________________
३४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
सर्वेभ्यो लोपः॥४८॥ लोपशब्दस्य लुप्लुको वाचकत्वेऽपि लुपः पूर्वन्याये उक्तत्वाल्लोपशब्देनात्रादर्शनमात्ररूपो लुक् ग्राह्यो, गोबलीवर्दन्यायात् । ततश्चायमर्थः-सर्वविधीन्बाधित्वा बलवत्त्वात् लुग्विधिः प्राक् प्रवर्तते । यथा अबुद्धत्यत्र "धुड्ड्स्वात्" (४।३।७०) इति सिचः सर्वेभ्यः प्रथमं लोपे 'गडदबादे." ( २।११७७) ५इत्यादेश्चतुर्थत्वं न । न च लुप्तस्यापि सिचः स्थानित्वेनादेश्चतुर्थत्वं करिष्यते इति वाच्यम् , चतुर्थत्वविधेः सकारादिप्रत्ययाश्रितत्वेन वर्णविधित्वात्तस्मिन् स्थानिवद्भावाप्राप्तेः । तथा शं सुखं तत्र तिष्ठतीति शंस्थाः, अत्र स्थाधातोराकारस्य "ईर्व्यञ्जनेऽयपि” (४।३।९७ ) इति ईर्न; किपः अदर्शनस्य सर्वकार्येभ्यः प्रथमं भवनात्, ईत्वसूत्रे च व्यञ्जनशब्दस्य साक्षाव्यञ्जनप्रतिपत्तये ग्रहणादिति ॥ ४८॥
लोपारस्वरादेशः॥४९॥ १० लोपशब्दोऽत्रापि लुग्वाची पूर्वापवादत्वादस्य। श्रीदेवताऽस्य "देवता" (६।२।१०१ ) इत्यणि श्रायं हविरित्यत्र परमपि "अवर्णेवर्णस्य” (७४।६८) इति ईकारलुकं बाधित्वा स्वरादेशो वृद्धिरभूत् । ज्ञापकं त्वस्य वृद्धिसूत्रस्य "अवर्णेवर्णस्ये"ति सूत्रात्प्राग्विधानम् , लुक्सूत्रादनु वृद्धिसूत्रे कृते हि परत्वादेव वृद्धिः सिद्धयेत् । परन्तु यत्तथा न कृतं तदेतन्न्यायाशयैवेति ॥ ४९ ॥
आदेशादागमः॥५०॥ १५ यथा अर्पयतीत्यत्र ऋधातोर्णी वृद्धिमादेशरूपां बाधित्वा प्रथमं प्वागमस्ततः "पुस्पौ” (४।३।३)
इति गुणरूप आदेशः । ज्ञापकं त्वस्यैतदर्थ यत्नाकरणम् । अनित्यत्वाचास्य द्वयोः कुलयोरित्यत्र द्विशब्दात् "अनाम् स्वरे नोऽन्तः” (१।४।६४ ) इति नागमं बाधित्वा "आद्वेरः” (२।१।४१) इत्यदादेश इति ॥ ५० ॥
आगमात्सर्वादेशः॥५१॥ २० पूर्वापवादोऽयम्। यथा प्रियतिसृणः कुलात् , अत्र सर्वादेशे तिसरि कृते सति नागमः सिद्धः ।
ज्ञापकं त्वस्य "ऋतो रः स्वरेऽनि” (२।१।२) इत्यत्र तिस्रादिऋतो रत्वविधावनीतिशब्देन नकारविषयवर्जनोक्तिस्तथाहि-यद्ययं न्यायो न स्यात्तदा स्वरादौ स्यादौ परे प्राग्न्यायेन पूर्व नागमस्यैव भवनात्तव्यवधाने च तिस्राद्यादेशाभवनात् कस्य ऋतो रत्वविधौ नकारविषयो वज्येतेति ॥ ५१ ॥
परान्नित्यम् ॥५२॥ २५ "स्पर्धे" (७।४।११९) इति परिभाषापवादोऽयम् । यथा युष्मान् अस्मान् वा आचक्षाणेन युष्या
अस्या अत्र युष्मदस्मद्भ्यां णिजि “यन्त्यस्वरादेः” (७४|४३) इत्यद्लुकि किपि "अप्रयोगीत्" (१।१।३७) इति तल्लुकि “णेरनिटि” (४।३।८३) इति णिज्लुकि टाप्रत्यये पराभ्यामपि त्वमादेशाभ्यां प्रागेव नित्यत्वात् "टाङयोसि यः” (२।१७) इति मस्य यत्वं सिद्धम् । यत्वं हि प्रथमं युष्म्
अस्म् इत्येतयोर्मस्य प्राप्नोति, त्वमादेशकरणानन्तरं तु त्वमयोरकारस्य यत्वं प्राप्नोतीत्यतो यत्वस्य ३० नित्यत्वम् ॥ ५२ ॥
___नित्यादन्तरङ्गम् ॥ ५३॥ अनित्यमपीति शेषः । यथा प्रेजुः प्रोपुरित्यत्र यज्वपोः 'प्वृद् य्वृदाश्रयं च' इति न्यायात्प्रथमं य्वृति द्वित्वे पदद्वयापेक्षत्वेन बहिरङ्गान्नित्यादप्येत्वादोत्वाच्च प्रथममेवाऽनित्योऽप्येकपदाश्रितत्वेनान्तरङ्गत्वाद्दीर्घ ३४ एव स्यात् । ज्ञापकं त्वस्य 'आशी:०" (३।३।१३) इति सूत्रनिर्देशस्तथाहि-अत्र तावत्सेलोपे आशिस्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org