________________
४४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमयूरेत्यादि पृषोदरादित्वात् सिद्धम् । पुनः 'वड आग्रहणे' इति सौत्रधातोः “वडिवटि०" ( उणा० ५१५) इत्यवे वडवा, मृधातोः "सर्तेोऽन्तश्च" (उणा० ४७८) इति कित्याले गागमे च सृगालः । मीनातेः “मीमसि.” ( उणा० ४२७) इत्यूरे मयूर इत्युणादिसूत्रैरपि साधितम् । तथा सूर्यशब्दः कृति "कुप्यभिद्य०" (५।१।३९) इति सूत्रेण सृधातोः क्यपि संज्ञायां निपातितः, पुनस्तद्धिते सूर५शब्दस्य "मर्त्तादिभ्यो यः” (७।२।१५९) इति यप्रत्यये साधितः । अनित्यत्वाचास्य रूढनाम्नामेव व्युत्पत्तिरव्यवस्थिता न तु यौगिकानां नीलकण्ठादीनामिति ॥ ४५ ॥
उणादयोऽव्युत्पन्नानि नामानि ॥ ४६॥ अवयवावयविनोरभेदोपचारादुणादय इत्युणादिप्रत्ययान्तानि । अयं भाव:-"कृवापाजिस्खदि." ( उणा० १) इत्यादिना पञ्चोत्तरसूत्रसहस्रेण "उणादयः" (५।२।९३) इति सूत्रसूचितेन कारुवायु१० पायवादीनि नामानि व्युत्पादितानि तत्प्रकृतिप्रत्ययविभागेन वर्णानुपूर्वीनिर्ज्ञानार्थमेव न तु कर्तेत्यादि क्रियाशब्दवदन्वर्थदर्शनार्थमिति । तत्त्वतस्तान्यव्युत्पन्नान्येव तेषां रूढिशब्दत्वेन व्युत्पत्तेरकिञ्चित्करत्वात् । यथा, वीरधातोः “पटिवीभ्याम्” ( उणा० ५७९) इति डिसे विसं, तत्त्वतोऽस्याव्युत्पन्नत्वेन सस्य कृतत्वाभावात्षत्वं न स्यादिति, अनित्यत्वाचास्य वपेरौणादिके "रुद्यतिः” ( उणा० ९९७)
इत्युसि वपुषेत्यादौ कृतत्वात्सस्य षः सिद्धः । अनित्यत्वज्ञापकं त्वस्य "तृस्वसृ०” (१।४।३८) इति १५ सूत्रे अस्य न्यायस्यानित्यत्वात् तृग्रहणेनैव नप्त्रादिग्रहणे सिद्धे नियमार्थ नप्त्रादीनां पृथग्ग्रहणं, नियमश्वायम्-औणादिकतृप्रत्ययान्तानां नष्त्रादीनामेवार तेन मातरौ, पितरौ इत्यत्रार् न स्यात् ॥ ४६ ॥
शुद्धधातूनामकृत्रिम रूपम् ॥४७॥ धातुपाठपठितरूपा धातवः कृता इति नोच्यन्ते । यथा 'मुसच् खण्डने', उणादौ कित्यले मुसलम् । अत्र सस्य कृतत्वाभावात्षत्वं न स्यात् ।। ४७ ॥
क्विवन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते ॥४८॥ धातुत्वमिति नामार्थसंवलितधात्वर्थाभिधायित्वाद्गौणधातुत्वं तत एव शब्दत्वं च उपचाराद् वृक्षादिवन्नामत्वं च प्रतिपद्यन्ते, धातुत्वनामत्वयोः कार्य लभन्ते इत्यर्थः । यथा नियौ लुवौ इत्यादौ धातुत्वादियुवौ, नामत्वात्स्यादयश्च ॥ ४८ ॥
उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाक् ॥ ४९ ॥ २५ यथा आङ्, 'ईषि गतौ' आ ईष्यः एष्यः। ततः प्रेण योगे आङ् ईतो स्थानजस्य एतोः यदा आङादेशत्वं तदा "ओमाङि” ( १।२।१८) इत्यल्लोपे प्रेष्य इति स्यात् , धात्वादेशत्वे च "उपसर्गस्यानिणेधेदोति" ( १।२।१९) इत्यल्लोपः स्यात् , परं तं बाधित्वा विशेषविहितत्वात् "प्रस्यैषैष्योढोढ्यूहे स्वरेण" (१।२।१४ ) इत्यैत्वे प्रैष्य इति सिद्धम् । अनित्यत्वाचास्य राजानमाख्यदरराजदित्यत्रान्त्यस्वरादि
लोपस्य अन्रूपस्खरव्यञ्जनोभयस्थाननिष्पन्नत्वेऽपि स्वरादेशतैव व्यपदेश्या न तु व्यञ्जनादेशता, तद्व्यप३० देशे ह्यसमानलोपित्वादुपान्त्यहस्वस्य सन्वद्भावादेश्च सिद्धावरीरजदिति स्यात् ॥ ४९॥
अवयवे कृतं लिङ्गं समुदायमपि विशिनष्टि चेत्तं समुदायं सोऽवयवो न व्यभिचरति ॥ ५० ॥ ___ यथा 'कुस्मिण कुस्मयने' अस्मात् "चुरादिभ्यो णिच्” (३।४।१७) इति णिचि कुस्मयते । चित्रशब्द
आश्चर्याथें ङित् , चित्रं करोतीति वाक्ये “नमोवरिवश्चित्रडोऽर्चासेवाश्चर्ये” (३।४।३७) इति क्यनि ३४ चित्रीयते । 'महीङ् पूजायां' कण्डादिः, "धातोः कण्डादेर्यक्” ( ३।४।८) इति यकि महीयते इत्यादौ;
२०
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org