SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । सूरिसमुच्चिता न्यायाः २९ 'हेमादित्वादवि “फले" ( ६।२।५८) इति तल्लुपि, “ड्यादेौणस्य.” (२।४।९५) इति ङीनिवृत्तौ, "अस्य डयां लुक्” ( २।४।८६) इति डीजाताया अल्लुकोऽपि निवृत्त्या अकारः प्रत्यावृत्त इति । अस्य ज्ञापकं तु "न सन्धि०” (७४।१११) इति सूत्रे ङीलुकोऽल्लुकि कार्ये स्थानिवद्भावनिषेधोक्तिः, तथाहि-"न सन्धिः ” इति सूत्रवृत्तौ डीपरे विधिमविधिस्तस्मिन् अल्लुगलक्षणे जीविधौ कर्त्तव्ये डीलुगलक्षणः स्वरस्यादेशः स्थानिवन्न भवति, यदि च लुप्रूपस्य स्वरादेशस्य स्थानिवद्भावेन डी सद्भूतः५ स्यात् तदा पुनरपि "अस्य ड्यां लुक्” इत्यकारलुकि बिम्बमिति न सिद्धयति, ततो "न सन्धिङी" इति सूत्रे डी लुकः स्थानिवद्भावो निषिद्धः, ततोऽनेन न्यायेन डीनिवृत्तौ अल्लुको निवृत्तौ बिम्बमिति सिद्धम् । अनित्यत्वाचास्य "दी? नाम्यतिसृचतसृष्रः” (१।४।४७) इति दीर्घ कृते ह्रस्वनाशेऽपि ह्रस्वजो नाम् न नष्टः ॥ २९ ॥ सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः॥३०॥ सन्नियोगः सहोक्तिस्तेन शिष्टानामुक्तानामेकस्याभावेऽन्यस्याप्यभाव इति भावः । अभावश्च द्विधा, भूत्वा निवर्त्तनं मूलतोऽप्यभवनं च । तत्राचं यथा, पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः, अत्र "देवता" (६।२।१०१) इत्यणि "द्विगोरनपत्ये यस्वरादे बद्विः” ( ६।११२४ ) इत्यण्लुपि "ड्यादेर्गौणस्य." (२।४।९५) इति डीनिवृत्तौ “वरुणेन्द्ररुद्र०” (२।४।६२) इति ङीसन्नियोगशिष्ट आनपि निवृत्तः, द्वितीयं यथा, एतान् गाः पश्येत्यत्र गोरोतः शसोऽता सह "आ अम्शसोऽता" (१।४।७५) १५ इत्यात्वे शसो अकारस्याभावात् "शसोऽता सश्च नः पुंसि" (१।४।४९) इति दीर्घस्याभवनात्तेनैव सूत्रेण दीर्घसन्नियोगे उक्तं नत्वमपि नाभूत् । ज्ञापकं त्वस्य आननिवर्त्तनाय नत्वनिषेधाय च यत्नाकरणमिति ॥ ३० ॥ नावाचीयमाननिवृत्तौ प्रधानस्य ॥ ३१॥ अप्राधान्येन विधीयमानमन्वाचीयमानं, तन्निवृत्तौ प्रधाननिवृत्तिर्न भवति, किन्तु 'मुख्यस्याभावे २० गौणस्याप्यभाव' इत्येव स्यात् , पूर्वेण यदृच्छायां प्राप्तायां नियमार्थोऽयं न्यायः; यथा बुद्धीः धेनूः, अत्र पुंस्त्वाभावात् "शसोऽता” इत्यनेन शसः सस्य नत्वाभावेऽपि प्रधानतयोक्तो दीर्घः स्यादेव । ज्ञापकं त्वस्य "शसोऽता सश्च०" इति सूत्रे नत्वविधेः 'सश्च नः' इत्यन्वाचयार्थेन चेन निर्देशः। यतो गौणत्वेन समुचयस्तावदन्वाचय उच्यते, गौणत्वस्य चैतावानेव विशेषो यद्गौणस्य निवृत्तौ मुख्यं न निवर्तत इति । [अनियमस्त्वस्य न प्रतिभासते ] ॥ ३१ ॥ निरनुबन्धग्रहणे न सानुबन्धकस्य ॥३२॥ कार्य स्यादितीहोत्तरत्र च विशेषः । निरनुबन्धं कञ्चनशब्द सूत्रे उच्चार्य यत्कार्य विहितं, तत्कार्य तस्य शब्दस्य निरनुबन्धस्य ग्रहणे सम्भवति सानुबन्धकस्य न स्यात् , अविशेषोक्त्योभयोर्ग्रहणे प्राप्ते तदपवादोऽयं न्यायः । यथा “येऽवणे" (३।२।१००) इत्यत्र "तस्मै हिते” (७।११३५) इत्यादि विहिते . निरनुबन्ध एव ये नासिकाया नसादेशः स्याद्यथा नासिकायै हितं नस्यं घृतम् । सानुबन्धे तु ये ब्यादिरूपे ३० न स्यात् , यथा नासिकात्रास्ति "सुपन्ध्यादेर्व्यः” (६।२।८४) इति चातुरर्थिक व्ये नासिक्यं नगरम् । ज्ञापकं त्वस्य "न यि तद्धिते” (२।१।६५) इत्यत्र ये इत्यकरणम् , तथाहि-य् इति व्यञ्जनमात्रोपादाने तादृशस्य यप्रत्ययस्यासम्भवादेतन्यायाप्रवृत्तेर्निरनुबन्धसानुबन्धयोHहणं कर्तुं शक्यते, अकारसहितोपादाने तु तादृशस्य निरनुबन्धस्य यप्रत्ययस्य सम्भवात्सानुबन्धस्य यादेः प्रत्ययस्य ग्रहणमेतन्न्यायात्कर्तुं न शक्यते, अतः सानुबन्धस्यापि यस्य ग्रहणार्थं यिति व्यञ्जनमात्रोपादानं कृतं, ये इति तु न कृतमिति ॥ ३२ ॥ २५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy