________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । सूरिसूचिता न्यायाः
४५ कुस्म्यादीनामिङित्त्वेन णिक्यन्यगन्तसमुदायस्यापि इङित्त्वादात्मनेपदम् ; कुस्म्यादीनां णिचाद्यन्तसमुदायेनाव्यभिचारित्वात् । चेत्तं समुदायमित्यादि किम् ? कुस्म्यादीनां णिचाचागमादनु प्रयोक्तव्यापारार्थणिगन्तानां समुदायडित्त्वहेतुकमात्मनेपदं मा भूत् । णिगः प्रयोक्तृव्यापारे सत्येवोत्पत्तेः, कुस्म्यादीनां णिगन्तसमुदायव्यभिचारित्वादिति ॥ ५० ॥
येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः॥५१॥ तदन्यधात्वादियोगे उपसर्गकार्य न स्यादित्यर्थः। यथा प्रर्च्छक इत्यत्र प्रगता ऋच्छका यस्मादिति वाक्ये गतार्थमन्तर्भाव्य प्रवर्त्तमानेन प्रेण णकप्रत्ययस्यैवार्थः कर्त्ता विशेष्यते न तु ऋच्छिप्रकृतेरर्थः । ये ऋच्छन्ति कर्तृरूपास्ते प्रगताः तदेवं प्रस्य प्राच्छिना सह सम्बन्धाभावादनुपसर्गत्वाद् "ऋत्यारुपसर्गस्य” (१।२।९) इत्यार् न ॥ ५१ ॥
यत्रोपसर्गत्वं न सम्भवति तत्रोपसर्गशब्देन प्रादयो
लक्ष्यन्ते न तु सम्भवत्युपसर्गत्वे ॥ ५२ ॥ यथा प्रगतोऽध्वानं प्राध्वो रथ इत्यादौ प्रस्यानुपसर्गत्वेऽपि "उपसर्गादध्वनः" (७।३।७९) इत्यत् समासान्तः । प्रस्थानुपसर्गत्वं तु उपसृत्य धातुमर्थविशेष सृजतीत्यन्वर्थानाश्रयणात् ॥ ५२ ॥
शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः॥५३॥ आदेर्धर्मसाध्वर्थयोर्ग्रहः । प्राप्तप्रतिषेधार्थोऽयं न्यायः एवमुत्तरोऽपि । यथा अलङ्करिष्णुः कन्यामि-१५ त्यादौ "भ्राज्यलङ्कग्निराकृग्०” (५।२।२८) इति इष्णुरेव स्याद् न तु "सन् शीलधर्मसाधुषु" (५।२।२७) इत्यनेन तृन् । तेन शीलाद्यर्थेऽलङ्कर्तेत्यादिप्रयोगो न साधुः ॥ ५३ ॥
त्यादिष्वन्योन्यं नासरूपोत्सर्गविधिः ॥५४॥ यत्रोत्सर्गरूपायास्त्यादिविभक्तेर्विषयेऽपवादरूपा त्यादिविभक्तिः प्राप्नोति, तद्विषये औत्सर्गिकी त्यादिविभक्तिः "असरूपोऽपवादे.” (५।१।१६) इत्यनेन प्राप्ताप्येतन्यायेन निषिध्यते । यथा स्मरसि २० चैत्र कश्मीरेषु वत्स्याम इत्यादौ "अयदि स्मृत्यर्थे०” (५।२।९) इति भविष्यन्ती, तद्विषये "अनद्यतने ह्यस्तनी" ( ५।२।७) इत्यौत्सर्गिकी विभक्तिर्न स्यात् । त्यादि विभक्तीनामेवान्योन्यमसरूपोत्सर्गविधिनिषिध्यते प्रत्ययेन तु समं त्यादिविभक्तीनां सोऽस्त्येव, तेनोपशुश्राव इत्यादौ "श्रुसदवस्भ्यः परोक्षा वा" (५।२।१) इति परोक्षावत्तद्विषये उत्सर्गभूताः क्तादयोऽपि स्युरेव, यथा उपश्रुतः उपश्रुतवान् । ज्ञापकं त्वस्य "श्रुसद०" इत्यत्र वाग्रहणम् । तद्धि पक्षे यथाकालमद्यतनीहस्तन्यर्थम् । ते चैतन्या-२५ याभावे सरूपत्वात् सिद्धे एवेति ॥ ५४ ॥
स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ॥ ५५॥ स्त्रीति रूयुक्ताः; अन् इति चानट्प्रत्ययः । “असरूपोपवादे.” (५।१।१६) इत्यनेन क्तेः प्राग् ये प्रत्ययास्तेषु पाक्षिकोऽसरूपविधिर्व्यवस्थापितस्तदनेतनप्रत्ययानां तु स्पः सति व्यवस्थार्थोऽयं न्यायः। यथा चयनं चितिरित्यादौ "स्त्रियां क्तिः” (५।३।९१) "युवर्ण.” (५।३।२८) इत्याभ्यां क्रमात् ३० रुयलोः प्राप्तौ परत्वात् ख्येव । दुःखेन चीयते दुश्चयमित्यादौ "दुःस्वीषतः०" (५।३।१३९) "युवर्ण०" इत्याभ्यां क्रमात् खललोः प्राप्तौ परत्वात् खलेव । पलाशानि शात्यन्तेऽनेनेति पलाशशातनो दण्ड इत्यादौ "करणाधारे" ( ५।३।१२९) "युवर्ण०" इत्याभ्यां क्रमादनडलोः प्राप्तौ परत्वादनडेव । "स्पर्द्ध" (७४।११९) इति परिभाषायाः प्रपश्चोऽयम् । अनित्यत्वाचास्य जय इत्यादौ ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org