________________
महामहोपाध्याय श्री विनयविजयगणिविरचिते खोपज्ञहैमलघु
प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ॥ २ ॥
ग्रहणमिति शेषः । यथा " कालात्तनतरतमकाले ” ( ३।२।२४ ) इति सप्तम्यलुब्विधायिसूत्रे पूर्वातरामित्यादौ तरतमौ प्रत्ययौ ग्राह्यौ, न तु तरति ताम्यति इत्यचि व्युत्पन्ने नाम्नी ॥ २ ॥
५
३६
अदाधनदाघोरनदादेरेव ॥ ३ ॥
यथा “उपान्वध्यादवस: ” ( २।२।२१ ) इत्यत्र वस्तेर्व्युदासेन वसतिरेवाग्राहि ॥ ३ ॥ प्राकरणिकाप्राकरणिकयोः प्राकरणिकस्यैव ॥ ४ ॥
यथा "इन इतः " ( २।४।७१ ) इति ङीसूत्रे “यत्रो डायन् च वा" ( २।४।६७ ) इत्यतः प्रारव्धात्तद्धिताधिकारात्तद्धितीय एवेन् ग्राह्यो न तु “प्रश्नाख्याने वे " ( ५|३|११९) इति कृत्सूत्रोक्तः । तेन सुतङ्गमेन निर्वृत्ता “सुतङ्गमादेरिन् ” ( ६।२।८५ ) इतीजि सौतङ्गमीत्यत्र ङीः स्यात्, प्रश्नाख्यान१० योस्तु-हे चैत्र कां त्वं कारिमकार्षीः ? सर्वा कारिमकार्षमिति कारिशब्दादिञन्तात् ङीर्न स्यात् ॥ ४ ॥ निरनुबन्धग्रहणे सामान्येन ॥ ५ ॥
ग्रहणमिति शेषः । यथा स्वः कः इत्युभयत्र "रः पदान्ते ०” ( १।३।५३ ) इति रस्य रोश्च विसर्गः सिद्धः ॥ ५ ॥
साहचर्यात्सदृशस्यैव ॥ ६॥
१५ ग्रहणमिति वर्तते । अव्यभिचारिणा व्यभिचारी यन्नियम्यते तत्साहचर्यम् । यथा " क्त्वातुमम्” (१।१।३५) अत्र क्त्वातुमो : साहचर्यात् कृदम् ग्राह्यो न तु द्वितीयैकवचनम् ॥ ६ ॥
वर्णग्रहणे जातिग्रहणम् ॥ ७ ॥
यथा-संरम्यते इत्यादौ रमेरकारपरैकानुनासिकान्तत्वे सति यथा “मुरतोऽनुनासिकस्य ” ( ४|१|५१ ) इति वागमस्तथा हम्मतेर्यङि जंहम्म्यते इत्यादावनुनासिकजातिग्रहणादनुनासिकद्वयान्तत्वेऽपि स्वागमः २० सिद्धः ॥ ७ ॥
वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते ॥ ८ ॥
ऋकारमध्येऽर्धमात्रो रेफोऽग्रे पश्चाश्च तुरीयः स्वरभागोऽस्ति, एवं लकारेऽर्धमात्रो ल् इत्यादि इति वृद्धाः प्राहुः ततोऽनेन न्यायेन प्रलीयमानमित्यादिवत्प्रक्लृप्यमानमित्यादावपि लकारव्यवधाने तदेकदेशभूतलकारेणापि व्यवधानात् अलचटतेति निषेधेन "स्वरात् ” ( २।३।८५ ) इति प्राप्तं णत्वं नाभूदिति ॥ ८ ॥ तन्मध्यपतितस्तद्रहणेन गृह्यते ॥ ९ ॥
नादिप्रत्यये एकस्मिन्ननेकस्मिन्वान्तः पतितेऽपि सति धास्वादेर्यथोक्तं कार्यं स्यादेव । तत्रैकस्मिन् यथा, अरुणत् अत्र श्नेन्तः पतितेऽपि रुधेः प्रागट् सिद्ध: । अनेकस्मिन् यथा अतृणेट् अत्र ने ईति चान्तः पतितेऽपि गृहेः प्रागट् । ज्ञापकं त्वस्य " त्वमहं सिना० " ( २।१।१२ ) इत्यत्र प्राक्चाक इति । तच्च त्वकं अहकमित्यत्राक्श्रवणार्थम्, अन्यथैतन्यायात्साकोरपि युष्मदस्मदोस्त्वमहमादेशेऽकवणं न ३० स्यादिति ॥ ९ ॥
२५
आगमा यद्गुणीभूतास्तग्रहणेन गृह्यन्ते ॥ १० ॥
आगमा ये आदिशब्देनान्तशब्देन वा निर्दिष्टाः । यथा “ अड्धातोरादि०” ( ४।४।२९ ) इति, “अनाम् स्वरे नोऽन्तः” ( १।४।६४ ) इत्यादि, ते यस्यावयवीभूतास्तग्रहणेन गृह्यन्ते, केवलस्य यत्कार्य३४मुक्तं तत्तस्य सागमस्यापि स्यादित्यर्थः । तत्रैको यथा प्रण्यपतत् इत्यत्राट्सहितेऽपि पतौ "नेदा० "
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org