________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे संज्ञाधिकारः । सूरिसमुच्चिता न्यायाः
३५
इति स्थिते सो रुत्वे विसर्गः प्राप्नोति “पदान्ते” (२।१।६४ ) इति दीर्घश्च तत्रैतन्यायान्नित्यमपि विसर्ग बाधित्वा पूर्वव्यस्थितत्वेनान्तरङ्गत्वात् प्रथमं दीर्घस्ततो विसर्ग इति ॥ ५३ ॥
अन्तरङ्गाच्चानवकाशम् ॥ ५४ ॥
बहिरङ्गमपीति शेषः । यथा त्वं अहं अत्र प्रकृतिमात्रादेशत्वेनान्तरङ्गाभ्यामपि त्वमादेशाभ्यां प्रागेव प्रकृतिप्रत्ययादेशत्वाद्वहिरङ्गावपि त्वमहमादेशौ निरवकाशत्वात् स्याताम् । ज्ञापकं त्वस्य " त्वमहं ५ सिना०” ( २।१।१२ ) इति सूत्रकरणमेव, एतन्न्यायाभावे निर्विषयं सूत्रं कुतः कुर्यादिति ॥ ५४ ॥ उत्सर्गादपवादः ॥ ५५ ॥
यथा आपचन्त्यस्मिन्निति आपाकः, अत्रौत्सर्गिकस्य “पुंनानि घः ” ( ५।३।१३० ) इति घस्यापवादो " व्यञ्जनाद् घन् ( ५।३।१३२ ) इति घञेव बलवत्त्वात्स्यात् । ज्ञापकं त्वस्य गोचरादीनां " गोचरसंचर ” ( ५।३।१३१ ) इति सूत्रेण निपातनम् । तद्धि निपातनाभावे एतन्न्यायादौत्सर्गिकं घं बाधित्वा १० अपवादत्वाद् घनेव मा प्रसासीदिति कृतमिति ॥ ५५ ॥
अपवादात्कचिदुत्सर्गोऽपि ॥ ५६ ॥
'मख गतौ' मखन्ति स्वर्गं गच्छन्त्यनेनेति मखः । 'मठ निवासे' मठन्ति निवसन्ति छात्रा अत्रेति मठः इत्यादौ “व्यञ्जनाद् घन् ” ( ५।३।१३२ ) इति घन्यमपवादमपि बाधित्वा एतन्न्यायेन बलवत्वादौत्सर्गिक : “पुंनाम्नि ०” (५।३।१३० ) इति घः स्यात् । क्वचिदित्युक्तेश्चायमनित्यः ॥ ५६ ॥
नानिष्टार्था शास्त्रप्रवृत्तिः ॥ ५७ ॥
शास्त्रस्येति सूत्रस्य न्यायस्य वाऽनभिप्रेतार्थसिद्ध्यै प्रवृत्तिर्न कार्या । शिष्टप्रयोगसिद्ध्यर्थमेव तत्सद्भावात् । तत्र सूत्रस्य यथा, नयतेर्गित्वात्फलवत्कर्तरि विवक्षायामात्मनेपदे सिद्धेऽपि "कर्तृस्थामूर्त्ताप्यात्” ( ३।३।४० ) इति यत्सूत्रं कृतं तन्नियमार्थम्, नियमश्चायं कर्तृस्थामूर्त्ताप्यादेव नयतेरात्मनेपदं स्यात्, यथा श्रमं विनयते शमयतीत्यर्थः । कर्तृस्थामूर्त्ताप्यत्वाभावे तु फलवत्कर्त्तर्यपि न स्यात्, यथा २० चैत्रस्य मन्युं विनयति, गहुं विनयति, बुद्धधा विनयतीति । अयं च नियमः " कर्तृस्थेति" सूत्रे अर्थविशेषानुक्तावपि शमयतिक्रियार्थस्यैव ज्ञेयो नत्वन्यार्थस्य इत्थमेव शिष्टानामिष्टत्वात् । तेन शमयतिक्रियातिरिक्तार्थे नियमाभावाद् गित्वविहिते उभे अध्यात्मनेपदपरस्मैपदे भवतः । यथा स्वप्नज्ञां वृद्धिं नयति नयते । न्यायस्य यथा, 'लोपात्स्वरादेश' इति न्यायः चिकीर्ष्यते इत्यादौ सनो “दीर्घवि०' ( ४ | ३ | १०८ ) इति दीर्घरूपाय स्वरादेशाय नोत्सहते, दीर्घस्य शिष्टानामनिष्टत्वात्; ततश्च " अतः ” २५ ( ४ | ३ |८२ ) इत्यलोप एव स्यादिति ॥ ५७ ॥
"
इति श्रीसूरिभिः समुचिताः सप्तपञ्चाशन्यायाः समाप्ताः ।
* अथ व्याकरणे सूचिता अपि तैरसमुचिताः पञ्चषष्टिर्न्याया उच्यन्ते प्रकृतिग्रहणे खार्थिकप्रत्ययान्तानामपि ग्रहणम् ॥ १ ॥
अस्य न्यायस्य सूचनं त्वेवम् — अनेन न्यायेन सर्वस्वार्थिकप्रत्ययान्तानां सर्वादिशब्दानां सर्वादित्वे प्राप्ते नियमार्थं डतरडतमोपादानम् । नियमश्चायं - यदि स्वार्थिकप्रत्ययान्तानां सर्वादित्वं स्यात् तदा डतरडतमान्तानामेव नान्यस्वार्थिकप्रत्ययान्तानाम् । तेन प्रकृष्टार्थे स्वार्थिकतमपि सर्वादित्वाभावात्सर्वतमायेत्येव स्यादिति ॥ १ ॥
Jain Education International
For Personal & Private Use Only
१५
३०
३४
www.jainelibrary.org