SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुदन्तरङ्गोऽपि चाऽडागमो "लघोर्दीर्घ.” (४।१६४) इति दीर्घ कृत्वैव क्रियते, पूर्वमटि हि स्वरादित्वादी? न स्यादिति ॥ २५ ॥ पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात्सन्धिकार्यम् ॥ २६ ॥ तत्र पूर्वपदकार्य यथा, अग्निश्चेन्द्रश्च अग्नेन्द्रौ अत्र पूर्वपदस्याग्नेरितो "वेदसहश्रुतावायुदेवतानाम्" ५(३।२।४१) इत्यात्वं कृत्वैव पश्चाद्, "अवर्णस्येवर्णादिना.” (१।२।६) इत्येत्वं कृतम् । उत्तरपदकार्य यथा, परमश्चासावयं च परमायमित्यत्रोत्तरपदस्येदम "अयमियं पुंस्त्रियोः सौं" (२।१।३८) इत्ययमादेशः पुंल्लिङ्गापेक्षत्वेन बहिरङ्गोऽपि पूर्वं क्रियते न तु तदनपेक्षत्वेनान्तरङ्गमपि “अवर्णस्येवर्णादिना." (१।२।६) इत्येत्वरूपं सन्धिकार्यम् । पश्चाच्च यथाप्राप्तं समानदीर्घरूपं सन्धिकार्य क्रियते इति ॥२६॥ संज्ञान संज्ञान्तरवाधिका॥ २७ ॥ १० यथा प्रस्थ इत्यत्र प्रस्य गत्युपसर्गसंज्ञयोः सद्भावाद्, “गतिकन्य.” ( ३।१।४२) इति तत्पुरुषः "उपसर्गादातो डोऽश्यः” (५।१।५६) इति डश्व युगपदभूतामिति ॥ २७ ॥ सापेक्षमसमर्थम् ॥ २८॥ पदान्तरसापेक्षं पदं समासादिपदविधीन प्राप्तुं नालम् । यथा ऋद्धस्य राज्ञः पुरुषः इत्यत्र राजशब्दस्य ऋद्धविशेषणसापेक्षत्वात्पुरुषशब्देन सह न समासः ॥ २८ ॥ प्रधानस्य तु सापेक्षत्वेऽपि समासः॥ २९ ॥ यस्य क्रियया सामानाधिकरण्यं तत्प्रधानम् । यथा राजपुरुषोऽस्ति दर्शनीय इत्यादौ समासात् प्रागवस्थायां पुरुषशब्दस्य स्वविशेषणदर्शनीयशब्दसापेक्षत्वेऽपि राजशब्देन तत्पुरुषः ॥ २९ ॥ तद्धितीयो भावप्रत्ययः सापेक्षादपि ॥ ३० ॥ यथा काकस्य कृष्णस्य भावः काकस्य कायॆमित्यादौ कृष्णशब्दात्काकशब्दसापेक्षादपि "पतिरा२० जान्त०” (७।१।६०) इति ट्यण् सिद्धः । ज्ञापकं त्वस्य “पुरुषहृदयादसमासे” (७।१७० ) इत्यत्र 'असमासे' इति । तद्धि परमस्य पुरुषस्य भावः परमपौरुषमित्यग्भावार्थमिति ॥ ३०॥ गतिकारकडैस्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समासः॥३१॥ यद्यपि "नाम नाम्नैकार्थे०" (३।१।१८) इति सूत्रेण नाम्नो नाम्ना समास उक्तस्तथाप्यैकार्ये इति समासान्ततिविभक्तिलुप्करणाज्ज्ञापितं यदुत विभक्त्यन्तानामेव समास इति । ततश्चोभयोरपि पद२५ योविभक्त्यन्तत्वे प्राप्ते गत्यादीनामुत्तरपदस्य कृदन्तस्याविभक्त्यन्तत्वनियमार्थोऽयं न्यायः । तत्र गते र्यथा, विकिरति पक्षाविति विष्किरी इत्यादौ पक्ष्यर्थमात्रापेक्षत्वेनान्तरङ्गत्वात्प्रथमं “वौ विकिरो वा" (४।४।९६) इति स्सटि विस्स्किर इति स्थिते "ऊर्याद्यनुकरण०” ( ३।१।२ ) इति कृतगतिसंज्ञस्य वेः "नाम्युपान्त्यप्रीकृगृज्ञः कः” (५।१।५४) इति कप्रत्ययान्तेन स्किर इत्यनेन सह "गतिकन्य." (३।१।४२) इति तत्पुरुषस्ततो "असोङसिवूसहस्सटाम्” (२।३।४८) इति स्सटः सस्य षत्वे विष्किरः ३० पक्षी, ततः स्त्रीत्वविवक्षायामदन्तत्वात् "जातेरयान्त०” (२।४।५४ ) इति ङीः सिद्धः, यदि त्वेतन्या यानपेक्षणाद्विभक्त्यन्तेन स्किरेत्यनेन समास इष्यते तदा कर्मादिशक्तिसङ्ख्याद्यपेक्षत्वेन बहिरङ्गाया विभक्तरुत्पत्तेः प्रागेव स्त्रीत्वमात्रापेक्षत्वेनान्तरङ्गस्यापः प्राप्तावदन्तत्वाभावात् डीन स्यात् ॥१॥कार कस्य यथा चर्मणा क्रीयते स्म चर्मक्रीती इत्यादौ चर्मन् टा क्रीत इति स्थिते करणकारकस्य "कारक ३४ कृता" ( ३।१।६८) इति तत्पुरुषः, ततः स्त्रीत्वविवक्षायां "क्रीतात्करणादेः” (२।४।४४ ) इति क्रीत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy