________________
४२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
णौ यत्कृतं कार्य तत्सर्व स्थानिवद्भवति ॥ ३५॥ ___णाविति निमित्तसप्तमी । यथा स्फुरत् णौ सनि, पुस्फारयिषति, अत्र “चिस्फुरोर्नवा" (४।२।१२) इति आत्वस्य णौ निमित्ते सति कृतस्य स्थानिवद्भावात् स्फु इति द्वित्वं सिद्धम् ॥ ३५ ॥
द्विर्षद्धं सुबद्धं भवति ॥ ३६॥ ५ यदर्थ व्याकरणधातुपाठादौ प्रयत्नद्वयं कृतं तत्सुबद्धमव्यभिचारि भवति। यथा 'असूचु क्षेपे' अद्य० दि,
आस्थत् । अत्राङो न व्यभिचारः, अस्यतेः "शास्त्यसूवक्ति०” (३।४।६०) इति सूत्रे पुष्यादौ च पाठात् । अन्येषां तु तव्यभिचारोऽपि यथा 'भगवन्मा कोपी रिति बालरामायणे, अत्र पुष्यादित्वेऽप्यङ् न ॥३६॥
आत्मनेपदमनित्यम् ॥ ३७॥ यथाशिष्टप्रयोगं क्वचित्प्राप्तमपि न स्यात् , कचिच्चाप्राप्तमपि स्यात् । एवमुत्तरत्र न्यायचतुष्केऽपि यथा१० योगमनित्यशब्दार्थो व्याख्येयः, । यथा-"सम्यक् प्रणम्य न लभन्ति कदाचनापि” 'डुलभिंष प्राप्तौ
"परार्थे क्लिश्यतः सतः” 'क्लिशिंच् उपतापे' "नरपति सेवन्ति किं मानिनः" वृङ सेवने' "मिथ्या न भाषामि विशालनेत्रे' 'भाषि व्यक्तायां वाचिं 'तर्जिण सन्तर्जने तर्जयति । 'भर्सिण सन्तर्जने' भर्त्सयति । 'भलिण आभण्डने' भालयति । 'शमिण आलोचने निशामने' निशामयति । 'कुत्सिण्
अवक्षेपे' कुत्सयति । 'वञ्चिण प्रलम्भने' वञ्चयति । 'विदिण चेतनाख्याननिवासेषु' वेदयति । इत्या१५दिषु धातूनामिङित्त्वेऽपि नात्मनेपदम् 'षस्ज् गतौ' "प्रकृतिगुणकर्मसु सजमानकार्येषु" अग्रेडिन्त्वा
भावेऽप्यात्मनेपदम् । ज्ञापकं त्वस्य 'एजुङ् भ्रेजुङ् भ्राजि दीप्तौ' इति भ्राजेरात्मनेपदेषु पाठेऽपि 'राजग् टुभ्राजि दीप्तौ' इत्युभयपदिष्वात्मनेपदित्वेन पुनः पाठः । अयं हि द्विर्बद्धं सुबद्धमिति न्यायेनास्यात्मनेपदाव्यभिचारज्ञप्त्यर्थः, तज्ज्ञानं चानेन न्यायेनान्येषां धातूनामात्मनेपदव्यभिचारशङ्कायां सार्थकमिति ॥ ३७॥
विपि व्यञ्जनकार्यमनित्यम् ॥ ३८॥ तत्राख्यातकिपि यथा । राजेवाचरति "कर्तुः विप्०” (३।४।२५) इति क्विपि राजनतीत्यादौ किप्सत्कवकारव्यञ्जनद्वारप्राप्तस्य "नामसिदय्व्यञ्जने” (११।२१) इति पदत्वस्याभवनात् “नानो नोऽनह्नः” (२।१।९१) इति नस्य लुग् नाभूत् । कृक्तिपि यथा गीर्यते इति "कुत्संपदादिभ्यः विप्" (५।३।११४ ) इति क्विपि गिरौ गिरः, अत्र प्राग्वत्प्राप्तपदत्वाभवनात् "पदान्ते" (२।१।६४ ) इति २५ दी? न ॥ ३८ ॥
स्थानिवद्भावपुंवद्भावैकशेषद्वन्द्वकत्वदीर्घत्वान्यनित्यानि ॥ ३९ ॥ कचिदिति शेषः, एवमुत्तरन्यायेऽपि । द्वन्द्वैकत्वं समाहारद्वन्द्वः, दीर्घत्वं "भ्वादेर्नामिनः०” (२।१।६३) इति सूत्रविहितं प्रायम् , ततः पञ्चैतान्यनित्यानि । तत्र स्थानिवद्भायो यथा । स्वाद्वकार्षीत् णिजि असिस्वददित्यत्र उकारस्य वृद्धावन्त्यस्वरादिलुकि तस्य स्थानिवद्भावाभवनेनाकारस्योपान्त्यत्वात् ३० "उपान्त्यस्यासमान०” (४।२।३५) इति ह्रस्वः। १ । पुंवद्भावो यथा । दक्षिणस्यां भवो "दक्षिणापश्चात्०" (६।३।१३) इति त्यणि दाक्षिणात्यः, अत्र “सर्वादयोऽस्यादौ” (३।२।६१) इति प्राप्तोऽपि पुंवद्भावो न, ज्ञापकं त्वस्य "कौण्डिन्यागस्त्ययोः०" (६।१।१२७) इति सूत्रनिर्देशः ।
अयं हि कौण्डिन्यशब्दः पुंवद्भावानित्यत्वं विना न सिद्धयति । तथाहि-'कुडुङ् दाहे' इत्यस्मात् ३४ "अजातेः शीले” (५।१।१५४ ) इति णिनि त्रीत्वे डयां कुण्डिनी, ततो वृद्धापत्यार्थे यमि "जातिश्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org