) इत्यनेनापि सिद्धयेत् परं 'वार्णात्प्राकृतमि'तिन्यायात्परत्वाच्च १५ "इवर्णादेरि"ति वत्वं बाधित्वा "धातोरिवणे"त्युवेव प्रवर्तते इति तद्वाधनाथ "स्यादौ वः" इति सूत्रम्, ततोऽस्य न्यायस्यानित्यत्वात् “धातोरिवणे"त्यत्र गौणस्यापि धातोम्रहणमिति । "प्रधानानुयायिनो व्यवहारा” इत्यपि न्यायोऽस्ति, यथा मुनीन् इत्यादौ इकारस्य शसोऽकारस्य चेत्युभयोः स्थानित्वेऽपि षष्ठया निर्दिष्टत्वेन मुख्यस्थानिन इकारस्यैवासन्न ईकारो दीर्घः स्यात् , नत्वकारस्यासन्न आ, "शसोऽता०” (१।४।४९) इति सहार्थनिर्देशेनाकारस्य गौणत्वादिति । परमयमपि न्यायोऽत्रैवा-२० न्तर्भूत इति । 'प्रधानानुयाय्यप्रधान'मित्यपि न्यायोऽस्ति, यथा नीलोत्पलमित्यत्रोभयोरपि पदयो यभिचारित्वेनान्यव्यवच्छेदकत्वाद्विशेषणसम्भवे "विशेषणं विशेष्येण०" (३।१।९६) इति कर्मधा. रये उत्पलनीलमित्यपि स्यात्तथापि 'द्रव्याश्रयी गुण' इति न्यायागुणवाचिनो नीलशब्दस्याप्रधानत्वं द्रव्यवाचिन उत्पलशब्दस्य प्रधानत्वमिति स एव पुरोभूयावतिष्ठमानः क्रियान्वयित्वं लभते इति । अयमपि न्यायोऽत्रैवान्तर्भूतः । मुख्ये एव कार्यसम्प्रत्यय इति क्रियान्वयित्वलक्षणं कार्य मुख्ये एव २५ भवतीति ॥ २२ ॥ कृत्रिमाकृत्रिमयोः कृत्रिमे ॥ २३ ॥ कृत्रिमं परिभाषानिष्पन्नं, तच्च गौणमौपाधिकत्वात्। ततोऽन्यदकृत्रिमं लोकप्रसिद्धं तश्च मुख्यमनौपाधिकत्वात् । तयोर्मध्ये कृत्रिमे कार्य कार्यम्, पूर्वेणाकृत्रिमस्य ग्रहणे प्राप्ते तदपवादोऽयं न्यायः; यथा "असहनञ्” ( २।४।३८) इत्यादिसूत्रेषु, "अविकारो द्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते । च्युतं ३० च प्राणिनस्तत्तत्तन्निभं च प्रतिमादिषु" ॥१॥ इति पारिभाषिकमेव स्वाङ्गं ग्राह्यं तेन दीर्घमुखा शालेत्यत्र स्वाङ्गत्वाभावात् ङीन स्यात् । ज्ञापकं त्वस्य “आङो यमहनः स्वेऽङ्गे च" (३।३१८६) इत्यत्र स्वाङ्गशब्दयोय॑स्ताभिधानम् , इदं हि आयच्छति पादौ मैत्रस्य चैत्र इत्यादौ पारिभाषिकाङ्गलक्षणे सत्यपि मैत्रपादयोश्चैत्रस्य स्वावयवत्वाभावादात्मनेपदं मा भूदित्येवमर्थम् । स्वाङ्ग इति समस्ताभिधाने तु स्वाङ्गलक्षणसद्भावादेतन्यायादत्रात्मनेपदमभविष्यदेवेति । अनित्यत्वं त्वस्योत्तरेण दर्शयिष्यते ॥२३॥ ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy