________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । सूरिसमुच्चिता न्यायाः ३१ ज्यगः" ( २।३।६४) इत्यत्राग इति, तच्च ऋगयनमित्यत्र णत्वनिषेधार्थ, तनिषेधश्च “शिक्षादेश्वाण्" (६।३।१४८) इति सूत्रे शिक्षादिगणे ऋगयनमिति नान्तपाठरूपाज्ज्ञापकात् सिध्यति । परं गणपाठनिर्दिष्टस्यानित्यत्वं सम्भाव्य प्रागुक्तसूत्रे अग इत्युक्तमिति । ननिर्दिष्टं यथा क्रुक् उ आस्ते क्रुङवास्ते, किम् उ आवपनं किम्वावपनं, अत्र वस्य "अब्वर्गात्वरे वोऽसन्” (१।२।४०) इत्यसत्त्वात् खरे परे "हस्तान्ङणनो द्वे" ( १।३।२७) इति उस्य द्वित्वं जातं मस्य तु पुरो व्यञ्जनाभावात् "तौ५ मुम०” ( १।३।१४) इत्यनुस्वारानुनासिकौ नाभूताम् , असद्भावस्य नग्निर्दिष्टत्वेनानित्यत्वात्तु तद् उ अस्य मतं तवस्य मतमित्यादौ "ततोऽस्याः” (१३।३४) इति वस्य द्वित्वम् ; ज्ञापकं त्वस्य, "व्याप्तौ स्सात्” (७२।१३०) इति द्वितीयः सः, अयं हि अनिसादित्यादौ षत्वनिषेधाय, तनिषेधस्तु "वृत्त्यन्तोऽसषे” (१।१।२५) इत्यत्र वृत्त्यन्तः पदसंज्ञो न स्यात्, परमसषे सस्य षत्वे कर्तव्ये पदमेवेति 'सात्' इत्यस्य पदसंज्ञत्वात्पदादित्वादेव पदान्तर्भावी षो न भविष्यति, परं त्वस्य ननिर्दिष्ट-१० त्वेनानित्यत्वं सम्भाव्य प्रागुक्तसूत्रे द्वितीयसकारग्रहणं कृतम् । अनित्यत्वाचास्य केचिदेव समासान्तादयोऽनित्यत्वाद्यथाप्रयोगदर्शनं कचिद् भवन्ति कचिन्न भवन्ति च, अन्ये तु समासान्तादयः षडपि खविषयं प्राप्य स्युरेवेति नित्या एवेति ॥ ३५ ॥
पूर्वेऽपवादा अनन्तरान् विधीन बाधन्ते नोत्तरान् ॥ ३६॥ पूर्वमुक्तानि बाधकानि वक्ष्यमाणबाध्यमध्येऽनन्तरान् विधीन्प्रतिषेधन्ति न तु व्यवहितान् , तेषा-१५ मपि निषेधे प्राप्तेऽयं न्यायः । यथा “श्लिषः" (३।४।५६) इति सक् अनन्तरं पुण्याद्यडं बाधते न तु व्यवहितं भावकर्मभिचं तेन आश्निक्षत्कन्यां चैत्र इत्यत्रा न स्यात् , आश्लेषि कन्या चैत्रेणेति बिच् स्यादेव । ज्ञापकं त्वस्य सक्अनिच्सूत्राणामेवमुपन्यासक्रम एव ॥ ३६ ॥
मध्येऽपवादा पूर्वान् विधीन् बाधन्ते नोत्तरान् ॥ ३७॥ वर्तमाना इति शेषः । उक्तवक्ष्यमाणबाध्यमध्ये वर्तमानानि बाधकसूत्राणि प्राग्विधीन बाधन्ते नोत्त-२० रान् , तेषामपि बाधकत्वे प्राप्तेऽयं न्यायः, यथा “ब्रह्मभ्रूणवृत्रात् किप्” (५।१।१६१) इत्यनेन भूतकाले विहितः किप् ब्रह्महतवान् ब्रह्महा इत्यादौ प्रागुक्तान् "कर्मणोऽण्” (५।११७२) इत्यणं "ब्रह्मादिभ्यः" ( ५।११८५) इति टकं "हनो णिन्” (५।१११६०) इति णिनं च बाधते न तु वक्ष्यमाणं "क्तक्तवतू" ( ५।१।१७४ ) इति क्तवतुं तेन भूतेऽर्थे वाच्ये ब्रह्मघातः ब्रह्मनः ब्रह्मघातीति प्रागुक्तसूत्रप्रत्ययानि न स्युः । ब्रह्महतवानिति क्तवतुरूपं तु स्यादेव । ज्ञापकं त्वस्येदृक्प्रयोगा एवेति ।। ३७ ॥ २५
यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्वाध्यते ॥ ३८॥ यस्य सूत्रस्य यत्र प्रवर्त्तने किश्चित् फलं नास्ति तत्सूत्रं तत्र बाध्यते न प्रवर्त्तते इत्यर्थः, यथा 'तनित्यजियजिभ्यो डद्' (उणा० ८९५) इत्यौणादिके डद्प्रत्यये तद् यद् यद् अत्र दस्य पुनः "धुटस्तृतीयः” (२।११७६) इति प्राप्नोति, परं निष्फलत्वान्न क्रियते, तथा संचस्कारेत्यत्र स्कृ स्कृ इति द्वित्वे "अघोषे शिटः” (४।१।४५) इत्याद्यस्सटो लुकि तत्स्थाने पुनः स्सट् तल्लुक च प्रामुतः परं व्यर्थ-३० त्वात्तौ न क्रियेते निष्फले हि कृते क्रियानुपरमप्रसङ्ग इति ।। ३८ ॥
यस्य तु विधेनिमित्तमस्ति नासौ विधिर्वाध्यते ॥ ३९ ॥ यथा तच्चारु इत्यादौ दस्य तृतीयविधिः क्रियते एव न तु बाध्यते निमित्तसत्त्वात् , तथाहि-"धुटस्तृतीयः" इत्यसदधिकारविहितस्य दत्वस्य “चजः कगम्” (२।११८६) इति परकार्ये कर्त्तव्ये असत्त्वात्तत्स्थाने "तवर्गस्य श्ववर्ग०” ( १।३।६०) इति कृतं जत्वमप्यसत् तत्स्थाने "अघोषे प्रथमोऽ-३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org