________________
२८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
क्वचिदुभयगतिः ॥२४॥ कचित् कृत्रिममकृत्रिमं चेत्युभयमपि ग्राह्यम् , यथा “नाडीतबीभ्यां स्वाङ्गे" (७।३।१८०) इत्यनेन 'बहुनाडिः कायो', 'बहुतश्री प्रीवे'त्यत्र कृत्रिमस्वाङ्गवृत्त्योः नाडीतश्रीशब्दयोर्यथा कच् निषिध्यते, तथा 'बहुनाडिः स्तम्बो', 'बहुतन्त्री वीणे'त्यादावपि कच् निषिध्यते, अन हि नाडीतष्योरप्राणिस्थत्वात् ५न कृत्रिमं स्वाङ्गत्वम् । न च स्तम्बस्यैकेन्द्रियत्वात्कथमप्राणिस्थत्वमित्याशङ्कनीयम् , "प्राण्यौषधिवृक्षे
भ्य” ( ६।२।३१) इत्यत्र वृक्षौषधीनां प्राणिभ्यः पृथनिर्देशेनेह शास्त्रे प्राणिशब्देन बसा एव ग्राह्या नतु स्थावरा इति । अनित्यश्चायं क्वचिदित्युक्तेः ॥ २४ ॥
सिद्धे सत्यारम्भो नियमार्थः ॥ २५ ॥ नैरर्थक्यशङ्कानिरासार्थोऽयं न्यायः, यथा दण्डीत्यादौ “नि दीर्घः" ( १।४।८५ ) इति दीर्घ सिद्धेऽपि १० "इन्हन्पूषा०” (१।४।८७) इति सूत्रारम्भो नियमार्थ एव । नियमश्चायं-इनादीनां शिस्योरेव
दी? नान्यघुटीति, तेन दण्डिनावित्यादौ "नि दीर्घ” इत्यनेनापि दी| न स्यात् । ज्ञापकं त्वस्य पुनः सूत्रारम्भ एव । अनित्यत्वाच्चास्य पूजाई इत्यादौ “लिहादिभ्यः” (५।११५०) इत्येवाचि सिद्धे "अर्होऽच्” (५।१।९१) इत्यादि षट्सूत्रारम्भो लिहादिप्रपश्चार्थो नतु नियमार्थ इति ॥ २५ ॥
धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् ॥ २६ ॥ १५ यत्कार्य धातोः स्वरूपमुच्चार्य प्रत्यये परे उक्तं तत्तस्य धातोरेव सम्बन्धिनि प्रत्यये परे स्यात् न तु
किबन्तत्वेन नाम्नोऽपि सम्बन्धिनि, यथा दुष्यन्तं प्रयुङ्क्ते दूषयतीतिवत् दोषणं दुट् कि तां करोतीति णिजि दुषयति, अत्र "ऊदुषो णौ” (४।२।४०) इत्यनेन उत ऊन, यतोऽत्र 'किबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते' इति धातुत्वनामत्वोभयसद्भावः । ज्ञापकं त्वस्य "ऊदुषो णावि". त्यादि सूत्रेषु विशेषणानुक्तिरेव ॥ २६ ॥
नजुक्तं तत्सदृशे ॥ २७॥ ___ यत्पदं नया योगानिषिध्यते, तत्र तत्सदृशमेवापरं ग्राह्यं नत्वसदृशम् , यथा “य्यक्ये” ( १।२।२५) इत्यत्र क्यप्रत्ययेन नमुक्तेन क्यसदृशस्य यकारादेरपि प्रत्ययत्वनियमनात् गां नावं वेच्छति क्यनि गव्यति नाव्यतीत्यत्रवद् गोयानं नौयानमित्यादाववावौ न । अनित्यत्वाचास्य पर्युदासे प्रवृत्तिर्न प्रसज्ये ।
उक्तं च-'पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृदिति, ततश्च "अनतो लुप्” (१।४।५९) २५ इत्यत्र प्रसज्यनब्सद्भावादकारसदृशस्य केवलस्य स्वरस्यैव न ग्रहणम् , किन्स्वकारवर्जसर्वस्वराणां व्यञ्जनानां च ग्रहणम् , तेन पय इत्यादौ व्यञ्जनान्तादपि स्यमोर्लुप् सिद्धा । एवं च निषेधमात्रपर्यवसायिनः प्रसज्यनयः प्रतिकूलोऽयं न्यायः ॥ २७ ॥ :
उक्तार्थानामप्रयोगः ॥ २८॥ उक्तः प्रत्यायितोऽन्यः प्रत्ययाद्यैरर्थो येषां तेषां द्वितीयादि विभक्यादीनां ? प्रयोगो न कार्यः, ३० यथा क्रियते कटोऽनेनेत्यादौ कर्मादिषूत्पन्नैरात्मनेपदाद्यैः कर्मादिशक्तयः प्रत्यायिता इति न तत्प्रत्यायनाय कटादेर्द्वितीयादि, ततः परिशिष्टेऽर्थमात्रे प्रथमेति ॥ २८ ॥
निमित्ताभावे नैमित्तिकस्याप्यभावः ॥ २९॥ निमित्तनिवृत्तौ नैमित्तिकं तज्जातं कार्यमपि निवर्त्तते इति भावः, लोके कुम्भकाराभावेऽपि घटो दृश्यते, इह तु नैवमिति ख्यातिकरोऽयं न्यायः। यथा बिम्बशब्दालताविशेषविवक्षायां स्त्रीत्वे गौरादित्वात् ड्याम् , ३५ “अस्य यां लुक्” (२।४।८६) इति बिम्बाकारलुकि च बिम्बी, तदनु बिम्ब्याः फलं बिम्बम् , अत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org