________________
३९
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । सूरिसूचिता न्यायाः मेङ् एव ग्रहणं प्राप्नोति । दाग्रहणे यथा “प्राज्ज्ञश्च" (५।११७९) इति सूत्रे ज्ञारूपसाहचर्यादत्र दारूपमेव प्राह्यं न तु दासंज्ञा इत्येतावदेव दारूपमेव संसाध्य तदन्वतन्न्यायबलादविशेषेण षड्भ्यो दारूपेभ्यो डःकृतो, हुदांगक् दाम् वा धनप्रदः, दों, वृक्षप्रदः, देङ् पुत्रप्रदः, दांवक् केदारप्रदः, दैव भाजनप्रद इति । अन्यथा 'अदाधनदाद्योरिति दांग्क्दांवक्वर्जनाचतुर्णामेव, यद्वा 'लक्षणप्रतिपदोक्तयो'रिति दोंदेड्दैव्वर्जानां त्रयाणामेव, यद्वा 'कृत्रिमाकृत्रिमयो'रिति दादांवक्दाम्वर्जानां त्रया-५ णामेव ग्रहणं प्राप्नोतीति ॥ २० ॥
श्रुतानुमितयोः श्रौतो विधिर्वलीयान् ॥ २१ ॥ श्रुतः सूत्रे साक्षाच्छब्देनोक्तः । अनुमितः परिभाषया पूर्वानुवृत्ताधिकारादिना वा आरोपितः । यथा "ऋतां कितीर" (४।४।११६) तीर्णम् , अत्र श्रुतस्य ऋत एव ईर् न तु "अनेकवर्णः सर्वस्य" (७।४।१०७) इति परिभाषया ऋदन्तधातोः सर्वस्य, यत ऋदन्तत्वमृतामित्यस्य धातुविशेषणत्वेन १० "विशेषणमन्तः” (७४।११३) इति परिभाषयारोपितमित्यनुमितमिति ॥ २१ ॥
__अन्तरङ्गानपि विधीन् यबादेशो बाधते ॥ २२ ॥ प्रत्ययाश्रितत्वात्पदद्वयापेक्षत्वाच्च बहिरङ्गोऽपीति शेषः । यथा प्रणम्येत्यत्र "अहन्पश्चमस्य." (४।१।१०७) इति प्रकृत्याश्रितत्वादेकपदाश्रितत्वाच्चान्तरङ्गमपि दीर्घत्वं बाधित्वा पूर्व यप् , पश्चात्तु धुडादिप्रत्ययाभावान्न दीर्घत्वम् । ज्ञापकं त्वस्य प्रजग्ध्येति सिद्धयै “यपि चादो जग्ध्” (४।४।१६) १५ इत्यत्र यपि चेति वचः, यदि क्त्वापरे जग्धादेशः पश्चाच्च यप् क्रियते तदापि प्रजग्ध्येति सिद्धयति, तथापि यपि चेति यदूचे तदेतन्न्यायाद्यपः सर्वकार्येभ्यः पूर्वभवनादेव । आहुश्च-"तादौ किति जन्धि सिद्धे यपि चेति यदुच्यते । ज्ञापयत्यन्तरङ्गाणां यपा भवति बाधनम्" ॥१॥ इति ॥ २२ ॥
सकृद् गते स्पर्द्ध यद्बाधितं तद्बाधितमेव ॥ २३ ॥ गते इति धातूनामनेकार्थत्वाज्जाते 'गत्यर्था ज्ञानार्थी' इति ज्ञाते वा । द्वयोर्विध्योरन्यत्र सावकाशयोरे-२० कत्रोपनिपातः स्पर्द्धः । द्वयोः स्पः सति यत्सूत्रं केनापि हेतुना बाधितं तद्बाधितमेव बाधकसूत्रप्रवृत्त्यनन्तरमपि न प्रवर्तते, यथा द्वयोः कुलयोरित्यत्र द्वि ओस् इति स्थिते 'आदेशादागम' इतिन्यायात्प्रथम "अनाम् खरे.” (१।४।६४) इति नोऽन्तः प्राप्तः, स च परत्वादन्तरङ्गत्वाच्च "आवरः” (२।११४१) इत्यत्वेन बाधितस्तत "एद्वहुस्भोसि" (१।४।४) इत्येत्वे कृते पुनः प्राप्तोऽपि नोऽन्तो न स्यात् ॥२३॥ द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः॥ २४ ॥
२५ द्वित्वे सति यः पूर्वोऽवयवस्तस्य विकारेषु कर्त्तव्येषु यो बाधको विधिः स खं बाध्यविधि बाधितुं न प्रभवति । 'स्पर्द्ध परः' 'बलवन्नित्यमनित्यात्' इत्याद्यपवादोऽयम् । अचीकरदित्यत्र "लघोर्दीध" (४।१।६४) इति दीर्घविधिः परोऽपि नित्योऽपि सन्वद्भावं बाधित्वा पूर्व न प्रवर्तते । प्रवृत्तौ त्वचाकरदित्यनिष्टं रूपं स्यादिति ॥ २४ ॥
कृतेऽन्यसिन् धातुप्रत्ययकार्ये पश्चाद् वृद्धिस्तद्धाध्योऽट् च ॥ २५॥ ३० वृद्धिरिति सामान्योक्तावप्यत्राडागमबाधिका "स्वरादेस्तासु” (४।४।३१) इति विहितैव ग्राह्या। अन्यथाऽटस्तद्वाध्यत्वानुपपत्तेः । 'बलवन्नित्यमनित्यात्' 'अन्तरङ्गं बहिरङ्गात्' इत्याद्यपवादोऽयम् । तत्र वृद्धिर्यथा 'क् गतौ' ह्य० अन् ऐयरुः । अधिपूर्व 'इंक अध्ययने' ह्य० अन्त अध्ययत, अत्र कृताकृतप्रसङ्गित्वेन नित्यापि वृद्धिः "धातोरिवर्ण०" (२।१।५०) इतीयादेशं कृत्वैव क्रियते । पूर्वं वृद्धौ हि आयरुः अध्यायतेति स्यात् । अट् यथा अचीकरत् इत्यादौ प्रागुक्तहेतुना नित्योऽप्यल्पनिमित्तत्वा- ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org