________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । सूरिसूचिता न्यायाः
४३
णितद्धितयस्वरे” (३।२।५१ ) इति प्राप्तः पुंवद्भावो यदि स्यात्तदा ङीनिवृत्तौ “नोऽपदस्य ०” (७।४।६१ ) इति इन्लोपे कौण्ड्य इति प्राप्नोति । २ । एकशेषो यथा । "तदतदात्मकं तत्त्वमातिष्ठन्ते जैनाः” अत्र “त्यदादिः” ( ३।१।१२० ) इति प्राप्त तच्छब्दैकशेषो न । ३ । द्वन्द्वैकत्वं यथा शङ्खदुन्दुभिवीणाः अत्र " प्राणितूर्याङ्गाणाम् ” ( ३ | १|१३७ ) इति प्राप्तोऽपि समाहारद्वन्द्वो न, ज्ञापकं त्वस्य "प्राणितूर्याङ्गाणामिति सूत्रे बहुवचनमेव । ४ । दीर्घत्वं यथा 'कुर्दि क्रीडायां' कुर्दते " रम्यादिभ्यः कर्त्तरि" ५ ( ५ | ३ | १२६ ) इत्यनेन कुर्दनः, 'गुर्वै उद्यमे' " णिन् चावश्यका०" ( ५।४।३६ ) इति णिनि ङयां गुर्विणी इत्यादौ "वादेर्नामिनः ०" ( २।१।६३ ) इति दीर्घो न, ज्ञापकं त्वस्य स्फूर्ज ऊर्ज इत्यादीनां कृतदीर्घाणामेव धातुषु पठनं न तु हुर्च्छामुदीनामिवाकृतदीर्घाणां, तच स्फूर्जादीनां दीर्घत्वाव्यभिचारद्वारेणान्येषां तद्व्यभिचारज्ञापनार्थमिति । ५ । ॥ ३९ ॥
अनित्यो णिचुरादीनाम् ॥ ४० ॥
१०
सर्वत्र भवन्नपि यथाप्रयोगदर्शनं कचिन्न स्यादपीत्यर्थः । यथा चुरण् चोरति । चितुण् चिन्तति । छदण् छदनम् । तुलण् “भिदादयः ” ( ५।३।१०८ ) इत्यङि तुला इत्यादि सिद्धम् । घोषकं त्वस्य चुरादिघुष ऋदित्त्वम्, तद्धि "ऋदिच्छ्रिस्तम्भू०” ( ३।४।६५ ) इत्यङि, अघुषदित्यादिरूपसिद्धयर्थं कृतं, णिच ऐकान्तिकत्वे तु विशेषविधित्वात् “णिश्रिद्रुश्रु० " ( ३ | ४|५८ ) इति ङस्यैव प्राप्तेरजूघुषदित्याद्येव भवनेनाङो ऽवकाशस्यैवाभावात्, अस्यानित्यत्वाश्च युजादिवर्जानामेव चुरादीनां यथाशिष्टप्रयोगमनियतो १५ णिच्, युजादीनां तु "युजादेर्न वा ” ( ३।४।१८) इति नियत एव णिजूविकल्पः ॥ ४० ॥
णिलोपोऽप्यनित्यः ॥ ४१ ॥
कचिदित्यध्याहार्य, यथाप्राप्ति सर्वत्र भवन्नपि कचिन्न भवतीत्यर्थः । यथा " मधवो युधि सुप्रकम्पयाः”, अत्र सुप्रपूर्वात् ण्यन्तात्कम्पेः खलि, लुबोऽनित्यत्वादभवनेऽयादेशः सिद्धः ॥ ४१ ॥ णिसन्नियोगे एव चुरादीनामदन्तता ॥ ४२ ॥
चुरादीनामिति सामान्योक्तेऽप्यङ्कादीनां कुहण्यन्तानामिति ज्ञेयं नान्येषां तेषामदन्तत्वस्यैवासम्भवात्। प्राग् णिचः सर्वत्र यथादर्शनमदन्तत्वोक्तेर्णिजभावपक्षे अङ्कादीनामदन्ततानिषेधार्थोऽयं न्यायः । यथा जगणतुरित्यादौ णिजभावपक्षेऽनदन्तत्वेनानेकस्वरत्वाभावादामादेशो नाभूत् ॥ ४२ ॥
धातवोऽनेकार्थाः ॥ ४३ ॥
ततो धातुपाठेऽनुक्तोऽप्यर्थो लक्ष्यानुसारात्तेषां प्रयोज्य इत्यर्थः । यथा 'विधत् विधाने' । अयं २५ व्यधार्थेऽपि, यथा वेधः शब्दवेधी । एधि वृद्धौ । अयं दीप्त्यर्थेऽपि "पुरश्चक्रं तवैधते", प्राप्त्यर्थेऽ औपवस्त्रफलमेधते । ‘शुच् शोके' अयं पावित्र्येऽपि शुचिः । मननं मतं मतशब्दः साम्येऽपि । यथा “मतीकृता क्षेत्रभूः”, समीकृतेत्यर्थः । ज्ञापकं त्वस्य " तक्षः स्वार्थे वा ” (३।४।७७ ) इत्यत्र स्वार्थे इति विशेषणं तेनेहार्थान्तरे श्रुर्न - "संतक्षति वाग्भिः शिष्यं”, निर्भर्त्सयतीत्यर्थः ॥ ४३ ॥
गत्यर्था ज्ञानार्थाः ॥ ४४ ॥
३०
धातव इति योगः । यथा “गमयति शब्दोऽर्थं”, ज्ञापयतीत्यर्थः । ज्ञापकं त्वस्य "णावज्ञाने गमुः” (४।४।२४ ) इत्यत्रेणोऽज्ञान इति विशेषणमेतन्यायाभावे गत्यर्थस्येणो ज्ञानार्थत्वासम्भवेऽज्ञानार्थेत्युक्तिव्यर्थैव स्यादिति ॥ ४४ ॥
२०
नाम्नां व्युत्पत्तिरव्यवस्थिता ॥ ४५ ॥
नामान्यनेकधा व्युत्पाद्यन्त इत्यर्थः । यथा अश्वस्याम्बा वडवा, असृगालेढि सृगालः, मयां रौति ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org