________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । सूरिसूचिता न्यायाः
३७
(२।३।७९ ) इति नेर्नो णः सिद्धः । द्वौ यथा प्रण्यपनीपतत् इत्यादौ अड्नीसहितस्यापि पतेर्नो णः सिद्ध इति । अत्र द्वित्वजपकारेणाव्यवधानं त्वमेतनन्यायेन समाधास्यते इति मा त्वरिष्ठाः । त्रयो यथा प्रनिपूर्वस्य यमेर्यङलुप अद्य० दि, प्रण्ययंयंसीत्यादावडागमम्वागमसहितेऽपि यमो परे "अकखाद्यषान्ते पाठे वा ” ( २।३।८० ) इत्यनेन नेर्नो ण इति ॥ १० ॥
स्वाङ्गमव्यवधाय ॥ ११ ॥
स्वमङ्गं द्वित्वादिकं धात्वादेर्निजाङ्गिनः कार्ये कर्त्तव्ये व्याघातं न कुर्यात्, यथा सञ्चस्कारेत्यत्र सम् कृ इति स्थितेऽन्तरङ्गत्वात्प्रथमं स्सटि, ततः “स्सटि समः” ( १|३|१२ ) “लुक्” ( १।३।१३ ) इति सूत्रे बाधित्वा परत्वान्नित्यत्वाद्धातुमात्राश्रयत्वेनान्तरङ्गत्वाच्च णवि तदाश्रिते [ द्वित्वादौ च कृते संचस्कृ इति स्थिते ] एतन्यायात् धात्वङ्गेन द्वित्वजचकारेण समोऽव्यवधाना'निमित्ताभाव' इति न्यायप्राप्ता स्टो निवृत्तिर्नाजनि ॥ ११ ॥
उपसर्गो न व्यवधायी ॥ १२ ॥
१०
“धातोः पूजार्थ ० " ( ३।१।१ ) इति सूत्रेणोपसर्गस्य प्राक्त्वं नियमितं नत्ववयवत्वमिति पूर्वेण न सिद्ध्यति । यथा 'उक्षां प्रचक्रुर्नगरस्य मार्गान्' इत्यत्र " गुरुनाम्यादेः ० " ( ३।४।४८ ) इत्यामादेशे कृते आमन्तस्य कृगश्च प्रेण न व्यवधानमिति ॥ १२ ॥
येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् ॥ १३ ॥
१५
"
यत्र येन वर्णादिनावश्यं व्यवधानं स्यान्नत्वव्यवधानं तत्र तद्व्यवधानेऽपि तत्कार्यं स्यादेव । यथा चार्वी, गुर्वीत्यादौ स्वरोकारयोर्व्यञ्जनान्तरितत्वेऽपि "स्वरादुतो गुणादखरोः ” ( २।४।३५ ) इति ङीः सिद्धः । स्वरात्परस्याव्यवहितस्य उतो गुणवाचिशब्देष्वसम्भवादिति ।। १३ ।।
ऋकारापदिष्टं कार्य लकारस्यापि ॥ १४ ॥
यथा कृपौङः सनि “वृद्भ्यः स्यसनोः ” ( ३ | ३|४५ ) इति परस्मैपदे चिक्लृप्सति । अत्र निर्निमि- २० त्तत्वात्प्रथमं "ऋर ऌलं० " ( २।३।९९) इति ऋत लत्वे पश्चाद् द्वित्वे " ऋतोऽत् ” ( ४ । १ । ३८ ) इति ऌतोऽप्यत् सिद्धः ॥ १४ ॥
सकारापदिष्टं कार्यं तदादेशस्य शकारस्यापि ॥ १५ ॥
यथा ‘षस्च् गतौ' अस्य “षः सोऽष्टधै ० " ( २।३।९८ ) इति षस्य से “सस्य शषौ ” ( १।३।६१ ) इति स्चः सस्य शे यङ्लुपि दिवि " व्यञ्जनाद्दे: ० " ( ४ | ३ |७८ ) इति तलुक्येतन्यायात् “संयोग- २५ स्यादौ स्कोर्लुक्” (२।१।८८) इति सकारादेशस्य शस्य लुकि चस्य कत्वे च असासक् इति सिद्धम् ॥१५॥ हस्वदीर्घापदिष्टं कार्य न तस्य ॥ १६ ॥
""
तत्र ह्रस्वापदिष्टं यथा । हे राज३ निह । अत्र परत्वान्नित्यत्वाच्च " दूरादामत्र्यस्य ०" ( ७|४|९९ ) इत्यनेन पूर्वं लुते तस्मात्परस्य नस्य " ह्रस्वाद् ङणन ० ' ( १।३।२७ ) इति न द्वित्वम् । दीर्घापदिष्टं यथा “अदीर्घाद्विराम०” ( १।३।३२ ) इत्यनेन दीर्घादित्युक्तावपि दीर्घस्थाननिष्पन्नप्लुतस्यैतन्यायबलेन ३० वर्जनाऽभवनात् हे गो३त्रात, हे गो३त्रात इत्यत्र दीर्घस्थाननिष्पन्नलतादपि परस्य तकारस्य "अदीर्घा - द्विरामैक ० " ( १।३।३२ ) इत्यनेन वा द्वित्वं सिद्धम् ॥ १६ ॥
संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य ॥ १७ ॥
For Personal & Private Use Only
Jain Education International
३३
www.jainelibrary.org