________________
३८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुसंज्ञेति संज्ञासूत्राणि, तत्र संज्ञाधिकारे यथा "स्त्यादिर्विभक्तिः” ( १।१।१९) इत्यत्र स्त्याद्यन्तं विभक्तिरित्यर्थो न । ज्ञापकं त्वस्य "तदन्तं पदम् (१।४।२०) इति सूत्रेऽन्तग्रहणम् । एतन्यायस्याभावे 'प्रत्ययः प्रकृतिमाक्षिपति' इति 'सा पदम्' इत्युक्तेऽप्यन्तविधिर्लभ्यत एवेति । उत्तरपदाधिकारे यथा "न नाम्येकवरात्.” (३।२।९) इति सूत्रादनुवर्तमानोत्तरपदाधिकारस्थे "कालात्तनतर०" (३।२।२४) ५इति सूत्रे तनाद्याः प्रत्ययाः स्वरूपेणैव ग्राह्या न तु तदन्तनामानि ॥ १७ ॥
ग्रहणवता नाना न तदन्तविधिः ॥ १८॥ निर्देशे सतीति शेषः । साक्षान्नामग्रहणेन यस्य यत्कार्यमुक्तं तत्तस्य नाम्नः समासादिना समुदायान्तभूतस्य सतो न स्यात् , यथा सूत्रप्रधानो नडस्तस्यापत्यम् "अत इञ्” (६।१।३१) इतीनि अनु
शतिकादित्वादुभयपदवृद्धौ सौत्रनाडिरित्यत्र सूत्रनडशब्दात् "नडादिभ्य.” (६।१।५३) इत्यायन १० नाभूत् । ज्ञापकं त्वस्य "मालेषीकेष्टकस्यान्तेऽपि.” (२।४।१०२) इति सूत्रेऽन्तेऽपीति ग्रहणमेतन्यायाभावे अन्तविधिनापि मालभारीतिवदुत्पलमालभारीत्यत्रापि ह्रस्वः सिद्धयत्येवेत्यन्तेऽपीतिग्रहणं व्यर्थ स्यादिति । 'उपपदविधिषु न तदन्तविधिः' इत्यपि न्यायोऽस्ति, यथा योगक्षेमौ करोतीति शीला योगक्षेमकरी, अत्र क्षेमशब्दस्य समासान्तगत्वात् "क्षेमप्रियमद्रभद्रात् खाण्” (५।१।१०५ ) इत्यनेन
क्षेमोपपदकृगो विहितौ खाणौ न, किन्तु “हेतुतच्छीलानुकूले.” (५।१।१०३) इति ट एव, खाणोर्भवने १५तु योगक्षेमंकरा योगक्षेमकारीति च स्यात् । परमयमपि 'ग्रहणवता नान्ने' त्यत्रैवान्तर्भूत इति ।। १८ ॥
___ अनिनसन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति ॥ १९ ॥ अनाद्यन्तानां चतुर्णा कार्ये सार्थकवदनर्थका अप्येते ग्राह्या इत्यर्थः, 'अर्थवद्हणे०' इत्यस्यापवादोऽयम् । तत्र सार्थकोऽन् । यथा राजेः “उक्षि तक्षि” (उणा० ९००) इत्यौणादिकेऽनि राजा, अनर्थकः
अनोते: “पप्यशौभ्याम्” (उणा० ९०३) इति तनि अष्टन् । शसादौ स्वरे उभयत्रापि "अनोऽस्य” (२।१॥ २०१०८) इत्यनोऽल्लोपे राज्ञः प्रियाणः पश्येति सिद्धम् । सार्थक इन दण्डोऽस्यास्तीति "अतोऽनेकवरात्" (७।२।६) इतीनि दण्डी, अनर्थकः तपोऽस्यास्तीति "अस्तपो मायामेधा.” (७।२।४७ ) इति विनि तपस्वी, उभयत्रापि “इनहन्पूष०” (१४८७) इति दीर्घः । सार्थकोऽस् "विश्वाद्विदिभूजिभ्याम्" ( ९५६ ) इत्यौणादिकेऽसि विश्ववेदाः अनर्थकः-यथा खरस्येव नासिकाऽस्य "खरखुरान्नासिकाया नस्” (७।३।१६० ) इति खरणाः, उभयत्रापि "अभ्वादेः” ( १।४।९०) इति दीर्घः । सार्थको २५मन् "स्यतेरी च वा” (उणा० ९१५) 'षोंच अन्तकर्मणी'त्यस्मान्मनि स्यतेरात ईत्वे च सीमा, अनर्थकः,
महतो भावः "पृथ्वादेरिमन्वा” (७।१।५८ ) इति इमनि महिमा तमतिक्रान्ता अतिमहिमा स्त्री, उभयत्रापि “मनः" ( २।४।१४ ) इति ङीनिषेधः । उपलक्षणत्वात् अतुप्रत्ययोऽपि सार्थकवदनर्थको ग्राह्यः, तत्र सार्थको यथा । किं प्रमाणमस्य "इदं किमोऽतुरिकिय चास्य" ( ७१।१४८) इत्यतु
प्रत्यये किमः कियादेशे च कियान , अनर्थकः-गावोऽस्य सन्ति "तदस्यास्त्यस्मिन्निति मतुः" (७२।१) ३० इति मतौ गोमान् , उभयत्रापि "अभ्वादेः०” (१।४।९० ) इति दीर्घः ॥ १९ ॥
___ गामादाग्रहणेष्वविशेषः ॥ २० ॥ तत्र गाग्रहणे 'गाङ् गतौ' 'गै शब्दे' इत्येतयोईयोरपि यङ्लुपि आशीः क्याति जागेयाग्रामं गीतं वा, अत्रोभयोरपि "गापास्थासा.” (४।३।९६) इत्येत्वं सिद्धम् , अन्यथा गायतेर्गारूपस्य लाक्षणिकत्वात् __ 'लक्षणप्रतिपदोक्तयोः' इति गातेरेव ग्रहणं प्राप्नोति । माग्रहणे माक्माङ्मेङ् एषां क्तयोर्मितः मितवान् , ३५ "दोसोमास्थ इ." (४।४।११) इति इः । अन्यथा 'अदाधनदाद्योरिति 'कृन्निमाकृत्रिमयोरिति वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org