________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
एकानुबन्धग्रहणे न धनुवन्धकस्य ॥ ३३ ॥ सूत्रोक्तस्यैकानुबन्धस्य ग्रहणे सम्भवति सति तत्सूत्रकार्य व्यनुबन्धकस्योपलक्षणाच्याद्यनुबन्धकस्य न स्यात् , यथा “य्यक्ये” (१।२।२५) इत्यत्र एकानुबन्धस्य क्यस्य वर्जनात् ब्यनुबन्धके क्यनि क्यङि चावावौ स्यातामेव, यथा गव्यति गव्यते, नाव्यति नाव्यते । ज्ञापकं त्वस्य "दीर्घश्वि०" (४।३।१०८) ५इति सूत्रे बहुवचनम् , इदं हि क्यन्क्यङ्ग्यक्षामविशेषेण ग्रहणार्थम् , यदि चायं न्यायो न स्यात्तदा जातिविवक्षया एकवचनेनापि सर्वेषां ग्रहणं सिध्यतीति किमर्थ बहुवचनं क्रियेतेति ।। ३३ ॥
नानुबन्धकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वानि ॥ ३४ ॥ असारूप्यं मिथो विसदृशरूपत्वं तथाऽनेकवरत्वमनेकवर्णत्वं चानुबन्धवशान्न स्युः । यथा अणो डेनासरूपत्वं नास्तीत्यतो गोद इत्यत्र "आतो डो ऽहावामः” ( ५।११७६) इति डविषये "कर्मणोऽण्" १० (५।११७२) इत्यण "असरूपोपवादे वोत्सर्गः प्राक क्तेः” (५।१।१६) इत्यनेनानुमतत्वान्न स्यात् ।
अणि हि गोदाय इत्यनिष्टं रूपं स्यादिति । तथा 'डुपची) पाके' इत्यस्य धातोरनुबन्धवशादनेकस्वरत्वाभावात्पपाचेत्यत्र परोक्षाया 'धातोरनेकस्वरादाम्०” (३।४।४६) इत्यामादेशो न स्यात् । तथा अनुबन्धवशादनेकवर्णत्वाभावात् "वन्याङ्पञ्चमस्य" (४।२।६५) इत्याङादेशस्य जित्वेनानेकवर्णत्वा
भावात् 'घुणि भ्रमणे', 'चन भक्तावि'त्याभ्यां “मन्वनकनिप्.” (५।१।१४७ ) इति वनि घ्यावा, १५वावा इत्यत्र “षष्ठयाऽन्त्यस्य" (७।४।१०६) इति परिभाषया पश्चममात्रस्यैवाङादेशो नतु "अनेकवर्णः सर्वस्य” (७।४।१०७) इति परिभाषया पञ्चमान्तस्य सर्वस्य धातोरिति ॥ ३४ ॥
समासान्तागमसंज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि ॥ ३५ ॥ एतानि षट् अनित्यानि अनियतानि, यथासूत्रं क्वचिन्न स्युः कचिदन्यथा स्युरित्यर्थः । समासान्तादीनां नित्यत्वे प्राप्ते तनिषेधार्थोऽयं न्यायः । तत्र समासान्तो यथा बह्वाम्पि, बह्वम्पि, सरांसि इत्यत्र २० "ऋक्पूःपथ्यपोऽत्” (७।३।७६) इत्यत् समासान्तः प्राप्तोऽपि न स्यात् । ज्ञापकं त्वस्य "ऋक्पू:पथ्यपोऽत्” इति निर्देश एव, अत्समासान्तो हि पथ्यपादिति स्यात् । आगमो यथा पट्टा पटिता अत्र पटेः सेट्त्वात् नित्यं प्राप्तोऽपि वेद, पक्ता पचिता, आस्कन्तव्यम् आस्कन्दितव्यमित्यत्र पचिस्कन्धोरनिट्वेऽपि वेट , तथा धावेरूदित्त्वाद्वेट्वेपि गतौ क्तयोनित्यमिट धावितः धावितवान् , शुद्धौ
तु नेट् धौतः धौतवान् , तथा जभेस्तिवि जम्भतीत्यत्र “जभः स्वरे" (४।४।१०० ) इति नागमः, २५ जञ्जभीति इत्यत्र तु अनित्यत्वात् न; तथा कमेणिङि आनशि मागमे कामयमानः, अनित्यत्वान्माग
माभावे कामयान इत्यपि । ज्ञापकं तु इड्नागममागमादिविकल्पयत्नाकरणम् । संज्ञानिर्दिष्टं यथा, परोक्षेति संज्ञानिर्दिष्टो "धातोरनेकस्वरादाम्०" (३।४।४६) इत्याम् चकासामासेत्यादौ स्यात् , ददरिद्रौ इत्यादौ न स्यात् । ज्ञापकं त्वस्य "आतो णव औः” (४।२।१२०) इत्यत्र ओकारे
णैव पपी इत्यादि सिद्धावपि औविधानम् , तद्धि ददरिद्रौ इति सिध्यर्थं कृतम् , अन्यथा “अशियसन् ३० णकच्णकानटि" (४।३।७७ ) इत्यालोपे ददरिद्रा इति रूपं प्रसज्यते, यदि च दरिद्रेर्णव आम् ऐकान्तिकः स्यात्तदा दरिद्राञ्चकार इत्येव भवनादौत्वस्यानवकाशत्वादौत्वं नाकरिष्यदिति । ज्ञापकं-सौत्रनिर्देशगणपाठादि तन्निर्दिष्टं यथा “दशैकादशादिकश्व" (६।४।३६ ) द्वितीयान्ताद्दशैकादशशब्दात् गृहाति इत्यर्थे इक इकट् च स्यात् , दशभिरेकादश दशैकादशाः तान् गृह्णातीति दशैकादशिकः, दशैकादशिकी स्त्री, अत्र सौत्रनिर्देशेन दशैकादशशब्दस्यादन्तत्वप्राप्त्या दशैकादशान् गृह्णातीति वाक्यम् , सौत्र३५ निर्देशसिद्धस्यादन्तत्वस्यानित्यत्वाञ्च दशैकादश गृह्णातीत्यप्यबाधितमेव; ज्ञापकं त्वस्य "पूर्वपदस्थाना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org