________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । सूरिसमुच्चिता न्यायाः
३३
विषयः, “भिस ऐस्” ( २।४।२ ) इत्यस्य तु भिस्येव । ततो देवैरित्यत्र परमपि "एहुस्भोसि" इति बाधित्वा निरवकाशत्वात् "भिस ऐस" प्रवर्त्तते "एहुस्०" इत्यस्य देवेभ्य इत्यत्र सावकाशत्वात् । ज्ञापकं त्वस्य "भिस ऐस्” इति सूत्रमेव अन्यथैतत्सूत्रं व्यर्थं स्यादिति ॥ ४३ ॥
वार्णात्प्राकृतम् ॥ ४४ ॥
प्रकृतिरत्र धातुरूपा ग्राह्या न नामरूपा, तत्कार्याणां वार्णेष्वेवान्तर्भावात् । वर्णमुच्चार्य विहितात् ५ कार्यात् प्रकृतिमुच्चार्य विहितं कार्यं बलवदिति । यथा ऊवतुः ऊवुरित्यत्र “यजादिवचेः ०” (४।१।७९) इति वृति द्वित्वे च उकारद्वयावस्थाने प्रकृत्याश्रितत्वेन पूर्वव्यवस्थितत्वेन चान्तरङ्गादपि समानदीर्घलक्षणवर्णकार्यात् प्रागेव बहिर्व्यवस्थितत्वेन प्रत्ययाश्रितत्वेन च बहिरङ्गोऽपि पूर्वं “धातोरिवर्णोवर्ण ० " ( २।१।५० ) इत्युव् स्यात् पश्चात् समानदीर्घत्वम् । ज्ञापकं तु "हिणोरध्विति व्यौ” ( ४|३ | १५ ) इति व्यत्ववि - धानम् । तथाहि--यद्येष न्यायो न स्यात्तदा वार्णाभ्यामिवर्णादेरिति यत्ववत्वाभ्यां यन्ति जुह्वति इति १० सिद्ध्यत्येवेति किमर्थं “हिणो" रिति सूत्रं विदध्यात् । परमेतन्यायात्प्राकृताभ्यां धातोरियुवभ्यां यत्ववत्वे बाधिते इति तत्प्रतिप्रसवार्थं "हिणो” रिति सूत्रं कृतमिति ॥ ४४ ॥
वृद् वृदाश्रयं च ॥ ४५ ॥
वृद् वृदाश्रयं च कार्यं वार्णमपि प्राकृताद्बलवत् । यथा उपशूयेत्यत्र तवो यपि "ह्रस्वस्य तः पित्कृति” ( ४।४।११३ ) इति तागमं ह्रस्वान्तप्रकृत्याश्रितत्वात्प्राकृतमपि बाधित्वा सस्वरान्तस्थारूपवर्णा- १५ श्रितत्वाद् वार्णमपि “यजादि ० " ( ४।१।७९ ) इति वृदभूत् । तदन्वपि तागमं बाधित्वा तो “दीर्घमवोऽन्त्यम्” (४।१।१०३ ) इति दीर्घ एवाभूत् वृदाश्रितकार्यत्वात्। ज्ञापकं त्वस्येदृक्प्रयोगा एव ॥ ४५ ॥ उपपदविभक्तेः कारकविभक्तिः ॥ ४६ ॥
बलवतीति योगः। यथा नमस्यति देवानित्यत्र “शक्तार्थवषड्नमः स्वस्ति ० " ( २।२।६८ ) इति नमोयोगलक्षणां चतुर्थी बाधित्वा कर्मकारकलक्षणा " कर्मणि” ( २।२।४० ) इति द्वितीया स्यात् । अनित्य- २० श्चायम्, “क्रुद्द्रुहेर्घ्या०” ( २।२।२७ ) इति सूत्रे यस्मै कोप इत्यनिर्दिश्य यं प्रति कोप इति निर्देशात्, अन्यथा “भागिनि च प्रतिपर्यनुभिः ” ( २।२।३७ ) इति प्रतियोगविहितां द्वितीयामुपपदविभक्तिं विजित्य “कुहुहे "ति सूत्रविहितसम्प्रदानसंज्ञकाद्यच्छब्दाच्चतुर्थी कारकविभक्तिरेव यदि प्राप्नोति तदा यस्मै इत्येव निर्दिश्येति ॥ ४६॥
२५
लुबन्तरङ्गेभ्यः ॥ ४७ ॥
अपिरत्राध्याहार्यः । बहिरङ्गोऽपि लुप् अन्तरङ्गानपि विधीन्बाधित्वा बलवत्त्वात् प्राक् प्रवर्तते । यथा गर्गस्य वृद्धापत्यानि “गर्गादेर्यज्” ( ६।१।४२ ) इति यनि गर्गाः । अत्र प्रकृत्याश्रितत्वेनान्तरङ्गामपि “वृद्धिः स्वरेष्वादेः०” ( ७|४|१ ) इति वृद्धिं बाधित्वा प्रत्ययाश्रितत्वाद्बहिरङ्गोऽपि " बहुष्व स्त्रियाम् " ( ६ |१| १२४ ) इति यत्रो लुबेव प्रथमं स्यात्, पश्चात् प्रत्ययस्य लुब्भवनान्न वृद्धि: । ज्ञापकं त्वस्य “त्वमौ प्रत्ययोत्तरपद्०” ( २।१।११ ) इति सूत्रे त्वदीयः, मत्पुत्र इत्यादिसिद्ध्यर्थं प्रत्ययोत्तरपदग्रह- ३० णम् । तथाहि - युष्मद् ६-१ अस् ईय स् अस्मद् ६-१ अस् पुत्रः इति स्थिते विभक्तिद्वारेणैव पूर्वं त्वमादेशे कृते पश्चात् “ऐकार्थ्ये” ( ३।२।८) इति विभक्तिलोपे पूर्वोक्तं प्रयोगद्वयं सिद्धयतीति । तथानेन न्यायेन विभक्तिमात्राश्रितत्वेनान्तरङ्गादपि त्वमादेशात्पूर्वमेव द्वयोः पदयोरेकार्थापेक्षत्वेन बहिरङ्गोऽपि विभक्तिलुप् प्रवर्त्तते, ततश्च विभक्त्यभावात्त्वमादेशौ न स्यातामिति प्रत्ययोत्तरपदग्रहणं सफलमिति ।। ४७ ।।
है० प्रका० पूर्वा० ५
Jain Education International
For Personal & Private Use Only
३४
www.jainelibrary.org