________________
३२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुशिटः" ( १३५०) इति कृतं चत्वमप्यसदभूत्तथा च गत्वकत्वे नाभूताम् । ज्ञापकं त्वस्येदृग्रूपसिद्धिरेवेति ॥ ३९ ॥
येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः ॥४०॥ येन विधिना नाप्राप्तं किन्तु प्राप्तमेव-तस्मिन्सति यस्यैकान्तेन प्राप्तौ सत्यामित्यर्थः यो बाधकविधि५रारभ्यते स तस्यैवैकान्तेन प्राप्तिमतो विधेर्बाधकः स्यात् , यस्तु क्वचित् प्राप्नोति कचिन्न तस्य प्राप्त्यप्राप्तिमतो विधेर्बाधको न स्यादित्यर्थः । यथा उखासद् पर्णध्वद् विद्वत्कुलमित्यादौ "सोरुः” (२।१।७२) इति रुत्वं, स्वनडुत्कुलमित्यादौ "हो धुट् पदान्ते” (२।११८२) इति ढत्वं च प्राप्नोत्येव, एवं सति
ध्वंसक्कसू०" (२।१।६८) इति दत्वसूत्रं प्रारब्धं तदेकान्तप्राप्तिमती रुत्वढत्वे एव बाधते न तु प्राप्ताप्राप्तं "पदस्य” (२।१।८९) इति संयोगान्तलोपम् , यतः संयोगान्तलोपो विद्वानित्यादौ प्राप्नोति, १० विद्वत्कुलमित्यादौ च न प्राप्नोति, तेन विद्वान् अनडान् इत्यादौ संयोगान्तलोपः स्यादेव न तु "संस्
ध्वंस्" इति दत्वसूत्रेण बाध्यते । ज्ञापकं त्वस्य कसः सिति विशेषणम् , तथाहि कसः सो दविधिर्यदि रुत्वमिव संयोगान्तलोपमपि बाधते तदा कसः सन्तत्वं न व्यभिचरति किमर्थं सिति विशेषणं क्रियते, यत्तु कृतं तज्ज्ञायते दत्वविधिः संयोगान्तलोपं प्राप्ताप्राप्तत्वान्न बाधते, ततो यत्र संयोगान्तलोपस्तत्र कसोः सन्तत्वं नास्तीति तन्निरासाय कसोः सिति विशेषणं सार्थकमिति ॥ ४० ॥
अतः परं सप्तदश बलाबलोकिन्याया उच्यन्ते।
बलवनित्यमनित्यात् ॥४१॥ यद्यस्मिन् कृतेऽप्यकृतेऽपि च प्राप्नोति तत्तदपेक्षया नित्यम् , यत्तु अकृते प्राप्नोति नतु कृते तदनित्यं, तयोर्युगपत्प्राप्तौ नित्यं कार्यमनित्याद्बलवदिति प्रथमं प्रवर्तते, यथा अकाटेंत्यादौ "धुड्ह्रस्वात्" (४।३।७०) इति सिज्लुकः प्रथमं नित्यत्वात् "सिचि परस्मै" (४।३।४४) इति वृद्धिस्ततश्च ह्रस्वाभावान्न सिज्लुक् । २० ज्ञापकं त्वस्य "नामिनोऽकलिहलेः" (४।३।५१) इत्यत्र कलिहलिवर्जनम् , तच कलिहल्योरेतन्या
यात् कलिं हलिं वा आख्यदिति ङपरे णौ अन्यस्वरादिलुगो नित्यत्वात्पूर्व "च्यन्तस्वरादेः” (७।४।४३) इतीकारलोपे समानलोपित्वेन सन्वद्भावाभावात् अचकलत् , अजहलत् , इति सिद्धयति । कलिहलिवर्जानां अन्येषां पटुलध्वादिशब्दानां तु णावनित्यामप्यन्यस्वरवृद्धिं पूर्वं कृत्वैव पश्वान्नित्याप्यन्यस्वरादिलुक् कार्या, ततश्चासमानलोपित्वात्सन्वद्भावेन अपीपटत् , अलीलघदित्यादि सिद्धथतीत्यभिप्रायेणेति दिक्॥४१॥ २५. अनित्याश्चैते बलाबलोक्तिन्याया यथासंभवमुत्तरोत्तरैर्बाध्यमानत्वात्
अन्तरङ्गं बहिरङ्गात् ॥४२॥ बलवदिति शेषः, एवमप्रेऽपि सर्वत्र । यथा त इन्द्रं वृक्षं इन्द्रं इत्यत्र क्रमेण जस इत्वे डौ च कृते "समानानां तेन.” (१।२।१) इति इन्द्रेकारेण सह जसो डेश्चेकारस्य प्राप्तात्पदद्वयापेक्षत्वेन बहिरङ्गादीर्घात्प्रथमं "अवर्णस्य०” (१।२।६) इत्येत्वमेव स्यात् , एकपदापेक्षत्वेनान्तरङ्गत्वात् । ज्ञापकं ३० त्वस्य "वृत्त्यन्तोऽस' (१।१।२५) इति निर्देश एव, तथाहि अत्र वृत्त्यन्तशब्दपुरःस्थरोः उत्वे कृते उभयं प्राप्नोति, पूर्वेण सह उत्वं परेण अकारेण सह वत्वं च, तत्र पदद्वयाश्रयत्वाद्बहिरङ्गं वत्वं बाधित्वैकपदापेक्षत्वादन्तरजमुत्वं यनिर्दिष्टं तदेतन्न्यायादेवेति ॥ ४२ ॥
. निरवकाशं सावकाशात् ॥ ४३॥ निसहशब्दावत्राल्पबह्वाँ, निर्धन, सधन इतिवत् , ततश्चाल्पविषयं कार्य बहुविषयात्कार्याब३५ लवदिति कोऽर्थः-तद्बाधित्वा स्वयं प्रवर्त्तते, यथा “एद्वहुस्भोसि” (१।४।४ ) इत्यस्य भिसि भ्यसि च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org