________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः। सूरिसूचिता न्यायाः ४१ शब्दाददन्तात् डीः सिद्धः; यदि तु विभक्त्यन्तेन क्रीतेन समास इष्यते तदा प्राग्वदन्तरङ्गत्वाद्विभक्त्युत्पत्तेः प्रागेवापः प्राप्तावदन्तत्वाभावात् डीन स्यात् , पूर्वपदस्य तु विभक्त्यन्तत्वनियमाचर्मक्रीतीत्यत्र पदत्वान्नस्य लोपः ॥ २ ॥ कृत्प्रत्ययविधायिसूत्रे उसिनेत्येकदेशस्य समुदायोपलक्षणत्वात्पञ्चम्यन्तेनोक्तं उस्युक्तम्, तत्र ङसिनैवोक्तस्य यथा कच्छं पिबतीति कच्छपीत्यादौ कच्छ अम् प इति स्थिते "नानो गमः खड्डौ च विहायसस्तु विहः” (५।१।१३१) इत्यतोऽधिकृतान्नाम्नः परस्य स्थादिधातोर्विहितो यः ५ "स्थापास्नात्रः कः” (५।१।१४२ ) इति कप्रत्ययस्तदन्तेन पेत्यनेन सह कच्छशब्दस्य "कुस्युक्तं कृता" ( ३।११४९) इति तत्पुरुषः, कच्छशब्दस्य नाम्न इति डसिनोक्तत्वात् , ततः स्त्रीत्वविवक्षायां "जातेरयान्त०” (२।४।५४) इत्यनेन कच्छपशब्दाददन्ताद् डीः, यदि तु विभक्त्यन्तेन पेत्यनेन समासः स्यात्तदा प्राग्वदापः प्राप्तावदन्तत्वाभावाद् डबर्न स्यात् । पञ्चमीभ्यस्युक्तमप्युक्तयुक्त्या ङस्युक्तमेव, तस्य यथा विषं धरतीति विषधरीत्यादौ विष अम् धर इति स्थिते विषशब्दस्य "आयुधादिभ्यो धृगोऽ-१० दण्डादेः” (५।११९४) इति सूत्रे भ्यसुक्तस्यापि डस्युक्तत्वादच्प्रत्ययान्तेन धरेत्यनेन [सह 'स्युक्तं कृता' इति तत्पुरुषस्ततः स्त्रीत्वविवक्षायां 'जातेरयान्त०' (२।४।५४) इति ङीः । यदि तु विभक्त्यन्तेन धरेत्यनेन ] समासः स्यात्तदा प्राग्वदन्तत्वाभावाद् डीन स्यात् ॥ ३१ ॥
समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिः ॥३२॥ परार्थाभिधानं वृत्तिः । सा च त्रिधा, समासतद्धितान्तनामधातुभेदात् । राजपुरुषः, औपगवः, १५ पुत्रकाम्यतीति। समासवृत्तौ समस्यमानपदानि शेषवृत्त्योस्तु प्रकृतिप्रत्ययौ सम्भूयार्थ अवन्तीति स्वार्थातिरिक्तसमुदायार्थाभिधायित्वात्परार्थाभिधायित्वं, तत्र वाक्येनाभिधाने प्राप्ते वृत्तिरारभ्यमाणा 'येन नाप्राप्ते.' इति न्यायाद्वाक्यस्य बाधिका स्यादिति विकल्पेन तस्यानुज्ञार्थोऽयं न्यायः; तथा वृत्तिपक्षे उत्सर्गापवादरूपयोवृत्त्योः सम्भवे उत्सर्गस्य नित्यमेव बाधश्चानेनोच्यते । तत्र समासवृत्तिर्यथा, कायस्य पूर्वोऽशः पूर्वकायः । अत्र "पूर्वापर.” (३।१।५२) इत्यनेनांशीतत्पुरुषो वाक्यं च; न तु “षष्ठययत्नाच्छेषे” २० ( ३।१।७६ ) इत्यौत्सर्गिकः कायपूर्व इति षष्ठीसमासः । तद्धितवृत्तिर्यथा। गर्गस्यापत्यं वृद्धं गार्यः । अत्र "गर्गादेर्यम्” ( ६।१।४२) इति यन् वाक्यं च । नत्वौत्सर्गिको गार्गिरिति "अत इञ्" (६।१।३१) इतीम् ॥ ३२ ॥
एकशब्दस्यासङ्ख्यात्वं कचित् ॥ ३३ ॥ एकशब्दस्य सङ्ख्यात्वप्रसिद्धेः कचिन्निषेधार्थोऽयं न्यायः । यथैकमह इत्यत्रैकस्यासङ्ख्यात्वात् "अह्नः" २५ (२।१।७४ ) इत्यसमासान्ते "नोऽपदस्य तद्धिते” (७४।६१) इत्यन्त्यस्वरादिलोपे "अहनियूहकलहाः" (लिङ्गानु० पुं० १५॥३) इति पुंस्त्वे प्राप्तेऽपि 'अहः सुदिनैकतः' (लिङ्गानु० न० ८।२) इति विशेषविधिना क्लीबलिङ्गत्वे एकाहमिति सिद्धम् , सङ्ख्यात्वे तु "सर्वांशसङ्ख्याव्ययात्" ( ७।३।११८) इत्यनेनाटि अनेनैव चाहादेशे 'अर्धसुदर्शनदेवनमह्ना' (लिङ्गानु० पुं० ११।१) इति पुंस्त्वे च एकाह्न इत्यनिष्टं रूपं प्रसज्येत । ज्ञापकं त्वस्य “सङ्खयातैकपुण्य.” ( ७।३।११९) इति सूत्रे चकारेण "सर्वां-३० शसङ्ख्याव्ययात्” इतिसूत्रात्सङ्ख्यानुवृत्तावपि पृथगेकशब्दग्रहणम् ॥ ३३ ॥
आदशभ्यः सङ्ख्या सङ्खयेये वर्तते न सङ्ख्याने ॥ ३४ ॥ अयं भावः-अष्टादशावधि सङ्ख्या सङ्खयेयेन सह सामानाधिकरण्येन प्रयोज्या । यथैको द्वौ त्रयो वा यावदष्टादश घटाः न तु घटानामिति । आदशभ्य इति किम् ? एकोनविंशत्यादिसङ्ख्या तु सङ्खयेये सङ्ख्याने च प्रवर्त्तते । यथैकोनविंशतिघंटा घटानां वा, यावन्नवनवतिशतं सहस्रं लक्षं कोटिर्वा घटा, घटानां वेत्यादि ॥ ३४ ॥
३६ है. प्रका० पूर्वा०६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org